Sūkta 106
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bhūtāṃśa Kāśyapa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 8-11); triṣṭup (1, 3, 7); virāṭtrisṭup (5, 6)
2nd set of styles triṣṭubh
-
Ṛk 1
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व ।
स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव |
सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ||ubhā́ u nūnám tádídarthayethe ví tanvāthe dhíyo vástrāpáseva ǀ
sadhrīcīnā́ yā́tave prémajīgaḥ sudíneva pṛ́kṣa ā́ taṃsayethe ǁubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva |
sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe ||उ॒भौ । ऊं॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव ।
स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥उभौ । ऊं इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव ।
सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥ubháu ǀ ūṃ íti ǀ nūnám ǀ tát ǀ ít ǀ arthayethe íti ǀ ví ǀ tanvāthe íti ǀ dhíyaḥ ǀ vástrā ǀ apásā-iva ǀ
sadhrīcīnā́ ǀ yā́tave ǀ prá ǀ īm ǀ ajīgaríti ǀ sudínā-iva ǀ pṛ́kṣaḥ ǀ ā́ ǀ taṃsayethe íti ǁubhau ǀ ūṃ iti ǀ nūnam ǀ tat ǀ it ǀ arthayethe iti ǀ vi ǀ tanvāthe iti ǀ dhiyaḥ ǀ vastrā ǀ apasā-iva ǀ
sadhrīcīnā ǀ yātave ǀ pra ǀ īm ǀ ajīgariti ǀ sudinā-iva ǀ pṛkṣaḥ ǀ ā ǀ taṃsayethe iti ǁ10.106.1 Aṣṭaka 8.6.1.1Anuvāka 10.9.72
-
Ṛk 2
उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ ।
दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुर् एथः |
दूतेव हि ष्ठो यशसा जनेषु माप स्थातम् महिषेवावपानात् ||uṣṭā́reva phárvareṣu śrayethe prāyogéva śvā́tryā śā́suréthaḥ ǀ
dūtéva hí ṣṭhó yaśásā jáneṣu mā́pa sthātam mahiṣévāvapā́nāt ǁuṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ |
dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt ||उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ ।
दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥उष्टाराऽइव । फर्वरेषु । श्रयेथे इति । प्रायोगाऽइव । श्वात्र्या । शासुः । आ । इथः ।
दूताऽइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाऽइव । अवऽपानात् ॥uṣṭā́rā-iva ǀ phárvareṣu ǀ śrayethe íti ǀ prāyogā́-iva ǀ śvā́tryā ǀ śā́suḥ ǀ ā́ ǀ ithaḥ ǀ
dūtā́-iva ǀ hí ǀ stháḥ ǀ yaśásā ǀ jáneṣu ǀ mā́ ǀ ápa ǀ sthātam ǀ mahiṣā́-iva ǀ ava-pā́nāt ǁuṣṭārā-iva ǀ pharvareṣu ǀ śrayethe iti ǀ prāyogā-iva ǀ śvātryā ǀ śāsuḥ ǀ ā ǀ ithaḥ ǀ
dūtā-iva ǀ hi ǀ sthaḥ ǀ yaśasā ǀ janeṣu ǀ mā ǀ apa ǀ sthātam ǀ mahiṣā-iva ǀ ava-pānāt ǁ10.106.2 Aṣṭaka 8.6.1.2Anuvāka 10.9.73
-
Ṛk 3
सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टं ।
अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुर् आ गमिष्टम् |
अग्निर् इव देवयोर् दीदिवांसा परिज्मानेव यजथः पुरुत्रा ||sākaṃyújā śakunásyeva pakṣā́ paśvéva citrā́ yájurā́ gamiṣṭam ǀ
