Ṛgveda · Maṇḍala 10

Sūkta 89

Indra · Indra, Soma · Reṇu Vaiśvāmitra · 18 ṛks

Link
Devatā देवता
1-4, 6-18: Indra; 5: Indra, Soma
Ṛṣi ऋषि
Reṇu Vaiśvāmitra
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 4, 6, 7, 11, 12, 15, 18); nicṛttriṣṭup (3, 5, 9, 10, 14, 16, 17); ārcītriṣṭup (2); pādanicṛttriṣṭup (8); svarāḍārcītriṣṭup (13)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इंद्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अंता॑न् ।
    आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिंधु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥

    इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् |
    आ यः पप्रौ चर्षणीधृद् वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ||

    índram stavā nṛ́tamam yásya mahnā́ vibabādhé rocanā́ ví jmó ántān ǀ
    ā́ yáḥ papráu carṣaṇīdhṛ́dvárobhiḥ prá síndhubhyo riricānó mahitvā́ ǁ

    indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān |
    ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā ||

    इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् ।
    आ । यः । प॒प्रौ । च॒र्ष॒णि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥

    इन्द्रम् । स्तव । नृऽतमम् । यस्य । मह्ना । विऽबबाधे । रोचना । वि । ज्मः । अन्तान् ।
    आ । यः । पप्रौ । चर्षणिऽधृत् । वरःऽभिः । प्र । सिन्धुऽभ्यः । रिरिचानः । महिऽत्वा ॥

    índram ǀ stava ǀ nṛ́-tamam ǀ yásya ǀ mahnā́ ǀ vi-babādhé ǀ rocanā́ ǀ ví ǀ jmáḥ ǀ ántān ǀ
    ā́ ǀ yáḥ ǀ papráu ǀ carṣaṇi-dhṛ́t ǀ váraḥ-bhiḥ ǀ prá ǀ síndhu-bhyaḥ ǀ riricānáḥ ǀ mahi-tvā́ ǁ

    indram ǀ stava ǀ nṛ-tamam ǀ yasya ǀ mahnā ǀ vi-babādhe ǀ rocanā ǀ vi ǀ jmaḥ ǀ antān ǀ
    ā ǀ yaḥ ǀ paprau ǀ carṣaṇi-dhṛt ǀ varaḥ-bhiḥ ǀ pra ǀ sindhu-bhyaḥ ǀ riricānaḥ ǀ mahi-tvā ǁ

    10.89.1 Aṣṭaka 8.4.14.1Anuvāka 10.7.115

  2. Ṛk 2

    स सूर्यः॒ पर्यु॒रू वरां॒स्येंद्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
    अति॑ष्ठंतमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥

    स सूर्यः पर्य् उरू वरांस्य् एन्द्रो ववृत्याद् रथ्येव चक्रा |
    अतिष्ठन्तम् अपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ||

    sá sū́ryaḥ páryurū́ várāṃsyéndro vavṛtyādráthyeva cakrā́ ǀ
    átiṣṭhantamapasyám ná sárgam kṛṣṇā́ támāṃsi tvíṣyā jaghāna ǁ

    sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā |
    atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna ||

    सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा ।
    अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥

    सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याऽइव । चक्रा ।
    अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥

    sáḥ ǀ sū́ryaḥ ǀ pári ǀ urú ǀ várāṃsi ǀ ā́ ǀ índraḥ ǀ vavṛtyāt ǀ ráthyā-iva ǀ cakrā́ ǀ
    átiṣṭhantam ǀ apasyám ǀ ná ǀ sárgam ǀ kṛṣṇā́ ǀ támāṃsi ǀ tvíṣyā ǀ jaghāna ǁ

    saḥ ǀ sūryaḥ ǀ pari ǀ uru ǀ varāṃsi ǀ ā ǀ indraḥ ǀ vavṛtyāt ǀ rathyā-iva ǀ cakrā ǀ
    atiṣṭhantam ǀ apasyam ǀ na ǀ sargam ǀ kṛṣṇā ǀ tamāṃsi ǀ tviṣyā ǀ jaghāna ǁ

    10.89.2 Aṣṭaka 8.4.14.2Anuvāka 10.7.116

  3. Ṛk 3

    स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्यं॑ ।
    वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इंद्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥

    समानम् अस्मा अनपावृद् अर्च क्ष्मया दिवो असमम् ब्रह्म नव्यम् |
    वि यः पृष्ठेव जनिमान्य् अर्य इन्द्रश् चिकाय न सखायम् ईषे ||

    samānámasmā ánapāvṛdarca kṣmayā́ divó ásamam bráhma návyam ǀ
    ví yáḥ pṛṣṭhéva jánimānyaryá índraścikā́ya ná sákhāyamīṣé ǁ

    samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam |
    vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe ||

