Sūkta 9
- Devatā देवता
- Apas
- Ṛṣi ऋषि
- Triśiras Tvāṣṭra Or Sindhudvīpa Ambarīṣa
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Vardhamānā, Pratiṣṭhā
Metres by ṛk
1st set of styles gāyatrī (1-4, 6); anuṣṭup (8, 9); vardhamānā gāyatrī (5); pratiṣṭhāgāyatrī (7)
2nd set of styles gāyatrī (1-4, 6); anuṣṭubh (8, 9); vardhamānā (5); pratiṣṭhā (7)
-
Ṛk 1
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन |
महे रणाय चक्षसे ||ā́po hí ṣṭhā́ mayobhúvastā́ na ūrjé dadhātana ǀ
mahé ráṇāya cákṣase ǁāpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana |
mahe raṇāya cakṣase ||आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥आपः । हि । स्थ । मयःऽभुवः । ताः । नः । ऊर्जे । दधातन ।
महे । रणाय । चक्षसे ॥ā́paḥ ǀ hí ǀ sthá ǀ mayaḥ-bhúvaḥ ǀ tā́ḥ ǀ naḥ ǀ ūrjé ǀ dadhātana ǀ
mahé ǀ ráṇāya ǀ cákṣase ǁāpaḥ ǀ hi ǀ stha ǀ mayaḥ-bhuvaḥ ǀ tāḥ ǀ naḥ ǀ ūrje ǀ dadhātana ǀ
mahe ǀ raṇāya ǀ cakṣase ǁ10.9.1 Aṣṭaka 7.6.5.1Anuvāka 10.1.59
-
Ṛk 2
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ॥यो वः शिवतमो रसस् तस्य भाजयतेह नः |
उशतीर् इव मातरः ||yó vaḥ śivátamo rásastásya bhājayatehá naḥ ǀ
uśatī́riva mātáraḥ ǁyo vaḥ śivatamo rasas tasya bhājayateha naḥ |
uśatīr iva mātaraḥ ||यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥यः । वः । शिवऽतमः । रसः । तस्य । भाजयत । इह । नः ।
उशतीःऽइव । मातरः ॥yáḥ ǀ vaḥ ǀ śivá-tamaḥ ǀ rásaḥ ǀ tásya ǀ bhājayata ǀ ihá ǀ naḥ ǀ
uśatī́ḥ-iva ǀ mātáraḥ ǁyaḥ ǀ vaḥ ǀ śiva-tamaḥ ǀ rasaḥ ǀ tasya ǀ bhājayata ǀ iha ǀ naḥ ǀ
uśatīḥ-iva ǀ mātaraḥ ǁ10.9.2 Aṣṭaka 7.6.5.2Anuvāka 10.1.60
-
Ṛk 3
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ |
आपो जनयथा च नः ||tásmā áram gamāma vo yásya kṣáyāya jínvatha ǀ
ā́po janáyathā ca naḥ ǁtasmā araṃ gamāma vo yasya kṣayāya jinvatha |
āpo janayathā ca naḥ ||तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ ।
आपः । जनयथ । च । नः ॥tásmai ǀ áram ǀ gamāma ǀ vaḥ ǀ yásya ǀ kṣáyāya ǀ jínvatha ǀ
ā́paḥ ǀ janáyatha ǀ ca ǀ naḥ ǁtasmai ǀ aram ǀ gamāma ǀ vaḥ ǀ yasya ǀ kṣayāya ǀ jinvatha ǀ
āpaḥ ǀ janayatha ǀ ca ǀ naḥ ǁ10.9.3 Aṣṭaka 7.6.5.3Anuvāka 10.1.61
-
Ṛk 4
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये॑ ।
शं योर॒भि स्र॑वंतु नः ॥शं नो देवीर् अभिष्टय आपो भवन्तु पीतये |
शं योर् अभि स्रवन्तु नः ||śám no devī́rabhíṣṭaya ā́po bhavantu pītáye ǀ
śám yórabhí sravantu naḥ ǁśaṃ no devīr abhiṣṭaya āpo bhavantu pītaye |
śaṃ yor abhi sravantu naḥ ||शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये ।
शम् । योः । अभि । स्रवन्तु । नः ॥śám ǀ naḥ ǀ devī́ḥ ǀ abhíṣṭaye ǀ ā́paḥ ǀ bhavantu ǀ pītáye ǀ
śám ǀ yóḥ ǀ abhí ǀ sravantu ǀ naḥ ǁśam ǀ naḥ ǀ devīḥ ǀ abhiṣṭaye ǀ āpaḥ ǀ bhavantu ǀ pītaye ǀ
śam ǀ yoḥ ǀ abhi ǀ sravantu ǀ naḥ ǁ10.9.4 Aṣṭaka 7.6.5.4Anuvāka 10.1.62
-
Ṛk 5
ईशा॑ना॒ वार्या॑णां॒ क्षयं॑तीश्चर्षणी॒नां ।
अ॒पो या॑चामि भेष॒जं ॥ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् |
अपो याचामि भेषजम् ||ī́śānā vā́ryāṇām kṣáyantīścarṣaṇīnā́m ǀ
apó yācāmi bheṣajám ǁīśānā vāryāṇāṃ kṣayantīś carṣaṇīnām |