agníriva devayórdīdivā́ṃsā párijmāneva yajathaḥ purutrā́ ǁsākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam |
agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā ||सा॒क॒म्ऽयुजा॑ । श॒कु॒नस्य॑ऽइव । प॒क्षा । प॒श्वाऽइ॑व । चि॒त्रा । यजुः॑ । आ । ग॒मि॒ष्ट॒म् ।
अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॒दि॒ऽवांसा॑ । परि॑ज्मानाऽइव । य॒ज॒थः॒ । पु॒रु॒ऽत्रा ॥साकम्ऽयुजा । शकुनस्यऽइव । पक्षा । पश्वाऽइव । चित्रा । यजुः । आ । गमिष्टम् ।
अग्निःऽइव । देवऽयोः । दीदिऽवांसा । परिज्मानाऽइव । यजथः । पुरुऽत्रा ॥sākam-yújā ǀ śakunásya-iva ǀ pakṣā́ ǀ paśvā́-iva ǀ citrā́ ǀ yájuḥ ǀ ā́ ǀ gamiṣṭam ǀ
agníḥ-iva ǀ deva-yóḥ ǀ dīdi-vā́ṃsā ǀ párijmānā-iva ǀ yajathaḥ ǀ puru-trā́ ǁsākam-yujā ǀ śakunasya-iva ǀ pakṣā ǀ paśvā-iva ǀ citrā ǀ yajuḥ ǀ ā ǀ gamiṣṭam ǀ
agniḥ-iva ǀ deva-yoḥ ǀ dīdi-vāṃsā ǀ parijmānā-iva ǀ yajathaḥ ǀ puru-trā ǁ10.106.3 Aṣṭaka 8.6.1.3Anuvāka 10.9.74
-
Ṛk 4
आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै ।
इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टं ॥आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै |
इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवम् आ गमिष्टम् ||āpī́ vo asmé pitáreva putrógréva rucā́ nṛpátīva turyái ǀ
íryeva puṣṭyái kiráṇeva bhujyái śruṣṭīvā́neva hávamā́ gamiṣṭam ǁāpī vo asme pitareva putrogreva rucā nṛpatīva turyai |
iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam ||आ॒पी इति॑ । वः॒ । अ॒स्मे इति॑ । पि॒तरा॑ऽइव । पु॒त्रा । उ॒ग्राऽइ॑व । रु॒चा । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । तु॒र्यै ।
इर्या॑ऽइव । पु॒ष्ट्यै । कि॒रणा॑ऽइव । भु॒ज्यै । श्रु॒ष्टी॒वाना॑ऽइव । हव॑म् । आ । ग॒मि॒ष्ट॒म् ॥आपी इति । वः । अस्मे इति । पितराऽइव । पुत्रा । उग्राऽइव । रुचा । नृपती इवेति नृपतीऽइव । तुर्यै ।
इर्याऽइव । पुष्ट्यै । किरणाऽइव । भुज्यै । श्रुष्टीवानाऽइव । हवम् । आ । गमिष्टम् ॥āpī́ íti ǀ vaḥ ǀ asmé íti ǀ pitárā-iva ǀ putrā́ ǀ ugrā́-iva ǀ rucā́ ǀ nṛpátī ivéti nṛpátī-iva ǀ turyái ǀ
íryā-iva ǀ puṣṭyái ǀ kiráṇā-iva ǀ bhujyái ǀ śruṣṭīvā́nā-iva ǀ hávam ǀ ā́ ǀ gamiṣṭam ǁāpī iti ǀ vaḥ ǀ asme iti ǀ pitarā-iva ǀ putrā ǀ ugrā-iva ǀ rucā ǀ nṛpatī iveti nṛpatī-iva ǀ turyai ǀ
iryā-iva ǀ puṣṭyai ǀ kiraṇā-iva ǀ bhujyai ǀ śruṣṭīvānā-iva ǀ havam ǀ ā ǀ gamiṣṭam ǁ10.106.4 Aṣṭaka 8.6.1.4Anuvāka 10.9.75
-
Ṛk 5
वंस॑गेव पूष॒र्या॑ शिं॒बाता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पंता ।
वाजे॑वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे॑वे॒षा स॑प॒र्या॒३॒॑ पुरी॑षा ॥वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता |
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ||váṃsageva pūṣaryā́ śimbā́tā mitréva ṛtā́ śatárā śā́tapantā ǀ
