Ṛgveda · Maṇḍala 10 · Sūkta 46
Ṛk 10.46.9
Saṃhitā
द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रं ॥
द्यावा यम् अग्निम् पृथिवी जनिष्टाम् आपस् त्वष्टा भृगवो यं सहोभिः |
ईळेन्यम् प्रथमम् मातरिश्वा देवास् ततक्षुर् मनवे यजत्रम् ||
dyā́vā yámagním pṛthivī́ jániṣṭāmā́pastváṣṭā bhṛ́gavo yám sáhobhiḥ ǀ
īḷényam prathamám mātaríśvā devā́statakṣurmánave yájatram ǁ
dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ |
īḷenyam prathamam mātariśvā devās tatakṣur manave yajatram ||
Padapāṭha
द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः ।
ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥
द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहःऽभिः ।
ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम् ॥
dyā́vā ǀ yám ǀ agním ǀ pṛthivī́ íti ǀ jániṣṭām ǀ ā́paḥ ǀ tváṣṭā ǀ bhṛ́gavaḥ ǀ yám ǀ sáhaḥ-bhiḥ ǀ
īḷényam ǀ prathamám ǀ mātaríśvā ǀ devā́ḥ ǀ tatakṣuḥ ǀ mánave ǀ yájatram ǁ
dyāvā ǀ yam ǀ agnim ǀ pṛthivī iti ǀ janiṣṭām ǀ āpaḥ ǀ tvaṣṭā ǀ bhṛgavaḥ ǀ yam ǀ sahaḥ-bhiḥ ǀ
īḷenyam ǀ prathamam ǀ mātariśvā ǀ devāḥ ǀ tatakṣuḥ ǀ manave ǀ yajatram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.046.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.02.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.043
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsaprī Bhālandana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.