apo yācāmi bheṣajam ||ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् ।
अपः । याचामि । भेषजम् ॥ī́śānāḥ ǀ vā́ryāṇām ǀ kṣáyantīḥ ǀ carṣaṇīnā́m ǀ
apáḥ ǀ yācāmi ǀ bheṣajám ǁīśānāḥ ǀ vāryāṇām ǀ kṣayantīḥ ǀ carṣaṇīnām ǀ
apaḥ ǀ yācāmi ǀ bheṣajam ǁ10.9.5 Aṣṭaka 7.6.5.5Anuvāka 10.1.63
-
Ṛk 6
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वशं॑भुवं ॥अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा |
अग्निं च विश्वशम्भुवम् ||apsú me sómo abravīdantárvíśvāni bheṣajā́ ǀ
agním ca viśváśambhuvam ǁapsu me somo abravīd antar viśvāni bheṣajā |
agniṃ ca viśvaśambhuvam ||अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् ॥अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
अग्निम् । च । विश्वऽशम्भुवम् ॥ap-sú ǀ me ǀ sómaḥ ǀ abravīt ǀ antáḥ ǀ víśvāni ǀ bheṣajā́ ǀ
agním ǀ ca ǀ viśvá-śambhuvam ǁap-su ǀ me ǀ somaḥ ǀ abravīt ǀ antaḥ ǀ viśvāni ǀ bheṣajā ǀ
agnim ǀ ca ǀ viśva-śambhuvam ǁ10.9.6 Aṣṭaka 7.6.5.6Anuvāka 10.1.64
-
Ṛk 7
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥आपः पृणीत भेषजं वरूथं तन्वे मम |
ज्योक् च सूर्यं दृशे ||ā́paḥ pṛṇītá bheṣajám várūtham tanvé máma ǀ
jyókca sū́ryam dṛśé ǁāpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
jyok ca sūryaṃ dṛśe ||आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
ज्योक् । च । सूर्यम् । दृशे ॥ā́paḥ ǀ pṛṇītá ǀ bheṣajám ǀ várūtham ǀ tanvé ǀ máma ǀ
jyók ǀ ca ǀ sū́ryam ǀ dṛśé ǁāpaḥ ǀ pṛṇīta ǀ bheṣajam ǀ varūtham ǀ tanve ǀ mama ǀ
jyok ǀ ca ǀ sūryam ǀ dṛśe ǁ10.9.7 Aṣṭaka 7.6.5.7Anuvāka 10.1.65
-
Ṛk 8
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥इदम् आपः प्र वहत यत् किं च दुरितम् मयि |
यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ||idámāpaḥ prá vahata yátkím ca duritám máyi ǀ
yádvāhámabhidudróha yádvā śepá utā́nṛtam ǁidam āpaḥ pra vahata yat kiṃ ca duritam mayi |
yad vāham abhidudroha yad vā śepa utānṛtam ||इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥idám ǀ āpaḥ ǀ prá ǀ vahata ǀ yát ǀ kím ǀ ca ǀ duḥ-itám ǀ máyi ǀ
yát ǀ vā ǀ ahám ǀ abhi-dudróha ǀ yát ǀ vā ǀ śepé ǀ utá ǀ ánṛtam ǁidam ǀ āpaḥ ǀ pra ǀ vahata ǀ yat ǀ kim ǀ ca ǀ duḥ-itam ǀ mayi ǀ
yat ǀ vā ǀ aham ǀ abhi-dudroha ǀ yat ǀ vā ǀ śepe ǀ uta ǀ anṛtam ǁ10.9.8 Aṣṭaka 7.6.5.8Anuvāka 10.1.66
-
Ṛk 9
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि |
पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ||ā́po adyā́nvacāriṣam rásena sámagasmahi ǀ
páyasvānagna ā́ gahi tám mā sám sṛja várcasā ǁāpo adyānv acāriṣaṃ rasena sam agasmahi |
payasvān agna ā gahi tam mā saṃ sṛja varcasā ||आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥ā́paḥ ǀ adyá ǀ ánu ǀ acāriṣam ǀ rásena ǀ sám ǀ agasmahi ǀ
páyasvān ǀ agne ǀ ā́ ǀ gahi ǀ tám ǀ mā ǀ sám ǀ sṛja ǀ várcasā ǁāpaḥ ǀ adya ǀ anu ǀ acāriṣam ǀ rasena ǀ sam ǀ agasmahi ǀ
payasvān ǀ agne ǀ ā ǀ gahi ǀ tam ǀ mā ǀ sam ǀ sṛja ǀ varcasā ǁ10.9.9 Aṣṭaka 7.6.5.9Anuvāka 10.1.67
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.