Sūkta 27
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 11, 12, 15, 16, 19-21, 23); triṣṭup (1, 5, 8, 10, 22); pādanicṛttriṣṭup (6, 7, 13, 14, 17); virāṭtrisṭup (2, 9, 18); bhuriktriṣṭup (24)
2nd set of styles triṣṭubh
-
Ṛk 1
अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ ।
अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् |
अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ||ásatsú me jaritaḥ sā́bhivegó yátsunvaté yájamānāya śíkṣam ǀ
ánāśīrdāmahámasmi prahantā́ satyadhvṛ́tam vṛjināyántamābhúm ǁasat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam |
anāśīrdām aham asmi prahantā satyadhvṛtaṃ vṛjināyantam ābhum ||अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।
अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥असत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् ।
अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥ásat ǀ sú ǀ me ǀ jaritaríti ǀ sáḥ ǀ abhi-vegáḥ ǀ yát ǀ sunvaté ǀ yájamānāya ǀ śíkṣam ǀ
ánāśīḥ-dām ǀ ahám ǀ asmi ǀ pra-hantā́ ǀ satya-dhvṛ́tam ǀ vṛjina-yántam ǀ ābhúm ǁasat ǀ su ǀ me ǀ jaritariti ǀ saḥ ǀ abhi-vegaḥ ǀ yat ǀ sunvate ǀ yajamānāya ǀ śikṣam ǀ
anāśīḥ-dām ǀ aham ǀ asmi ǀ pra-hantā ǀ satya-dhvṛtam ǀ vṛjina-yantam ǀ ābhum ǁ10.27.1 Aṣṭaka 7.7.15.1Anuvāka 10.2.103
-
Ṛk 2
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयूंत॒न्वा॒३॒॑ शूशु॑जानान् ।
अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं पं॑चद॒शं नि षिं॑चं ॥यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा शूशुजानान् |
अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ||yádī́dahám yudháye saṃnáyānyádevayūntanvā́ śū́śujānān ǀ
amā́ te túmram vṛṣabhám pacāni tīvrám sutám pañcadaśám ní ṣiñcam ǁyadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān |
amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam ||यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् ।
अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् ।
अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥yádi ǀ ít ǀ ahám ǀ yudháye ǀ sam-náyāni ǀ ádeva-yūn ǀ tanvā́ ǀ śū́śujānān ǀ
amā́ ǀ te ǀ túmram ǀ vṛṣabhám ǀ pacāni ǀ tīvrám ǀ sutám ǀ pañca-daśám ǀ ní ǀ siñcam ǁyadi ǀ it ǀ aham ǀ yudhaye ǀ sam-nayāni ǀ adeva-yūn ǀ tanvā ǀ śūśujānān ǀ
amā ǀ te ǀ tumram ǀ vṛṣabham ǀ pacāni ǀ tīvram ǀ sutam ǀ pañca-daśam ǀ ni ǀ siñcam ǁ10.27.2 Aṣṭaka 7.7.15.2Anuvāka 10.2.104
-
Ṛk 3
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।
य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वंति ॥नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् |
यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ||nā́hám tám veda yá íti brávītyádevayūntsamáraṇe jaghanvā́n ǀ
yadā́vā́khyatsamáraṇamṛ́ghāvadā́díddha me vṛṣabhā́ prá bruvanti ǁnāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān |
yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti ||न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।
य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् ।
यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥ná ǀ ahám ǀ tám ǀ veda ǀ yáḥ ǀ íti ǀ brávīti ǀ ádeva-yūn ǀ sam-áraṇe ǀ jaghanvā́n ǀ
yadā́ ǀ ava-ákhyat ǀ sam-áraṇam ǀ ṛ́ghāvat ǀ ā́t ǀ ít ǀ ha ǀ me ǀ vṛṣabhā́ ǀ prá ǀ bruvanti ǁna ǀ aham ǀ tam ǀ veda ǀ yaḥ ǀ iti ǀ bravīti ǀ adeva-yūn ǀ sam-araṇe ǀ jaghanvān ǀ
yadā ǀ ava-akhyat ǀ sam-araṇam ǀ ṛghāvat ǀ āt ǀ it ǀ ha ǀ me ǀ vṛṣabhā ǀ pra ǀ bruvanti ǁ10.27.3 Aṣṭaka 7.7.15.3Anuvāka 10.2.105
-
Ṛk 4
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् |
जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ||yádájñāteṣu vṛjáneṣvā́sam víśve sató maghávāno ma āsan ǀ
jinā́mi vétkṣéma ā́ sántamābhúm prá tám kṣiṇām párvate pādagṛ́hya ǁyad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan |
jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya ||यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।
जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥yát ǀ ájñāteṣu ǀ vṛjáneṣu ǀ ā́sam ǀ víśve ǀ satáḥ ǀ maghá-vānaḥ ǀ me ǀ āsan ǀ
jinā́mi ǀ vā ǀ ít ǀ kṣéme ǀ ā́ ǀ sántam ǀ ābhúm ǀ prá ǀ tám ǀ kṣiṇām ǀ párvate ǀ pāda-gṛ́hya ǁyat ǀ ajñāteṣu ǀ vṛjaneṣu ǀ āsam ǀ viśve ǀ sataḥ ǀ magha-vānaḥ ǀ me ǀ āsan ǀ
jināmi ǀ vā ǀ it ǀ kṣeme ǀ ā ǀ santam ǀ ābhum ǀ pra ǀ tam ǀ kṣiṇām ǀ parvate ǀ pāda-gṛhya ǁ10.27.4 Aṣṭaka 7.7.15.4Anuvāka 10.2.106
-
Ṛk 5
न वा उ॒ मां वृ॒जने॑ वारयंते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।
मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये |
मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ||ná vā́ u mā́m vṛjáne vārayante ná párvatāso yádahám manasyé ǀ
máma svanā́tkṛdhukárṇo bhayāta evédánu dyū́nkiráṇaḥ sámejāt ǁna vā u māṃ vṛjane vārayante na parvatāso yad aham manasye |
mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt ||न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।
मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥न । वै । ऊं इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये ।
मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥ná ǀ vái ǀ ūṃ íti ǀ mā́m ǀ vṛjáne ǀ vārayante ǀ ná ǀ párvatāsaḥ ǀ yát ǀ ahám ǀ manasyé ǀ
máma ǀ svanā́t ǀ kṛdhu-kárṇaḥ ǀ bhayāte ǀ evá ǀ ít ǀ ánu ǀ dyū́n ǀ kiráṇaḥ ǀ sám ǀ ejāt ǁna ǀ vai ǀ ūṃ iti ǀ mām ǀ vṛjane ǀ vārayante ǀ na ǀ parvatāsaḥ ǀ yat ǀ aham ǀ manasye ǀ
mama ǀ svanāt ǀ kṛdhu-karṇaḥ ǀ bhayāte ǀ eva ǀ it ǀ anu ǀ dyūn ǀ kiraṇaḥ ǀ sam ǀ ejāt ǁ10.27.5 Aṣṭaka 7.7.15.5Anuvāka 10.2.107
-
Ṛk 6
दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑निं॒द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।
घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥दर्शन् न्व् अत्र शृतपां अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् |
घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ||dárśannvátra śṛtapā́m̐ anindrā́nbāhukṣádaḥ śárave pátyamānān ǀ
ghṛ́ṣum vā yé ninidúḥ sákhāyamádhyū nvéṣu paváyo vavṛtyuḥ ǁdarśan nv atra śṛtapāṃ anindrān bāhukṣadaḥ śarave patyamānān |
ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ ||दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।
घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥दर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् ।
घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥dárśan ǀ nú ǀ átra ǀ śṛta-pā́n ǀ anindrā́n ǀ bāhu-kṣádaḥ ǀ śárave ǀ pátyamānān ǀ
ghṛ́ṣum ǀ vā ǀ yé ǀ ninidúḥ ǀ sákhāyam ǀ ádhi ǀ ūṃ íti ǀ nú ǀ eṣu ǀ paváyaḥ ǀ vavṛtyuḥ ǁdarśan ǀ nu ǀ atra ǀ śṛta-pān ǀ anindrān ǀ bāhu-kṣadaḥ ǀ śarave ǀ patyamānān ǀ
ghṛṣum ǀ vā ǀ ye ǀ niniduḥ ǀ sakhāyam ǀ adhi ǀ ūṃ iti ǀ nu ǀ eṣu ǀ pavayaḥ ǀ vavṛtyuḥ ǁ10.27.6 Aṣṭaka 7.7.16.1Anuvāka 10.2.108
-
Ṛk 7
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।
द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥अभूर् व् औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् |
द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ||ábhūrváukṣīrvyú ā́yurānaḍdárṣannú pū́rvo áparo nú darṣat ǀ
dvé paváste pári tám ná bhūto yó asyá pāré rájaso vivéṣa ǁabhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat |
dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa ||अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।
द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।
द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥ábhūḥ ǀ ūṃ íti ǀ áukṣīḥ ǀ ví ǀ ūṃ íti ǀ ā́yuḥ ǀ ānaṭ ǀ dárṣat ǀ nú ǀ pū́rvaḥ ǀ áparaḥ ǀ nú ǀ darṣat ǀ
dvé íti ǀ paváste íti ǀ pári ǀ tám ǀ ná ǀ bhūtaḥ ǀ yáḥ ǀ asyá ǀ pāré ǀ rájasaḥ ǀ vivéṣa ǁabhūḥ ǀ ūṃ iti ǀ aukṣīḥ ǀ vi ǀ ūṃ iti ǀ āyuḥ ǀ ānaṭ ǀ darṣat ǀ nu ǀ pūrvaḥ ǀ aparaḥ ǀ nu ǀ darṣat ǀ
dve iti ǀ pavaste iti ǀ pari ǀ tam ǀ na ǀ bhūtaḥ ǀ yaḥ ǀ asya ǀ pāre ǀ rajasaḥ ǀ viveṣa ǁ10.27.7 Aṣṭaka 7.7.16.2Anuvāka 10.2.109
-
Ṛk 8
गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्षं॒ता अ॑पश्यं स॒हगो॑पा॒श्चरं॑तीः ।
हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छंदयाते ॥गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः |
हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ||gā́vo yávam práyutā aryó akṣantā́ apaśyam sahágopāścárantīḥ ǀ
hávā ídaryó abhítaḥ sámāyankíyadāsu svápatiśchandayāte ǁgāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ |
havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte ||गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।
हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥गावः । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः ।
हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥gā́vaḥ ǀ yávam ǀ prá-yutāḥ ǀ aryáḥ ǀ akṣan ǀ tā́ḥ ǀ apaśyam ǀ sahá-gopāḥ ǀ cárantīḥ ǀ
hávāḥ ǀ ít ǀ aryáḥ ǀ abhítaḥ ǀ sám ǀ āyan ǀ kíyat ǀ āsu ǀ svá-patiḥ ǀ chandayāte ǁgāvaḥ ǀ yavam ǀ pra-yutāḥ ǀ aryaḥ ǀ akṣan ǀ tāḥ ǀ apaśyam ǀ saha-gopāḥ ǀ carantīḥ ǀ
havāḥ ǀ it ǀ aryaḥ ǀ abhitaḥ ǀ sam ǀ āyan ǀ kiyat ǀ āsu ǀ sva-patiḥ ǀ chandayāte ǁ10.27.8 Aṣṭaka 7.7.16.3Anuvāka 10.2.110
-
Ṛk 9
सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अं॒तः ।
अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः |
अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ||sám yádváyam yavasā́do jánānāmahám yavā́da urvájre antáḥ ǀ
átrā yuktó’vasātā́ramicchādátho áyuktam yunajadvavanvā́n ǁsaṃ yad vayaṃ yavasādo janānām ahaṃ yavāda urvajre antaḥ |
atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān ||सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।
अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥सम् । यत् । वयम् । यवसऽअदः । जनानाम् । अहम् । यवऽअदः । उरुऽअज्रे । अन्तरिति ।
अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥sám ǀ yát ǀ váyam ǀ yavasa-ádaḥ ǀ jánānām ǀ ahám ǀ yava-ádaḥ ǀ uru-ájre ǀ antáríti ǀ
átra ǀ yuktáḥ ǀ ava-sātā́ram ǀ icchāt ǀ átho íti ǀ áyuktam ǀ yunajat ǀ vavanvā́n ǁsam ǀ yat ǀ vayam ǀ yavasa-adaḥ ǀ janānām ǀ aham ǀ yava-adaḥ ǀ uru-ajre ǀ antariti ǀ
atra ǀ yuktaḥ ǀ ava-sātāram ǀ icchāt ǀ atho iti ǀ ayuktam ǀ yunajat ǀ vavanvān ǁ10.27.9 Aṣṭaka 7.7.16.4Anuvāka 10.2.111
-
Ṛk 10
अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।
स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि |
स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ||átrédu me maṃsase satyámuktám dvipā́cca yáccátuṣpātsaṃsṛjā́ni ǀ
strībhíryó átra vṛ́ṣaṇam pṛtanyā́dáyuddho asya ví bhajāni védaḥ ǁatred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni |
strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ ||अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।
स्त्री॒भिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥अत्र । इत् । ऊं इति । मे । मंससे । सत्यम् । उक्तम् । द्विऽपात् । च । यत् । चतुःऽपात् । सम्ऽसृजानि ।
स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥átra ǀ ít ǀ ūṃ íti ǀ me ǀ maṃsase ǀ satyám ǀ uktám ǀ dvi-pā́t ǀ ca ǀ yát ǀ cátuḥ-pāt ǀ sam-sṛjā́ni ǀ
strībhíḥ ǀ yáḥ ǀ átra ǀ vṛ́ṣaṇam ǀ pṛtanyā́t ǀ áyuddhaḥ ǀ asya ǀ ví ǀ bhajāni ǀ védaḥ ǁatra ǀ it ǀ ūṃ iti ǀ me ǀ maṃsase ǀ satyam ǀ uktam ǀ dvi-pāt ǀ ca ǀ yat ǀ catuḥ-pāt ǀ sam-sṛjāni ǀ
strībhiḥ ǀ yaḥ ǀ atra ǀ vṛṣaṇam ǀ pṛtanyāt ǀ ayuddhaḥ ǀ asya ǀ vi ǀ bhajāni ǀ vedaḥ ǁ10.27.10 Aṣṭaka 7.7.16.5Anuvāka 10.2.112
-
Ṛk 11
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।
क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् |
कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ||yásyānakṣā́ duhitā́ jā́tvā́sa kástā́m vidvā́m̐ abhí manyāte andhā́m ǀ
kataró mením práti tám mucāte yá īm váhāte yá īm vā vareyā́t ǁyasyānakṣā duhitā jātv āsa kas tāṃ vidvāṃ abhi manyāte andhām |
kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt ||यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।
कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥yásya ǀ anakṣā́ ǀ duhitā́ ǀ jā́tu ǀ ā́sa ǀ káḥ ǀ tā́m ǀ vidvā́n ǀ abhí ǀ manyāte ǀ andhā́m ǀ
kataráḥ ǀ mením ǀ práti ