Sūkta 60
- Devatā देवता
- 1-4, 6: Asamāti; 5: Indra; 7-11: A Summons Back To Life For Subandhu; 12: Hastaḥ
- Ṛṣi ऋषि
- 1-5, 7-12: Bandhu Gaupāyana; Śrutabandhu Gaupāyana; Subandhu Gaupāyana; Viprabandhu Gaupāyana Or Bandhu Laupāyana; Śrutabandhu Laupāyana; Subandhu Laupāyana; Viprabandhu Laupāyana; 6: Their (Four Gaupāyanas Or Laupāyanas) Mother, Agastya’s Sister
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles gāyatrī (1-3); nicṛdanuṣṭup (7, 10, 12); nicṛdgāyatrī (4, 5); nicṛtpaṅkti (8, 9); pādanicṛdanuṣṭup (6); svarāḍārcyanuṣṭup (11)
2nd set of styles gāyatrī (1-5); anuṣṭubh (6, 7, 10-12); paṅkti (8, 9)
-
Ṛk 1
आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतं ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥आ जनं त्वेषसंदृशम् माहीनानाम् उपस्तुतम् |
अगन्म बिभ्रतो नमः ||ā́ jánam tveṣásaṃdṛśam mā́hīnānāmúpastutam ǀ
áganma bíbhrato námaḥ ǁā janaṃ tveṣasaṃdṛśam māhīnānām upastutam |
aganma bibhrato namaḥ ||आ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् ।
अग॑न्म । बिभ्र॑तः । नमः॑ ॥आ । जनम् । त्वेषऽसन्दृशम् । माहीनानाम् । उपऽस्तुतम् ।
अगन्म । बिभ्रतः । नमः ॥ā́ ǀ jánam ǀ tveṣá-sandṛśam ǀ mā́hīnānām ǀ úpa-stutam ǀ
áganma ǀ bíbhrataḥ ǀ námaḥ ǁā ǀ janam ǀ tveṣa-sandṛśam ǀ māhīnānām ǀ upa-stutam ǀ
aganma ǀ bibhrataḥ ǀ namaḥ ǁ10.60.1 Aṣṭaka 8.1.24.1Anuvāka 10.4.157
-
Ṛk 2
अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथं॑ ।
भ॒जेर॑थस्य॒ सत्प॑तिं ॥असमातिं नितोशनं त्वेषं निययिनं रथम् |
भजेरथस्य सत्पतिम् ||ásamātim nitóśanam tveṣám niyayínam rátham ǀ
bhajérathasya sátpatim ǁasamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham |
bhajerathasya satpatim ||अस॑मातिम् । नि॒ऽतोश॑नम् । त्वे॒षम् । नि॒ऽय॒यिन॑म् । रथ॑म् ।
भ॒जेऽर॑थस्य । सत्ऽप॑तिम् ॥असमातिम् । निऽतोशनम् । त्वेषम् । निऽययिनम् । रथम् ।
भजेऽरथस्य । सत्ऽपतिम् ॥ásamātim ǀ ni-tóśanam ǀ tveṣám ǀ ni-yayínam ǀ rátham ǀ
bhajé-rathasya ǀ sát-patim ǁasamātim ǀ ni-tośanam ǀ tveṣam ǀ ni-yayinam ǀ ratham ǀ
bhaje-rathasya ǀ sat-patim ǁ10.60.2 Aṣṭaka 8.1.24.2Anuvāka 10.4.158
-
Ṛk 3
यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।
उ॒ताप॑वीरवान्यु॒धा ॥यो जनान् महिषां इवातितस्थौ पवीरवान् |
उतापवीरवान् युधा ||yó jánānmahiṣā́m̐ ivātitastháu pávīravān ǀ
utā́pavīravānyudhā́ ǁyo janān mahiṣāṃ ivātitasthau pavīravān |
utāpavīravān yudhā ||यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् ।
उ॒त । अप॑वीरवान् । यु॒धा ॥यः । जनान् । महिषान्ऽइव । अतिऽतस्थौ । पवीरवान् ।
उत । अपवीरवान् । युधा ॥yáḥ ǀ jánān ǀ mahiṣā́n-iva ǀ ati-tastháu ǀ pávīravān ǀ
utá ǀ ápavīravān ǀ yudhā́ ǁyaḥ ǀ janān ǀ mahiṣān-iva ǀ ati-tasthau ǀ pavīravān ǀ
uta ǀ apavīravān ǀ yudhā ǁ10.60.3 Aṣṭaka 8.1.24.3Anuvāka 10.4.159