vā́jevoccā́ váyasā gharmyeṣṭhā́ méṣeveṣā́ saparyā́ púrīṣā ǁvaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā |
vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā ||वंस॑गाऽइव । पू॒ष॒र्या॑ । शि॒म्बाता॑ । मि॒त्राऽइव॑ । ऋ॒ता । श॒तरा॑ । शात॑पन्ता ।
वाजा॑ऽइव । उ॒च्चा । वय॑सा । घ॒र्म्ये॒ऽस्था । मेषा॑ऽइव । इ॒षा । स॒प॒र्या॑ । पुरी॑षा ॥वंसगाऽइव । पूषर्या । शिम्बाता । मित्राऽइव । ऋता । शतरा । शातपन्ता ।
वाजाऽइव । उच्चा । वयसा । घर्म्येऽस्था । मेषाऽइव । इषा । सपर्या । पुरीषा ॥váṃsagā-iva ǀ pūṣaryā́ ǀ śimbā́tā ǀ mitrā́-íva ǀ ṛtā́ ǀ śatárā ǀ śā́tapantā ǀ
vā́jā-iva ǀ uccā́ ǀ váyasā ǀ gharmye-sthā́ ǀ méṣā-iva ǀ iṣā́ ǀ saparyā́ ǀ púrīṣā ǁvaṃsagā-iva ǀ pūṣaryā ǀ śimbātā ǀ mitrā-iva ǀ ṛtā ǀ śatarā ǀ śātapantā ǀ
vājā-iva ǀ uccā ǀ vayasā ǀ gharmye-sthā ǀ meṣā-iva ǀ iṣā ǀ saparyā ǀ purīṣā ǁ10.106.5 Aṣṭaka 8.6.1.5Anuvāka 10.9.76
-
Ṛk 6
सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ ।
उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका |
उदन्यजेव जेमना मदेरू ता मे जराय्व् अजरम् मरायु ||sṛṇyéva jarbhárī turphárītū naitośéva turphárī parpharī́kā ǀ
udanyajéva jémanā maderū́ tā́ me jarā́yvajáram marā́yu ǁsṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā |
udanyajeva jemanā maderū tā me jarāyv ajaram marāyu ||सृ॒ण्या॑ऽइव । ज॒र्भरी॒ इति॑ । तु॒र्फरी॑तू॒ इति॑ । नै॒तो॒शाऽइ॑व । तु॒र्फरी॒ इति॑ । प॒र्फ॒रीका॑ ।
उ॒द॒न्य॒जाऽइ॑व । जेम॑ना । म॒दे॒रू इति॑ । ता । मे॒ । ज॒रायु॑ । अ॒जर॑म् । म॒रायु॑ ॥सृण्याऽइव । जर्भरी इति । तुर्फरीतू इति । नैतोशाऽइव । तुर्फरी इति । पर्फरीका ।
उदन्यजाऽइव । जेमना । मदेरू इति । ता । मे । जरायु । अजरम् । मरायु ॥sṛṇyā́-iva ǀ jarbhárī íti ǀ turphárītū íti ǀ naitośā́-iva ǀ turphárī íti ǀ parpharī́kā ǀ
udanyajā́-iva ǀ jémanā ǀ maderū́ íti ǀ tā́ ǀ me ǀ jarā́yu ǀ ajáram ǀ marā́yu ǁsṛṇyā-iva ǀ jarbharī iti ǀ turpharītū iti ǀ naitośā-iva ǀ turpharī iti ǀ parpharīkā ǀ
udanyajā-iva ǀ jemanā ǀ maderū iti ǀ tā ǀ me ǀ jarāyu ǀ ajaram ǀ marāyu ǁ10.106.6 Aṣṭaka 8.6.2.1Anuvāka 10.9.77
-
Ṛk 7
प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा ।
ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णां ॥पज्रेव चर्चरं जारम् मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा |
ऋभू नापत् खरमज्रा खरज्रुर् वायुर् न पर्फरत् क्षयद् रयीणाम् ||pajréva cárcaram jā́ram marā́yu kṣádmevā́rtheṣu tartarītha ugrā ǀ
ṛbhū́ nā́patkharamajrā́ kharájrurvāyúrná parpharatkṣayadrayīṇā́m ǁpajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā |
ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām ||प॒ज्राऽइ॑व । चर्च॑रम् । जार॑म् । म॒रायु॑ । क्षद्म॑ऽइव । अर्थे॑षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ ।
ऋ॒भू इति॑ । न । आ॒प॒त् । ख॒र॒म॒ज्रा । ख॒रऽज्रुः॑ । वा॒युः । न । प॒र्फ॒र॒त् । क्ष॒य॒त् । र॒यी॒णाम् ॥पज्राऽइव । चर्चरम् । जारम् । मरायु । क्षद्मऽइव । अर्थेषु । तर्तरीथः । उग्रा ।
ऋभू इति । न । आपत् । खरमज्रा । खरऽज्रुः । वायुः । न । पर्फरत् । क्षयत् । रयीणाम् ॥pajrā́-iva ǀ cárcaram ǀ jā́ram ǀ marā́yu ǀ kṣádma-iva ǀ ártheṣu ǀ tartarīthaḥ ǀ ugrā ǀ
ṛbhū́ íti ǀ ná ǀ āpat ǀ kharamajrā́ ǀ khará-jruḥ ǀ vāyúḥ ǀ ná ǀ parpharat ǀ kṣayat ǀ rayīṇā́m ǁpajrā-iva ǀ carcaram ǀ jāram ǀ marāyu ǀ kṣadma-iva ǀ artheṣu ǀ tartarīthaḥ ǀ ugrā ǀ
ṛbhū iti ǀ na ǀ āpat ǀ kharamajrā ǀ khara-jruḥ ǀ vāyuḥ ǀ na ǀ parpharat ǀ kṣayat ǀ rayīṇām ǁ10.106.7 Aṣṭaka 8.6.2.2Anuvāka 10.9.78
-
Ṛk 8
घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वारं॑ ।
प॒त॒रेव॑ चच॒रा चं॒द्रनि॑र्णि॒ङ्मन॑ऋंगा मन॒न्या॒३॒॑ न जग्मी॑ ॥घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् |
पतरेव चचरा चन्द्रनिर्णिङ् मनऋङ्गा मनन्या न जग्मी ||gharméva mádhu jaṭháre sanérū bhágevitā turphárī phā́rivā́ram ǀ
pataréva cacarā́ candránirṇiṅmánaṛṅgā mananyā́ ná jágmī ǁgharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram |
patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī ||घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् ।
प॒त॒राऽइ॑व । च॒च॒रा । च॒न्द्रऽनि॑र्निक् । मनः॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्मी॒ इति॑ ॥घर्माऽइव । मधु । जठरे । सनेरू इति । भगेऽअविता । तुर्फरी इति । फारिवा । अरम् ।
पतराऽइव । चचरा । चन्द्रऽनिर्निक् । मनःऽऋङ्गा । मनन्या । न । जग्मी इति ॥gharmā́-iva ǀ mádhu ǀ jaṭháre ǀ sanérū íti ǀ bháge-avitā ǀ turphárī íti ǀ phā́rivā ǀ áram ǀ
patarā́-iva ǀ cacarā́ ǀ candrá-nirnik ǀ mánaḥ-ṛṅgā ǀ mananyā́ ǀ ná ǀ jágmī íti ǁgharmā-iva ǀ madhu ǀ jaṭhare ǀ sanerū iti ǀ bhage-avitā ǀ turpharī iti ǀ phārivā ǀ aram ǀ
patarā-iva ǀ cacarā ǀ candra-nirnik ǀ manaḥ-ṛṅgā ǀ mananyā ǀ na ǀ jagmī iti ǁ10.106.8 Aṣṭaka 8.6.2.3Anuvāka 10.9.79
-
Ṛk 9
बृ॒हंते॑व गं॒भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः ।
कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोऽंशे॑व नो भजतं चि॒त्रमप्नः॑ ॥बृहन्तेव गम्भरेषु प्रतिष्ठाम् पादेव गाधं तरते विदाथः |
कर्णेव शासुर् अनु हि स्मराथो ऽंशेव नो भजतं चित्रम् अप्नः ||bṛhánteva gambháreṣu pratiṣṭhā́m pā́deva gādhám tárate vidāthaḥ ǀ
kárṇeva śā́suránu hí smárāthó’ṃśeva no bhajatam citrámápnaḥ ǁbṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ |
karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ ||बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ ।
कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥बृहन्ताऽइव । गम्भरेषु । प्रतिऽस्थाम् । पादाऽइव । गाधम् । तरते । विदाथः ।
कर्णाऽइव । शासुः । अनु । हि । स्मराथः । अंशाऽइव । नः । भजतम् । चित्रम् । अप्नः ॥bṛhántā-iva ǀ gambháreṣu ǀ prati-sthā́m ǀ pā́dā-iva ǀ gādhám ǀ tárate ǀ vidāthaḥ ǀ
