Sūkta 46
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (4, 8, 10); pādanicṛttriṣṭup (1, 2); svarāḍārcītriṣṭup (3, 5); bhurigārcītriṣṭup (6); virāṭtrisṭup (7); nicṛttriṣṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।
दधि॒र्यो धायि॒ स ते॒ वयां॑सि यं॒ता वसू॑नि विध॒ते त॑नू॒पाः ॥प्र होता जातो महान् नभोविन् नृषद्वा सीदद् अपाम् उपस्थे |
दधिर् यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ||prá hótā jātó mahā́nnabhovínnṛṣádvā sīdadapā́mupásthe ǀ
dádhiryó dhā́yi sá te váyāṃsi yantā́ vásūni vidhaté tanūpā́ḥ ǁpra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe |
dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ ||प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ ।
दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥प्र । होता । जातः । महान् । नभःऽवित् । नृऽसद्वा । सीदत् । अपाम् । उपऽस्थे ।
दधिः । यः । धायि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूऽपाः ॥prá ǀ hótā ǀ jātáḥ ǀ mahā́n ǀ nabhaḥ-vít ǀ nṛ-sádvā ǀ sīdat ǀ apā́m ǀ upá-sthe ǀ
dádhiḥ ǀ yáḥ ǀ dhā́yi ǀ sáḥ ǀ te ǀ váyāṃsi ǀ yantā́ ǀ vásūni ǀ vidhaté ǀ tanū-pā́ḥ ǁpra ǀ hotā ǀ jātaḥ ǀ mahān ǀ nabhaḥ-vit ǀ nṛ-sadvā ǀ sīdat ǀ apām ǀ upa-sthe ǀ
dadhiḥ ǀ yaḥ ǀ dhāyi ǀ saḥ ǀ te ǀ vayāṃsi ǀ yantā ǀ vasūni ǀ vidhate ǀ tanū-pāḥ ǁ10.46.1 Aṣṭaka 8.1.1.1Anuvāka 10.4.35
-
Ṛk 2
इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।
गुहा॒ चतं॑तमु॒शिजो॒ नमो॑भिरि॒च्छंतो॒ धीरा॒ भृग॑वोऽविंदन् ॥इमं विधन्तो अपां सधस्थे पशुं न नष्टम् पदैर् अनु ग्मन् |
गुहा चतन्तम् उशिजो नमोभिर् इच्छन्तो धीरा भृगवो ऽविन्दन् ||imám vidhánto apā́m sadhásthe paśúm ná naṣṭám padáiránu gman ǀ
gúhā cátantamuśíjo námobhiricchánto dhī́rā bhṛ́gavo’vindan ǁimaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman |
guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan ||इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् ।
गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥इमम् । विधन्तः । अपाम् । सधऽस्थे । पशुम् । न । नष्टम् । पदैः । अनु । ग्मन् ।
गुहा । चतन्तम् । उशिजः । नमःऽभिः । इच्छन्तः । धीराः । भृगवः । अविन्दन् ॥imám ǀ vidhántaḥ ǀ apā́m ǀ sadhá-sthe ǀ paśúm ǀ ná ǀ naṣṭám ǀ padáiḥ ǀ ánu ǀ gman ǀ
gúhā ǀ cátantam ǀ uśíjaḥ ǀ námaḥ-bhiḥ ǀ icchántaḥ ǀ dhī́rāḥ ǀ bhṛ́gavaḥ ǀ avindan ǁimam ǀ vidhantaḥ ǀ apām ǀ sadha-sthe ǀ paśum ǀ na ǀ naṣṭam ǀ padaiḥ ǀ anu ǀ gman ǀ
guhā ǀ catantam ǀ uśijaḥ ǀ namaḥ-bhiḥ ǀ icchantaḥ ǀ dhīrāḥ ǀ bhṛgavaḥ ǀ avindan ǁ10.46.2 Aṣṭaka 8.1.1.2Anuvāka 10.4.36
-
Ṛk 3
इ॒मं त्रि॒तो भूर्य॑विंददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।
स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥इमं त्रितो भूर्य् अविन्दद् इच्छन् वैभूवसो मूर्धन्य् अघ्न्यायाः |
स शेवृधो जात आ हर्म्येषु नाभिर् युवा भवति रोचनस्य ||imám tritó bhū́ryavindadicchánvaibhūvasó mūrdhányághnyāyāḥ ǀ
sá śévṛdho jātá ā́ harmyéṣu nā́bhiryúvā bhavati rocanásya ǁimaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ |
sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya ||इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः ।
सः । शेऽवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभुऽवसः । मूर्धनि । अघ्न्यायाः ।
सः । शेऽवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य ॥imám ǀ tritáḥ ǀ bhū́ri ǀ avindat ǀ icchán ǀ vaibhu-vasáḥ ǀ mūrdháni ǀ ághnyāyāḥ ǀ
sáḥ ǀ śé-vṛdhaḥ ǀ jātáḥ ǀ ā́ ǀ harmyéṣu ǀ nā́bhiḥ ǀ yúvā ǀ bhavati ǀ rocanásya ǁimam ǀ tritaḥ ǀ bhūri ǀ avindat ǀ icchan ǀ vaibhu-vasaḥ ǀ mūrdhani ǀ aghnyāyāḥ ǀ
saḥ ǀ śe-vṛdhaḥ ǀ jātaḥ ǀ ā ǀ harmyeṣu ǀ nābhiḥ ǀ yuvā ǀ bhavati ǀ rocanasya ǁ10.46.3 Aṣṭaka 8.1.1.3Anuvāka 10.4.37
-
Ṛk 4
मं॒द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्रांचं॑ य॒ज्ञं ने॒तार॑मध्व॒राणां॑ ।
वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥मन्द्रं होतारम् उशिजो नमोभिः प्राञ्चं यज्ञं नेतारम् अध्वराणाम् |
विशाम् अकृण्वन्न् अरतिम् पावकं हव्यवाहं दधतो मानुषेषु ||mandrám hótāramuśíjo námobhiḥ prā́ñcam yajñám netā́ramadhvarā́ṇām ǀ
viśā́makṛṇvannaratím pāvakám havyavā́ham dádhato mā́nuṣeṣu ǁmandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām |
viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu ||म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् ।
वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥मन्द्रम् । होतारम् । उशिजः । नमःऽभिः । प्राञ्चम् । यज्ञम् । नेतारम् । अध्वराणाम् ।
विशाम् । अकृण्वन् । अरतिम् । पावकम् । हव्यऽवाहम् । दधतः । मानुषेषु ॥mandrám ǀ hótāram ǀ uśíjaḥ ǀ námaḥ-bhiḥ ǀ prā́ñcam ǀ yajñám ǀ netā́ram ǀ adhvarā́ṇām ǀ
viśā́m ǀ akṛṇvan ǀ aratím ǀ pāvakám ǀ havya-vā́ham ǀ dádhataḥ ǀ mā́nuṣeṣu ǁmandram ǀ hotāram ǀ uśijaḥ ǀ namaḥ-bhiḥ ǀ prāñcam ǀ yajñam ǀ netāram ǀ adhvarāṇām ǀ
viśām ǀ akṛṇvan ǀ aratim ǀ pāvakam ǀ havya-vāham ǀ dadhataḥ ǀ mānuṣeṣu ǁ10.46.4 Aṣṭaka 8.1.1.4Anuvāka 10.4.38
-
Ṛk 5
प्र भू॒र्जयं॑तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माणं॑ ।
नयं॑तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चं ॥प्र भूर् जयन्तम् महां विपोधाम् मूरा अमूरम् पुरां दर्माणम् |
नयन्तो गर्भं वनां धियं धुर् हिरिश्मश्रुं नार्वाणं धनर्चम् ||prá bhūrjáyantam mahā́m vipodhā́m mūrā́ ámūram purā́m darmā́ṇam ǀ
náyanto gárbham vanā́m dhíyam dhurhíriśmaśrum nā́rvāṇam dhánarcam ǁpra bhūr jayantam mahāṃ vipodhām mūrā amūram purāṃ darmāṇam |
nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam ||प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् ।
नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥प्र । भूः । जयन्तम् । महान् । विपःऽधाम् । मूराः । अमूरम् । पुराम् । दर्माणम् ।
नयन्तः । गर्भम् । वनाम् । धियम् । धुः । हिरिऽश्मश्रुम् । न । अर्वाणम् । धनऽअर्चम् ॥prá ǀ bhūḥ ǀ jáyantam ǀ mahā́n ǀ vipaḥ-dhā́m ǀ mūrā́ḥ ǀ ámūram ǀ purā́m ǀ darmā́ṇam ǀ
náyantaḥ ǀ gárbham ǀ vanā́m ǀ dhíyam ǀ dhuḥ ǀ híri-śmaśrum ǀ ná ǀ árvāṇam ǀ dhána-arcam ǁpra ǀ bhūḥ ǀ jayantam ǀ mahān ǀ vipaḥ-dhām ǀ mūrāḥ ǀ amūram ǀ purām ǀ darmāṇam ǀ