-
Ṛk 4
यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।
दि॒वी॑व॒ पंच॑ कृ॒ष्टयः॑ ॥यस्येक्ष्वाकुर् उप व्रते रेवान् मराय्य् एधते |
दिवीव पञ्च कृष्टयः ||yásyekṣvākúrúpa vraté revā́nmarāyyédhate ǀ
divī́va páñca kṛṣṭáyaḥ ǁyasyekṣvākur upa vrate revān marāyy edhate |
divīva pañca kṛṣṭayaḥ ||यस्य॑ । इ॒क्ष्वा॒कुः । उप॑ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध॑ते ।
दि॒विऽइ॑व । पञ्च॑ । कृ॒ष्टयः॑ ॥यस्य । इक्ष्वाकुः । उप । व्रते । रेवान् । मरायी । एधते ।
दिविऽइव । पञ्च । कृष्टयः ॥yásya ǀ ikṣvākúḥ ǀ úpa ǀ vraté ǀ revā́n ǀ marāyī́ ǀ édhate ǀ
diví-iva ǀ páñca ǀ kṛṣṭáyaḥ ǁyasya ǀ ikṣvākuḥ ǀ upa ǀ vrate ǀ revān ǀ marāyī ǀ edhate ǀ
divi-iva ǀ pañca ǀ kṛṣṭayaḥ ǁ10.60.4 Aṣṭaka 8.1.24.4Anuvāka 10.4.160
-
Ṛk 5
इंद्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।
दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय |
दिवीव सूर्यं दृशे ||índra kṣatrā́samātiṣu ráthaproṣṭheṣu dhāraya ǀ
divī́va sū́ryam dṛśé ǁindra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya |
divīva sūryaṃ dṛśe ||इन्द्र॑ । क्ष॒त्रा । अस॑मातिषु । रथ॑ऽप्रोष्ठेषु । धा॒र॒य॒ ।
दि॒विऽइ॑व । सूर्य॑म् । दृ॒शे ॥इन्द्र । क्षत्रा । असमातिषु । रथऽप्रोष्ठेषु । धारय ।
दिविऽइव । सूर्यम् । दृशे ॥índra ǀ kṣatrā́ ǀ ásamātiṣu ǀ rátha-proṣṭheṣu ǀ dhāraya ǀ
diví-iva ǀ sū́ryam ǀ dṛśé ǁindra ǀ kṣatrā ǀ asamātiṣu ǀ ratha-proṣṭheṣu ǀ dhāraya ǀ
divi-iva ǀ sūryam ǀ dṛśe ǁ10.60.5 Aṣṭaka 8.1.24.5Anuvāka 10.4.161
-
Ṛk 6
अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती॑ युनक्षि॒ रोहि॑ता ।
प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता |
पणीन् न्य् अक्रमीर् अभि विश्वान् राजन्न् अराधसः ||agástyasya nádbhyaḥ sáptī yunakṣi róhitā ǀ
paṇī́nnyákramīrabhí víśvānrājannarādhásaḥ ǁagastyasya nadbhyaḥ saptī yunakṣi rohitā |
paṇīn ny akramīr abhi viśvān rājann arādhasaḥ ||अ॒गस्त्य॑स्य । नत्ऽभ्यः॑ । सप्ती॒ इति॑ । यु॒न॒क्षि॒ । रोहि॑ता ।
प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा॑न् । रा॒ज॒न् । अ॒रा॒धसः॑ ॥अगस्त्यस्य । नत्ऽभ्यः । सप्ती इति । युनक्षि । रोहिता ।
पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः ॥agástyasya ǀ nát-bhyaḥ ǀ sáptī íti ǀ yunakṣi ǀ róhitā ǀ
paṇī́n ǀ ní ǀ akramīḥ ǀ abhí ǀ víśvān ǀ rājan ǀ arādhásaḥ ǁagastyasya ǀ nat-bhyaḥ ǀ saptī iti ǀ yunakṣi ǀ rohitā ǀ
paṇīn ǀ ni ǀ akramīḥ ǀ abhi ǀ viśvān ǀ rājan ǀ arādhasaḥ ǁ10.60.6 Aṣṭaka 8.1.24.6Anuvāka 10.4.162
-
Ṛk 7
अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् ।
इ॒दं तव॑ प्र॒सर्प॑णं॒ सुबं॑ध॒वेहि॒ निरि॑हि ॥अयम् मातायम् पितायं जीवातुर् आगमत् |
इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि ||ayám mātā́yám pitā́yám jīvā́turā́gamat ǀ