    स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् ।
    वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥

    समानम् । अस्मै । अनपऽवृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् ।
    वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥

    samānám ǀ asmai ǀ ánapa-vṛt ǀ arca ǀ kṣmayā́ ǀ diváḥ ǀ ásamam ǀ bráhma ǀ návyam ǀ
    ví ǀ yáḥ ǀ pṛṣṭhā́-iva ǀ jánimāni ǀ aryáḥ ǀ índraḥ ǀ cikā́ya ǀ ná ǀ sákhāyam ǀ īṣé ǁ

    samānam ǀ asmai ǀ anapa-vṛt ǀ arca ǀ kṣmayā ǀ divaḥ ǀ asamam ǀ brahma ǀ navyam ǀ
    vi ǀ yaḥ ǀ pṛṣṭhā-iva ǀ janimāni ǀ aryaḥ ǀ indraḥ ǀ cikāya ǀ na ǀ sakhāyam ǀ īṣe ǁ

    10.89.3 Aṣṭaka 8.4.14.3Anuvāka 10.7.117

  4. Ṛk 4

    इंद्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
    यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तंभ॑ पृथि॒वीमु॒त द्यां ॥

    इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् |
    यो अक्षेणेव चक्रिया शचीभिर् विष्वक् तस्तम्भ पृथिवीम् उत द्याम् ||

    índrāya gíro ániśitasargā apáḥ prérayam ságarasya budhnā́t ǀ
    yó ákṣeṇeva cakríyā śácībhirvíṣvaktastámbha pṛthivī́mutá dyām ǁ

    indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt |
    yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām ||

    इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् ।
    यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥

    इन्द्राय । गिरः । अनिशितऽसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् ।
    यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥

    índrāya ǀ gíraḥ ǀ ániśita-sargāḥ ǀ apáḥ ǀ prá ǀ īrayam ǀ ságarasya ǀ budhnā́t ǀ
    yáḥ ǀ ákṣeṇa-iva ǀ cakríyā ǀ śácībhiḥ ǀ víṣvak ǀ tastámbha ǀ pṛthivī́m ǀ utá ǀ dyā́m ǁ

    indrāya ǀ giraḥ ǀ aniśita-sargāḥ ǀ apaḥ ǀ pra ǀ īrayam ǀ sagarasya ǀ budhnāt ǀ
    yaḥ ǀ akṣeṇa-iva ǀ cakriyā ǀ śacībhiḥ ǀ viṣvak ǀ tastambha ǀ pṛthivīm ǀ uta ǀ dyām ǁ

    10.89.4 Aṣṭaka 8.4.14.4Anuvāka 10.7.118

  5. Ṛk 5

    आपां॑तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वां॒छरु॑माँ ऋजी॒षी ।
    सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥

    आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमां ऋजीषी |
    सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ||

    ā́pāntamanyustṛpálaprabharmā dhúniḥ śímīvāñchárumām̐ ṛjīṣī́ ǀ
    sómo víśvānyatasā́ vánāni nā́rvā́gíndram pratimā́nāni debhuḥ ǁ

    āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumāṃ ṛjīṣī |
    somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ ||

    आपा॑न्तऽमन्युः । तृ॒पल॑ऽप्रभर्मा । धुनिः॑ । शिमी॑ऽवान् । शरु॑ऽमान् । ऋ॒जी॒षी ।
    सोमः॑ । विश्वा॑नि । अ॒त॒सा । वना॑नि । न । अ॒र्वाक् । इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भुः॒ ॥

    आपान्तऽमन्युः । तृपलऽप्रभर्मा । धुनिः । शिमीऽवान् । शरुऽमान् । ऋजीषी ।
    सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रतिऽमानानि । देभुः ॥

    ā́pānta-manyuḥ ǀ tṛpála-prabharmā ǀ dhúniḥ ǀ śímī-vān ǀ śáru-mān ǀ ṛjīṣī́ ǀ
    sómaḥ ǀ víśvāni ǀ atasā́ ǀ vánāni ǀ ná ǀ arvā́k ǀ índram ǀ prati-mā́nāni ǀ debhuḥ ǁ

    āpānta-manyuḥ ǀ tṛpala-prabharmā ǀ dhuniḥ ǀ śimī-vān ǀ śaru-mān ǀ ṛjīṣī ǀ
    somaḥ ǀ viśvāni ǀ atasā ǀ vanāni ǀ na ǀ arvāk ǀ indram ǀ prati-mānāni ǀ debhuḥ ǁ