nayantaḥ ǀ garbham ǀ vanām ǀ dhiyam ǀ dhuḥ ǀ hiri-śmaśrum ǀ na ǀ arvāṇam ǀ dhana-arcam ǁ10.46.5 Aṣṭaka 8.1.1.5Anuvāka 10.4.39
-
Ṛk 6
नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीददं॒तः ।
अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणायं॒त्रैरी॑यते॒ नॄन् ॥नि पस्त्यासु त्रित स्तभूयन् परिवीतो योनौ सीदद् अन्तः |
अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैर् ईयते नॄन् ||ní pastyā́su tritáḥ stabhūyánpárivīto yónau sīdadantáḥ ǀ
átaḥ saṃgṛ́bhyā viśā́m dámūnā vídharmaṇāyantráirīyate nṝ́n ǁni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ |
ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn ||नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ ।
अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑नाः । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥नि । पस्त्यासु । त्रितः । स्तभुऽयन् । परिऽवीतः । योनौ । सीदत् । अन्तरिति ।
अतः । सम्ऽगृभ्य । विशाम् । दमूनाः । विऽधर्मणा । अयन्त्रैः । ईयते । नॄन् ॥ní ǀ pastyā́su ǀ tritáḥ ǀ stabhu-yán ǀ pári-vītaḥ ǀ yónau ǀ sīdat ǀ antáríti ǀ
átaḥ ǀ sam-gṛ́bhya ǀ viśā́m ǀ dámūnāḥ ǀ ví-dharmaṇā ǀ ayantráiḥ ǀ īyate ǀ nṝ́n ǁni ǀ pastyāsu ǀ tritaḥ ǀ stabhu-yan ǀ pari-vītaḥ ǀ yonau ǀ sīdat ǀ antariti ǀ
ataḥ ǀ sam-gṛbhya ǀ viśām ǀ damūnāḥ ǀ vi-dharmaṇā ǀ ayantraiḥ ǀ īyate ǀ nṝn ǁ10.46.6 Aṣṭaka 8.1.2.1Anuvāka 10.4.40
-
Ṛk 7
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।
श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥अस्याजरासो दमाम् अरित्रा अर्चद्धूमासो अग्नयः पावकाः |
श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ||asyā́járāso damā́marítrā arcáddhūmāso agnáyaḥ pāvakā́ḥ ǀ
śvitīcáyaḥ śvātrā́so bhuraṇyávo vanarṣádo vāyávo ná sómāḥ ǁasyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ |
śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ||अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः ।
श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥अस्य । अजरासः । दमाम् । अरित्राः । अर्चत्ऽधूमासः । अग्नयः । पावकाः ।
श्वितीचयः । श्वात्रासः । भुरण्यवः । वनऽसदः । वायवः । न । सोमाः ॥asyá ǀ ajárāsaḥ ǀ damā́m ǀ arítrāḥ ǀ arcát-dhūmāsaḥ ǀ agnáyaḥ ǀ pāvakā́ḥ ǀ
śvitīcáyaḥ ǀ śvātrā́saḥ ǀ bhuraṇyávaḥ ǀ vana-sádaḥ ǀ vāyávaḥ ǀ ná ǀ sómāḥ ǁasya ǀ ajarāsaḥ ǀ damām ǀ aritrāḥ ǀ arcat-dhūmāsaḥ ǀ agnayaḥ ǀ pāvakāḥ ǀ
śvitīcayaḥ ǀ śvātrāsaḥ ǀ bhuraṇyavaḥ ǀ vana-sadaḥ ǀ vāyavaḥ ǀ na ǀ somāḥ ǁ10.46.7 Aṣṭaka 8.1.2.2Anuvāka 10.4.41
-
Ṛk 8
प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।
तमा॒यवः॑ शु॒चयं॑तं पाव॒कं मं॒द्रं होता॑रं दधिरे॒ यजि॑ष्ठं ॥प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः |
तम् आयवः शुचयन्तम् पावकम् मन्द्रं होतारं दधिरे यजिष्ठम् ||prá jihváyā bharate vépo agníḥ prá vayúnāni cétasā pṛthivyā́ḥ ǀ
támāyávaḥ śucáyantam pāvakám mandrám hótāram dadhire yájiṣṭham ǁpra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ |
tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham ||प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः ।
तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः ।
तम् । आयवः । शुचयन्तम् । पावकम् । मन्द्रम् । होतारम् । दधिरे । यजिष्ठम् ॥prá ǀ jihváyā ǀ bharate ǀ vépaḥ ǀ agníḥ ǀ prá ǀ vayúnāni ǀ cétasā ǀ pṛthivyā́ḥ ǀ
tám ǀ āyávaḥ ǀ śucáyantam ǀ pāvakám ǀ mandrám ǀ hótāram ǀ dadhire ǀ yájiṣṭham ǁpra ǀ jihvayā ǀ bharate ǀ vepaḥ ǀ agniḥ ǀ pra ǀ vayunāni ǀ cetasā ǀ pṛthivyāḥ ǀ
tam ǀ āyavaḥ ǀ śucayantam ǀ pāvakam ǀ mandram ǀ hotāram ǀ dadhire ǀ yajiṣṭham ǁ10.46.8 Aṣṭaka 8.1.2.3Anuvāka 10.4.42
-
Ṛk 9
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रं ॥द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः |
ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ||dyā́vā yámagním pṛthivī́ jániṣṭāmā́pastváṣṭā bhṛ́gavo yám sáhobhiḥ ǀ
īḷényam prathamám mātaríśvā devā́statakṣurmánave yájatram ǁdyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ |
īḷenyam prathamam mātariśvā devās tatakṣur manave yajatram ||द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः ।
ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहःऽभिः ।
ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम् ॥dyā́vā ǀ yám ǀ agním ǀ pṛthivī́ íti ǀ jániṣṭām ǀ ā́paḥ ǀ tváṣṭā ǀ bhṛ́gavaḥ ǀ yám ǀ sáhaḥ-bhiḥ ǀ
īḷényam ǀ prathamám ǀ mātaríśvā ǀ devā́ḥ ǀ tatakṣuḥ ǀ mánave ǀ yájatram ǁdyāvā ǀ yam ǀ agnim ǀ pṛthivī iti ǀ janiṣṭām ǀ āpaḥ ǀ tvaṣṭā ǀ bhṛgavaḥ ǀ yam ǀ sahaḥ-bhiḥ ǀ
īḷenyam ǀ prathamam ǀ mātariśvā ǀ devāḥ ǀ tatakṣuḥ ǀ manave ǀ yajatram ǁ10.46.9 Aṣṭaka 8.1.2.4Anuvāka 10.4.43
-
Ṛk 10
यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रं ।
स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥यं त्वा देवा दधिरे हव्यवाहम् पुरुस्पृहो मानुषासो यजत्रम् |
स यामन्न् अग्ने स्तुवते वयो धाः प्र देवयन् यशसः सं हि पूर्वीः ||yám tvā devā́ dadhiré havyavā́ham puruspṛ́ho mā́nuṣāso yájatram ǀ
sá yā́mannagne stuvaté váyo dhāḥ prá devayányaśásaḥ sám hí pūrvī́ḥ ǁyaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram |
sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ ||यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् ।
सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥यम् । त्वा । देवाः । दधिरे । हव्यऽवाहम् । पुरुऽस्पृहः । मानुषासः । यजत्रम् ।
सः । यामन् । अग्ने । स्तुवते । वयः । धाः । प्र । देवऽयन् । यशसः । सम् । हि । पूर्वीः ॥yám ǀ tvā ǀ devā́ḥ ǀ dadhiré ǀ havya-vā́ham ǀ puru-spṛ́haḥ ǀ mā́nuṣāsaḥ ǀ yájatram ǀ
sáḥ ǀ yā́man ǀ agne ǀ stuvaté ǀ váyaḥ ǀ dhāḥ ǀ prá ǀ deva-yán ǀ yaśásaḥ ǀ sám ǀ hí ǀ pūrvī́ḥ ǁyam ǀ tvā ǀ devāḥ ǀ dadhire ǀ havya-vāham ǀ puru-spṛhaḥ ǀ mānuṣāsaḥ ǀ yajatram ǀ
saḥ ǀ yāman ǀ agne ǀ stuvate ǀ vayaḥ ǀ dhāḥ ǀ pra ǀ deva-yan ǀ yaśasaḥ ǀ sam ǀ hi ǀ pūrvīḥ ǁ10.46.10 Aṣṭaka 8.1.2.5Anuvāka 10.4.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.