idám táva prasárpaṇam súbandhavéhi nírihi ǁayam mātāyam pitāyaṃ jīvātur āgamat |
idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi ||अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः॑ । आ । अ॒ग॒म॒त् ।
इ॒दम् । तव॑ । प्र॒ऽसर्प॑णम् । सुब॑न्धो॒ इति॒ सुऽब॑न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥अयम् । माता । अयम् । पिता । अयम् । जीवातुः । आ । अगमत् ।
इदम् । तव । प्रऽसर्पणम् । सुबन्धो इति सुऽबन्धो । आ । इहि । निः । इहि ॥ayám ǀ mātā́ ǀ ayám ǀ pitā́ ǀ ayám ǀ jīvā́tuḥ ǀ ā́ ǀ agamat ǀ
idám ǀ táva ǀ pra-sárpaṇam ǀ súbandho íti sú-bandho ǀ ā́ ǀ ihi ǀ níḥ ǀ ihi ǁayam ǀ mātā ǀ ayam ǀ pitā ǀ ayam ǀ jīvātuḥ ǀ ā ǀ agamat ǀ
idam ǀ tava ǀ pra-sarpaṇam ǀ subandho iti su-bandho ǀ ā ǀ ihi ǀ niḥ ǀ ihi ǁ10.60.7 Aṣṭaka 8.1.25.1Anuvāka 10.4.163
-
Ṛk 8
यथा॑ यु॒गं व॑र॒त्रया॒ नह्यं॑ति ध॒रुणा॑य॒ कं ।
ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥यथा युगं वरत्रया नह्यन्ति धरुणाय कम् |
एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ||yáthā yugám varatráyā náhyanti dharúṇāya kám ǀ
evā́ dādhāra te máno jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁyathā yugaṃ varatrayā nahyanti dharuṇāya kam |
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् ।
ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् ।
एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥yáthā ǀ yugám ǀ varatráyā ǀ náhyanti ǀ dharúṇāya ǀ kám ǀ
evá ǀ dādhāra ǀ te ǀ mánaḥ ǀ jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁyathā ǀ yugam ǀ varatrayā ǀ nahyanti ǀ dharuṇāya ǀ kam ǀ
eva ǀ dādhāra ǀ te ǀ manaḥ ǀ jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ10.60.8 Aṣṭaka 8.1.25.2Anuvāka 10.4.164
-
Ṛk 9
यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् ।
ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥यथेयम् पृथिवी मही दाधारेमान् वनस्पतीन् |
एवा दाधार ते मनो जीवातवे न मृत्यवे ऽथो अरिष्टतातये ||yátheyám pṛthivī́ mahī́ dādhā́remā́nvánaspátīn ǀ
evā́ dādhāra te máno jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁyatheyam pṛthivī mahī dādhāremān vanaspatīn |
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye ||यथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार॑ । इ॒मान् । वन॒स्पती॑न् ।
ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् ।
एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥yáthā ǀ iyám ǀ pṛthivī́ ǀ mahī́ ǀ dādhā́ra ǀ imā́n ǀ vánaspátīn ǀ
evá ǀ dādhāra ǀ te ǀ mánaḥ ǀ jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁyathā ǀ iyam ǀ pṛthivī ǀ mahī ǀ dādhāra ǀ imān ǀ vanaspatīn ǀ
eva ǀ dādhāra ǀ te ǀ manaḥ ǀ jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ10.60.9 Aṣṭaka 8.1.25.3Anuvāka 10.4.165