    10.89.5 Aṣṭaka 8.4.14.5Anuvāka 10.7.119

  6. Ṛk 6

    न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नांतरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
    यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥

    न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः |
    यद् अस्य मन्युर् अधिनीयमानः शृणाति वीऌउ रुजति स्थिराणि ||

    ná yásya dyā́vāpṛthivī́ ná dhánva nā́ntárikṣam nā́drayaḥ sómo akṣāḥ ǀ
    yádasya manyúradhinīyámānaḥ śṛṇā́ti vīḷú rujáti sthirā́ṇi ǁ

    na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ |
    yad asya manyur adhinīyamānaḥ śṛṇāti vīḷu rujati sthirāṇi ||

    न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ ।
    यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥

    न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति ।
    यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥

    ná ǀ yásya ǀ dyā́vāpṛthivī́ íti ǀ ná ǀ dhánva ǀ ná ǀ antárikṣam ǀ ná ǀ ádrayaḥ ǀ sómaḥ ǀ akṣāríti ǀ
    yát ǀ asya ǀ manyúḥ ǀ adhi-nīyámānaḥ ǀ śṛṇā́ti ǀ vīḷú ǀ rujáti ǀ sthirā́ṇi ǁ

    na ǀ yasya ǀ dyāvāpṛthivī iti ǀ na ǀ dhanva ǀ na ǀ antarikṣam ǀ na ǀ adrayaḥ ǀ somaḥ ǀ akṣāriti ǀ
    yat ǀ asya ǀ manyuḥ ǀ adhi-nīyamānaḥ ǀ śṛṇāti ǀ vīḷu ǀ rujati ǀ sthirāṇi ǁ

    10.89.6 Aṣṭaka 8.4.15.1Anuvāka 10.7.120

  7. Ṛk 7

    ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिंधू॑न् ।
    बि॒भेद॑ गि॒रिं नव॒मिन्न कुं॒भमा गा इंद्रो॑ अकृणुत स्व॒युग्भिः॑ ॥

    जघान वृत्रं स्वधितिर् वनेव रुरोज पुरो अरदन् न सिन्धून् |
    बिभेद गिरिं नवम् इन् न कुम्भम् आ गा इन्द्रो अकृणुत स्वयुग्भिः ||

    jaghā́na vṛtrám svádhitirváneva rurója púro áradanná síndhūn ǀ
    bibhéda girím návamínná kumbhámā́ gā́ índro akṛṇuta svayúgbhiḥ ǁ

    jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn |
    bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ ||

    ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः । वना॑ऽइव । रु॒रोज॑ । पुरः॑ । अर॑दत् । न । सिन्धू॑न् ।
    बि॒भेद॑ । गि॒रिम् । नव॑म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः॑ । अ॒कृ॒णु॒त॒ । स्व॒युक्ऽभिः॑ ॥

    जघान । वृत्रम् । स्वऽधितिः । वनाऽइव । रुरोज । पुरः । अरदत् । न । सिन्धून् ।
    बिभेद । गिरिम् । नवम् । इत् । न । कुम्भम् । आ । गाः । इन्द्रः । अकृणुत । स्वयुक्ऽभिः ॥

    jaghā́na ǀ vṛtrám ǀ svá-dhitiḥ ǀ vánā-iva ǀ rurója ǀ púraḥ ǀ áradat ǀ ná ǀ síndhūn ǀ
    bibhéda ǀ girím ǀ návam ǀ ít ǀ ná ǀ kumbhám ǀ ā́ ǀ gā́ḥ ǀ índraḥ ǀ akṛṇuta ǀ svayúk-bhiḥ ǁ

    jaghāna ǀ vṛtram ǀ sva-dhitiḥ ǀ vanā-iva ǀ ruroja ǀ puraḥ ǀ aradat ǀ na ǀ sindhūn ǀ
    bibheda ǀ girim ǀ navam ǀ it ǀ na ǀ kumbham ǀ ā ǀ gāḥ ǀ indraḥ ǀ akṛṇuta ǀ svayuk-bhiḥ ǁ

    10.89.7 Aṣṭaka 8.4.15.2Anuvāka 10.7.121

  8. Ṛk 8

    त्वं ह॒ त्यदृ॑ण॒या इं॑द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
    प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नंति॑ मि॒त्रं ॥

    त्वं ह त्यद् ऋणया इन्द्र धीरो ऽसिर् न पर्व वृजिना शृणासि |
    प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ||

    tvám ha tyádṛṇayā́ indra dhī́ro’sírná párva vṛjinā́ śṛṇāsi ǀ
    prá yé mitrásya váruṇasya dhā́ma yújam ná jánā minánti mitrám ǁ

    tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi |
    pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram ||

