Ṛgveda · Maṇḍala 10 · Sūkta 89
Ṛk 10.89.12
Saṃhitā
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिंद्र हे॒तिः ।
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥
प्र शोशुचत्या उषसो न केतुर् असिन्वा ते वर्तताम् इन्द्र हेतिः |
अश्मेव विध्य दिव आ सृजानस् तपिष्ठेन हेषसा द्रोघमित्रान् ||
prá śóśucatyā uṣáso ná ketúrasinvā́ te vartatāmindra hetíḥ ǀ
áśmeva vidhya divá ā́ sṛjānástápiṣṭhena héṣasā dróghamitrān ǁ
pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ |
aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān ||
Padapāṭha
प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।
अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥
प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः ।
अश्माऽइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघऽमित्रान् ॥
prá ǀ śóśucatyāḥ ǀ uṣásaḥ ǀ ná ǀ ketúḥ ǀ asinvā́ ǀ te ǀ vartatām ǀ indra ǀ hetíḥ ǀ
áśmā-iva ǀ vidhya ǀ diváḥ ǀ ā́ ǀ sṛjānáḥ ǀ tápiṣṭhena ǀ héṣasā ǀ drógha-mitrān ǁ
pra ǀ śośucatyāḥ ǀ uṣasaḥ ǀ na ǀ ketuḥ ǀ asinvā ǀ te ǀ vartatām ǀ indra ǀ hetiḥ ǀ
aśmā-iva ǀ vidhya ǀ divaḥ ǀ ā ǀ sṛjānaḥ ǀ tapiṣṭhena ǀ heṣasā ǀ drogha-mitrān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.089.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.16.02
- Maṇḍala · Anuvāka · Ṛk
- 10.07.126
- Devatā देवता
- 1-4, 6-18: Indra; 5: Indra, Soma
- Ṛṣi ऋषि
- Reṇu Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.