-
Ṛk 10
य॒माद॒हं वै॑वस्व॒तात्सु॒बंधो॒र्मन॒ आभ॑रं ।
जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥यमाद् अहं वैवस्वतात् सुबन्धोर् मन आभरम् |
जीवातवे न मृत्यवे ऽथो अरिष्टतातये ||yamā́dahám vaivasvatā́tsubándhormána ā́bharam ǀ
jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁyamād ahaṃ vaivasvatāt subandhor mana ābharam |
jīvātave na mṛtyave 'tho ariṣṭatātaye ||य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒ऽबन्धोः॑ । मनः॑ । आ । अ॒भ॒र॒म् ।
जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥यमात् । अहम् । वैवस्वतात् । सुऽबन्धोः । मनः । आ । अभरम् ।
जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥yamā́t ǀ ahám ǀ vaivasvatā́t ǀ su-bándhoḥ ǀ mánaḥ ǀ ā́ ǀ abharam ǀ
jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁyamāt ǀ aham ǀ vaivasvatāt ǀ su-bandhoḥ ǀ manaḥ ǀ ā ǀ abharam ǀ
jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ10.60.10 Aṣṭaka 8.1.25.4Anuvāka 10.4.166
-
Ṛk 11
न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ ।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥न्यग् वातो ऽव वाति न्यक् तपति सूर्यः |
नीचीनम् अघ्न्या दुहे न्यग् भवतु ते रपः ||nyágvā́tó’va vāti nyáktapati sū́ryaḥ ǀ
nīcī́namaghnyā́ duhe nyágbhavatu te rápaḥ ǁnyag vāto 'va vāti nyak tapati sūryaḥ |
nīcīnam aghnyā duhe nyag bhavatu te rapaḥ ||न्य॑क् । वातः॑ । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ ।
नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः ।
नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥nyák ǀ vā́taḥ ǀ áva ǀ vāti ǀ nyák ǀ tapati ǀ sū́ryaḥ ǀ
nīcī́nam ǀ aghnyā́ ǀ duhe ǀ nyák ǀ bhavatu ǀ te ǀ rápaḥ ǁnyak ǀ vātaḥ ǀ ava ǀ vāti ǀ nyak ǀ tapati ǀ sūryaḥ ǀ
nīcīnam ǀ aghnyā ǀ duhe ǀ nyak ǀ bhavatu ǀ te ǀ rapaḥ ǁ10.60.11 Aṣṭaka 8.1.25.5Anuvāka 10.4.167
-
Ṛk 12
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः |
अयम् मे विश्वभेषजो ऽयं शिवाभिमर्शनः ||ayám me hásto bhágavānayám me bhágavattaraḥ ǀ
ayám me viśvábheṣajo’yám śivā́bhimarśanaḥ ǁayam me hasto bhagavān ayam me bhagavattaraḥ |
ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ ||अ॒यम् । मे॒ । हस्तः॑ । भग॑ऽवान् । अ॒यम् । मे॒ । भग॑वत्ऽतरः ।
अ॒यम् । मे॒ । वि॒श्वऽभे॑षजः । अ॒यम् । शि॒वऽअ॑भिमर्शनः ॥अयम् । मे । हस्तः । भगऽवान् । अयम् । मे । भगवत्ऽतरः ।
अयम् । मे । विश्वऽभेषजः । अयम् । शिवऽअभिमर्शनः ॥ayám ǀ me ǀ hástaḥ ǀ bhága-vān ǀ ayám ǀ me ǀ bhágavat-taraḥ ǀ
ayám ǀ me ǀ viśvá-bheṣajaḥ ǀ ayám ǀ śivá-abhimarśanaḥ ǁayam ǀ me ǀ hastaḥ ǀ bhaga-vān ǀ ayam ǀ me ǀ bhagavat-taraḥ ǀ
ayam ǀ me ǀ viśva-bheṣajaḥ ǀ ayam ǀ śiva-abhimarśanaḥ ǁ10.60.12 Aṣṭaka 8.1.25.6Anuvāka 10.4.168
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.