kárṇā-iva ǀ śā́suḥ ǀ ánu ǀ hí ǀ smárāthaḥ ǀ áṃśā-iva ǀ naḥ ǀ bhajatam ǀ citrám ǀ ápnaḥ ǁbṛhantā-iva ǀ gambhareṣu ǀ prati-sthām ǀ pādā-iva ǀ gādham ǀ tarate ǀ vidāthaḥ ǀ
karṇā-iva ǀ śāsuḥ ǀ anu ǀ hi ǀ smarāthaḥ ǀ aṃśā-iva ǀ naḥ ǀ bhajatam ǀ citram ǀ apnaḥ ǁ10.106.9 Aṣṭaka 8.6.2.4Anuvāka 10.9.80
-
Ṛk 10
आ॒रं॒ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे ।
की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥आरङ्गरेव मध्व् एरयेथे सारघेव गवि नीचीनबारे |
कीनारेव स्वेदम् आसिष्विदाना क्षामेवोर्जा सूयवसात् सचेथे ||āraṅgaréva mádhvérayethe sāraghéva gávi nīcī́nabāre ǀ
kīnā́reva svédamāsiṣvidānā́ kṣā́mevorjā́ sūyavasā́tsacethe ǁāraṅgareva madhv erayethe sāragheva gavi nīcīnabāre |
kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe ||आ॒र॒ङ्ग॒राऽइ॑व । मधु॑ । आ । ई॒र॒ये॒थे॒ इति॑ । सा॒र॒घाऽइ॑व । गवि॑ । नी॒चीन॑ऽबारे ।
की॒नारा॑ऽइव । स्वेद॑म् । आ॒ऽसि॒स्वि॒दा॒ना । क्षाम॑ऽइव । ऊ॒र्जा । सु॒य॒व॒स॒ऽअत् । स॒चे॒थे॒ इति॑ ॥आरङ्गराऽइव । मधु । आ । ईरयेथे इति । सारघाऽइव । गवि । नीचीनऽबारे ।
कीनाराऽइव । स्वेदम् । आऽसिस्विदाना । क्षामऽइव । ऊर्जा । सुयवसऽअत् । सचेथे इति ॥āraṅgarā́-iva ǀ mádhu ǀ ā́ ǀ īrayethe íti ǀ sāraghā́-iva ǀ gávi ǀ nīcī́na-bāre ǀ
kīnā́rā-iva ǀ svédam ǀ ā-sisvidānā́ ǀ kṣā́ma-iva ǀ ūrjā́ ǀ suyavasa-át ǀ sacethe íti ǁāraṅgarā-iva ǀ madhu ǀ ā ǀ īrayethe iti ǀ sāraghā-iva ǀ gavi ǀ nīcīna-bāre ǀ
kīnārā-iva ǀ svedam ǀ ā-sisvidānā ǀ kṣāma-iva ǀ ūrjā ǀ suyavasa-at ǀ sacethe iti ǁ10.106.10 Aṣṭaka 8.6.2.5Anuvāka 10.9.81
-
Ṛk 11
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मंत्रं॑ स॒रथे॒होप॑ यातं ।
यशो॒ न प॒क्वं मधु॒ गोष्वं॒तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् |
यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ||ṛdhyā́ma stómam sanuyā́ma vā́jamā́ no mántram saráthehópa yātam ǀ
yáśo ná pakvám mádhu góṣvantárā́ bhūtā́ṃśo aśvínoḥ kā́mamaprāḥ ǁṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam |
yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ ||ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् ।
यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥ऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । सऽरथा । इह । उप । यातम् ।
यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतऽअंशः । अश्विनोः । कामम् । अप्राः ॥ṛdhyā́ma ǀ stómam ǀ sanuyā́ma ǀ vā́jam ǀ ā́ ǀ naḥ ǀ mántram ǀ sa-ráthā ǀ ihá ǀ úpa ǀ yātam ǀ
yáśaḥ ǀ ná ǀ pakvám ǀ mádhu ǀ góṣu ǀ antáḥ ǀ ā́ ǀ bhūtá-aṃśaḥ ǀ aśvínoḥ ǀ kā́mam ǀ aprāḥ ǁṛdhyāma ǀ stomam ǀ sanuyāma ǀ vājam ǀ ā ǀ naḥ ǀ mantram ǀ sa-rathā ǀ iha ǀ upa ǀ yātam ǀ
yaśaḥ ǀ na ǀ pakvam ǀ madhu ǀ goṣu ǀ antaḥ ǀ ā ǀ bhūta-aṃśaḥ ǀ aśvinoḥ ǀ kāmam ǀ aprāḥ ǁ10.106.11 Aṣṭaka 8.6.2.6Anuvāka 10.9.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.