    त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ ।
    प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥

    त्वम् । ह । त्यत् । ऋणऽयाः । इन्द्र । धीरः । असिः । न । पर्व । वृजिना । शृणासि ।
    प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम् ॥

    tvám ǀ ha ǀ tyát ǀ ṛṇa-yā́ḥ ǀ indra ǀ dhī́raḥ ǀ asíḥ ǀ ná ǀ párva ǀ vṛjinā́ ǀ śṛṇāsi ǀ
    prá ǀ yé ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǀ yújam ǀ ná ǀ jánāḥ ǀ minánti ǀ mitrám ǁ

    tvam ǀ ha ǀ tyat ǀ ṛṇa-yāḥ ǀ indra ǀ dhīraḥ ǀ asiḥ ǀ na ǀ parva ǀ vṛjinā ǀ śṛṇāsi ǀ
    pra ǀ ye ǀ mitrasya ǀ varuṇasya ǀ dhāma ǀ yujam ǀ na ǀ janāḥ ǀ minanti ǀ mitram ǁ

    10.89.8 Aṣṭaka 8.4.15.3Anuvāka 10.7.122

  9. Ṛk 9

    प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नंति॑ ।
    न्य१॒॑मित्रे॑षु व॒धमिं॑द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥

    प्र ये मित्रम् प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणम् मिनन्ति |
    न्य् अमित्रेषु वधम् इन्द्र तुम्रं वृषन् वृषाणम् अरुषं शिशीहि ||

    prá yé mitrám prā́ryamáṇam durévāḥ prá saṃgíraḥ prá váruṇam minánti ǀ
    nyámítreṣu vadhámindra túmram vṛ́ṣanvṛ́ṣāṇamaruṣám śiśīhi ǁ

    pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti |
    ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi ||

    प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण॑म् । दुः॒ऽएवाः॑ । प्र । स॒म्ऽगिरः॑ । प्र । वरु॑णम् । मि॒नन्ति॑ ।
    नि । अ॒मित्रे॑षु । व॒धम् । इ॒न्द्र॒ । तुम्र॑म् । वृष॑न् । वृषा॑णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥

    प्र । ये । मित्रम् । प्र । अर्यमणम् । दुःऽएवाः । प्र । सम्ऽगिरः । प्र । वरुणम् । मिनन्ति ।
    नि । अमित्रेषु । वधम् । इन्द्र । तुम्रम् । वृषन् । वृषाणम् । अरुषम् । शिशीहि ॥

    prá ǀ yé ǀ mitrám ǀ prá ǀ aryamáṇam ǀ duḥ-évāḥ ǀ prá ǀ sam-gíraḥ ǀ prá ǀ váruṇam ǀ minánti ǀ
    ní ǀ amítreṣu ǀ vadhám ǀ indra ǀ túmram ǀ vṛ́ṣan ǀ vṛ́ṣāṇam ǀ aruṣám ǀ śiśīhi ǁ

    pra ǀ ye ǀ mitram ǀ pra ǀ aryamaṇam ǀ duḥ-evāḥ ǀ pra ǀ sam-giraḥ ǀ pra ǀ varuṇam ǀ minanti ǀ
    ni ǀ amitreṣu ǀ vadham ǀ indra ǀ tumram ǀ vṛṣan ǀ vṛṣāṇam ǀ aruṣam ǀ śiśīhi ǁ

    10.89.9 Aṣṭaka 8.4.15.4Anuvāka 10.7.123

  10. Ṛk 10

    इंद्रो॑ दि॒व इंद्र॑ ईशे पृथि॒व्या इंद्रो॑ अ॒पामिंद्र॒ इत्पर्व॑तानां ।
    इंद्रो॑ वृ॒धामिंद्र॒ इन्मेधि॑राणा॒मिंद्रः॒ क्षेमे॒ योगे॒ हव्य॒ इंद्रः॑ ॥

    इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपाम् इन्द्र इत् पर्वतानाम् |
    इन्द्रो वृधाम् इन्द्र इन् मेधिराणाम् इन्द्रः क्षेमे योगे हव्य इन्द्रः ||

    índro divá índra īśe pṛthivyā́ índro apā́míndra ítpárvatānām ǀ
    índro vṛdhā́míndra ínmédhirāṇāmíndraḥ kṣéme yóge hávya índraḥ ǁ

    indro diva indra īśe pṛthivyā indro apām indra it parvatānām |
    indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ ||

    इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् ।
    इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥

    इन्द्रः । दिवः । इन्द्रः । ईशे । पृथिव्याः । इन्द्रः । अपाम् । इन्द्रः । इत् । पर्वतानाम् ।
    इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः ॥

    índraḥ ǀ diváḥ ǀ índraḥ ǀ īśe ǀ pṛthivyā́ḥ ǀ índraḥ ǀ apā́m ǀ índraḥ ǀ ít ǀ párvatānām ǀ
    índraḥ ǀ vṛdhā́m ǀ índraḥ ǀ ít ǀ médhirāṇām ǀ índraḥ ǀ kṣéme ǀ yóge ǀ hávyaḥ ǀ índraḥ ǁ

    indraḥ ǀ divaḥ ǀ indraḥ ǀ īśe ǀ pṛthivyāḥ ǀ indraḥ ǀ apām ǀ indraḥ ǀ it ǀ parvatānām ǀ
    indraḥ ǀ vṛdhām ǀ indraḥ ǀ it ǀ medhirāṇām ǀ indraḥ ǀ kṣeme ǀ yoge ǀ havyaḥ ǀ indraḥ ǁ

    10.89.10 Aṣṭaka 8.4.15.5Anuvāka 10.7.124

  11. Ṛk 11

    प्राक्तुभ्य॒ इंद्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रांतरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
    प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अंता॒त्प्र सिंधु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥

    प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात् प्र समुद्रस्य धासेः |
    प्र वातस्य प्रथसः प्र ज्मो अन्तात् प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ||

    prā́ktúbhya índraḥ prá vṛdhó áhabhyaḥ prā́ntárikṣātprá samudrásya dhāséḥ ǀ
    prá vā́tasya práthasaḥ prá jmó ántātprá síndhubhyo ririce prá kṣitíbhyaḥ ǁ

    prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ |
    pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ ||

    प्र । अ॒क्तुऽभ्यः॑ । इन्द्रः॑ । प्र । वृ॒धः । अह॑ऽभ्यः । प्र । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒सेः ।
    प्र । वात॑स्य । प्रथ॑सः । प्र । ज्मः । अन्ता॑त् । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चे॒ । प्र । क्षि॒तिऽभ्यः॑ ॥

    प्र । अक्तुऽभ्यः । इन्द्रः । प्र । वृधः । अहऽभ्यः । प्र । अन्तरिक्षात् । प्र । समुद्रस्य । धासेः ।
    प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धुऽभ्यः । रिरिचे । प्र । क्षितिऽभ्यः ॥

    prá ǀ aktú-bhyaḥ ǀ índraḥ ǀ prá ǀ vṛdháḥ ǀ áha-bhyaḥ ǀ prá ǀ antárikṣāt ǀ prá ǀ samudrásya ǀ dhāséḥ ǀ
    prá ǀ vā́tasya ǀ práthasaḥ ǀ prá ǀ jmáḥ ǀ ántāt ǀ prá ǀ síndhu-bhyaḥ ǀ ririce ǀ prá ǀ kṣití-bhyaḥ ǁ

    pra ǀ aktu-bhyaḥ ǀ indraḥ ǀ pra ǀ vṛdhaḥ ǀ aha-bhyaḥ ǀ pra ǀ antarikṣāt ǀ pra ǀ samudrasya ǀ dhāseḥ ǀ
    pra ǀ vātasya ǀ prathasaḥ ǀ pra ǀ jmaḥ ǀ antāt ǀ pra ǀ sindhu-bhyaḥ ǀ ririce ǀ pra ǀ kṣiti-bhyaḥ ǁ

    10.89.11 Aṣṭaka 8.4.16.1Anuvāka 10.7.125

  12. Ṛk 12

    प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिंद्र हे॒तिः ।
    अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥

    प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः |
    अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ||

    prá śóśucatyā uṣáso ná ketúrasinvā́ te vartatāmindra hetíḥ ǀ
    áśmeva vidhya divá ā́ sṛjānástápiṣṭhena héṣasā dróghamitrān ǁ

    pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ |
    aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān ||

    प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।
    अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥

    प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः ।
    अश्माऽइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघऽमित्रान् ॥

    prá ǀ śóśucatyāḥ ǀ uṣásaḥ ǀ ná ǀ ketúḥ ǀ asinvā́ ǀ te ǀ vartatām ǀ indra ǀ hetíḥ ǀ
    áśmā-iva ǀ vidhya ǀ diváḥ ǀ ā́ ǀ sṛjānáḥ ǀ tápiṣṭhena ǀ héṣasā ǀ drógha-mitrān ǁ

    pra ǀ śośucatyāḥ ǀ uṣasaḥ ǀ na ǀ ketuḥ ǀ asinvā ǀ te ǀ vartatām ǀ indra ǀ hetiḥ ǀ
    aśmā-iva ǀ vidhya ǀ divaḥ ǀ ā ǀ sṛjānaḥ ǀ tapiṣṭhena ǀ heṣasā ǀ drogha-mitrān ǁ

    10.89.12 Aṣṭaka 8.4.16.2Anuvāka 10.7.126

  13. Ṛk 13

    अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।
    अन्विंद्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानं ॥

    अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः |
    अन्व् इन्द्रं रोदसी वावशाने अन्व् आपो अजिहत जायमानम् ||

    ánváha mā́sā ánvídvánānyánvóṣadhīránu párvatāsaḥ ǀ
    ánvíndram ródasī vāvaśāné ánvā́po ajihata jā́yamānam ǁ

    anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ |
    anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam ||

    अनु॑ । अह॑ । मासाः॑ । अनु॑ । इत् । वना॑नि । अनु॑ । ओष॑धीः । अनु॑ । पर्व॑तासः ।
    अनु॑ । इन्द्र॑म् । रोद॑सी॒ इति॑ । वा॒व॒शा॒ने इति॑ । अनु॑ । आपः॑ । अ॒जि॒ह॒त॒ । जाय॑मानम् ॥

    अनु । अह । मासाः । अनु । इत् । वनानि । अनु । ओषधीः । अनु । पर्वतासः ।
    अनु । इन्द्रम् । रोदसी इति । वावशाने इति । अनु । आपः । अजिहत । जायमानम् ॥

    ánu ǀ áha ǀ mā́sāḥ ǀ ánu ǀ ít ǀ vánāni ǀ ánu ǀ óṣadhīḥ ǀ ánu ǀ párvatāsaḥ ǀ
    ánu ǀ índram ǀ ródasī íti ǀ vāvaśāné íti ǀ ánu ǀ ā́paḥ ǀ ajihata ǀ jā́yamānam ǁ

    anu ǀ aha ǀ māsāḥ ǀ anu ǀ it ǀ vanāni ǀ anu ǀ oṣadhīḥ ǀ anu ǀ parvatāsaḥ ǀ
    anu ǀ indram ǀ rodasī iti ǀ vāvaśāne iti ǀ anu ǀ āpaḥ ǀ ajihata ǀ jāyamānam ǁ

    10.89.13 Aṣṭaka 8.4.16.3Anuvāka 10.7.127

  14. Ṛk 14

    कर्हि॑ स्वि॒त्सा त॑ इंद्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
    मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शयं॑ते ॥

    कर्हि स्वित् सा त इन्द्र चेत्यासद् अघस्य यद् भिनदो रक्ष एषत् |
    मित्रक्रुवो यच् छसने न गावः पृथिव्या आपृग् अमुया शयन्ते ||

    kárhi svitsā́ ta indra cetyā́sadaghásya yádbhinádo rákṣa éṣat ǀ
    mitrakrúvo yácchásane ná gā́vaḥ pṛthivyā́ āpṛ́gamuyā́ śáyante ǁ

    karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat |
    mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante ||

    कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् ।
    मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥

    कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आऽईषत् ।
    मित्रऽक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आऽपृक् । अमुया । शयन्ते ॥

    kárhi ǀ svit ǀ sā́ ǀ te ǀ indra ǀ cetyā́ ǀ asat ǀ aghásya ǀ yát ǀ bhinádaḥ ǀ rákṣaḥ ǀ ā-ī́ṣat ǀ
    mitra-krúvaḥ ǀ yát ǀ śásane ǀ ná ǀ gā́vaḥ ǀ pṛthivyā́ḥ ǀ ā-pṛ́k ǀ amuyā́ ǀ śáyante ǁ

    karhi ǀ svit ǀ sā ǀ te ǀ indra ǀ cetyā ǀ asat ǀ aghasya ǀ yat ǀ bhinadaḥ ǀ rakṣaḥ ǀ ā-īṣat ǀ
    mitra-kruvaḥ ǀ yat ǀ śasane ǀ na ǀ gāvaḥ ǀ pṛthivyāḥ ǀ ā-pṛk ǀ amuyā ǀ śayante ǁ

    10.89.14 Aṣṭaka 8.4.16.4Anuvāka 10.7.128

  15. Ṛk 15

    श॒त्रू॒यंतो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राधं॑त ओग॒णास॑ इंद्र ।
    अं॒धेना॒मित्रा॒स्तम॑सा सचंतां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥

    शत्रूयन्तो अभि ये नस् ततस्रे महि व्राधन्त ओगणास इन्द्र |
    अन्धेनामित्रास् तमसा सचन्तां सुज्योतिषो अक्तवस् तां अभि ष्युः ||

    śatrūyánto abhí yé nastatasré máhi vrā́dhanta ogaṇā́sa indra ǀ
    andhénāmítrāstámasā sacantām sujyotíṣo aktávastā́m̐ abhí ṣyuḥ ǁ

    śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra |
    andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṃ abhi ṣyuḥ ||

    श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ ।
    अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥

    शत्रुऽयन्तः । अभि । ये । नः । ततस्रे । महि । व्राधन्तः । ओगणासः । इन्द्र ।
    अन्धेन । अमित्राः । तमसा । सचन्ताम् । सुऽज्योतिषः । अक्तवः । तान् । अभि । स्युरिति स्युः ॥

    śatru-yántaḥ ǀ abhí ǀ yé ǀ naḥ ǀ tatasré ǀ máhi ǀ vrā́dhantaḥ ǀ ogaṇā́saḥ ǀ indra ǀ
    andhéna ǀ amítrāḥ ǀ támasā ǀ sacantām ǀ su-jyotíṣaḥ ǀ aktávaḥ ǀ tā́n ǀ abhí ǀ syuríti syuḥ ǁ

    śatru-yantaḥ ǀ abhi ǀ ye ǀ naḥ ǀ tatasre ǀ mahi ǀ vrādhantaḥ ǀ ogaṇāsaḥ ǀ indra ǀ
    andhena ǀ amitrāḥ ǀ tamasā ǀ sacantām ǀ su-jyotiṣaḥ ǀ aktavaḥ ǀ tān ǀ abhi ǀ syuriti syuḥ ǁ

    10.89.15 Aṣṭaka 8.4.16.5Anuvāka 10.7.129

  16. Ṛk 16

    पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मंद॑न्गृण॒तामृषी॑णां ।
    इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥

    पुरूणि हि त्वा सवना जनानाम् ब्रह्माणि मन्दन् गृणताम् ऋषीणाम् |
    इमाम् आघोषन्न् अवसा सहूतिं तिरो विश्वां अर्चतो याह्य् अर्वाङ् ||

    purū́ṇi hí tvā sávanā jánānām bráhmāṇi mándangṛṇatā́mṛ́ṣīṇām ǀ
    imā́māghóṣannávasā sáhūtim tiró víśvām̐ árcato yāhyarvā́ṅ ǁ

    purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām |
    imām āghoṣann avasā sahūtiṃ tiro viśvāṃ arcato yāhy arvāṅ ||

    पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मा॑णि । मन्द॑न् । गृ॒ण॒ताम् । ऋषी॑णाम् ।
    इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहू॑तिम् । ति॒रः । विश्वा॑न् । अर्च॑तः । या॒हि॒ । अ॒र्वाङ् ॥

    पुरूणि । हि । त्वा । सवना । जनानाम् । ब्रह्माणि । मन्दन् । गृणताम् । ऋषीणाम् ।
    इमाम् । आऽघोषन् । अवसा । सऽहूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ् ॥

    purū́ṇi ǀ hí ǀ tvā ǀ sávanā ǀ jánānām ǀ bráhmāṇi ǀ mándan ǀ gṛṇatā́m ǀ ṛ́ṣīṇām ǀ
    imā́m ǀ ā-ghóṣan ǀ ávasā ǀ sá-hūtim ǀ tiráḥ ǀ víśvān ǀ árcataḥ ǀ yāhi ǀ arvā́ṅ ǁ

    purūṇi ǀ hi ǀ tvā ǀ savanā ǀ janānām ǀ brahmāṇi ǀ mandan ǀ gṛṇatām ǀ ṛṣīṇām ǀ
    imām ǀ ā-ghoṣan ǀ avasā ǀ sa-hūtim ǀ tiraḥ ǀ viśvān ǀ arcataḥ ǀ yāhi ǀ arvāṅ ǁ

    10.89.16 Aṣṭaka 8.4.16.6Anuvāka 10.7.130

  17. Ṛk 17

    ए॒वा ते॑ व॒यमिं॑द्र भुंजती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नां ।
    वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒श्वामि॑त्रा उ॒त त॑ इंद्र नू॒नं ॥

    एवा ते वयम् इन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् |
    विद्याम वस्तोर् अवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ||

    evā́ te vayámindra bhuñjatīnā́m vidyā́ma sumatīnā́m návānām ǀ
    vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám ǁ

    evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām |
    vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam ||

    ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।
    वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥

    एव । ते । वयम् । इन्द्र । भुञ्जतीनाम् । विद्याम । सुऽमतीनाम् । नवानाम् ।
    विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम् ॥

    evá ǀ te ǀ vayám ǀ indra ǀ bhuñjatīnā́m ǀ vidyā́ma ǀ su-matīnā́m ǀ návānām ǀ
    vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ viśvā́mitrāḥ ǀ utá ǀ te ǀ indra ǀ nūnám ǁ

    eva ǀ te ǀ vayam ǀ indra ǀ bhuñjatīnām ǀ vidyāma ǀ su-matīnām ǀ navānām ǀ
    vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ viśvāmitrāḥ ǀ uta ǀ te ǀ indra ǀ nūnam ǁ

    10.89.17 Aṣṭaka 8.4.16.7Anuvāka 10.7.131

  18. Ṛk 18

    शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
    शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

    शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
    शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||

    śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
    śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

    śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
    śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||

    शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
    शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

    शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
    शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

    śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
    śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

    śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
    śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ

    10.89.18 Aṣṭaka 8.4.16.8Anuvāka 10.7.132

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.89 · Indra · Indra, Soma

Interpretations

Ralph T. H. Griffith

Ṛk 1

I WILL extol the most heroic Indra who with his might forced earth and sky asunder; Who hath filled all with width as man's Upholder, surpassing floods and rivers in his greatness.

Ṛk 2

Sūrya is he: throughout the wide expanses shall Indra turn him, swift as car-wheels, hither, Like a stream resting not but ever active he hath destroyed, with light, the black-hued darkness.

Ṛk 3

To him I sing a holy prayer, incessant new, matchless, common to the earth and heaven, Who marks, as they were backs, all living creatures: ne’er doth he fail a friend, the noble Indra.

Ṛk 4

I will send forth my songs in flow unceasing, like water from the ocean's depth, to Indra. Who to his car on both its sides securely hath fixed the earth and heaven as with an axle.

Ṛk 5

Rousing with draughts, the Shaker, rushing onward, impetuous, very strong, armed as with arrows Is Soma; forest trees and all the bushes deceive not Indra with their offered likeness.

Ṛk 6

Soma hath flowed to him whom naught can equal, the earth, the heavens, the firmament, the mountains,— When heightened in his ire his indignation shatters the firm and breaks the strong in pieces.

Ṛk 7

As an axe fells the tree so be slew Vṛtra, brake down the strongholds and dug out the rivers. He cleft the mountain like a new-made pitcher. Indra brought forth the kine with his Companions.

Ṛk 8

Wise art thou, Punisher of guilt, O Indra. The sword lops limbs, thou smitest down the sinner, The men who injure, as it were a comrade, the lofty Law of Varuṇa and Mitra.

Ṛk 9

Men who lead evil lives, who break agreements, and injure Varuṇa, Aryaman and Mitra,— Against these foes, O Mighty Indra, sharpen, as furious death, thy Bull of fiery colour.

Ṛk 10

Indra is Sovran Lord of Earth and Heaven, Indra is Lord of waters and of mountains. Indra is Lord of prosperers and sages Indra must be invoked in rest and effort.

Ṛk 11

Vaster than days and nights, Giver of increase, vaster than firmament and flood of ocean, Vaster than bounds of earth and wind's extension, vaster than rivers and our lands is Indra.

Ṛk 12

Forward, as herald of refulgent Morning, let thine insatiate arrow fly, O Indra. And pierce, as ’twere a stone launched forth from heaven, with hottest blaze the men who love deception.

Ṛk 13

Him, verily, the moons, the mountains followed, the tall trees followed and the plants and herbage. Yearning with love both Worlds approached, the Waters waited on Indra when he first had being.

Ṛk 14

Where was the vengeful dart when thou, O Indra, clavest the demon ever beat on outrage? When fiends lay there upon the ground extended like cattle in the place of immolation?

Ṛk 15

Those who are set in enmity against us, the Ogaṇas, O Indra, waxen mighty,— Let blinding darkness follow those our foemen, while these shall have bright shining nights to light them.

Ṛk 16

May plentiful libations of the people, and singing Ṛṣis’ holy prayers rejoice thee. Hearing with love this common invocation, come unto us, pass by all those who praise thee.

Ṛk 17

O Indra, thus may we be made partakers of thy new favours that shall bring us profit. Singing with love, may we the Viśvāmitras win daylight even now through thee, O Indra.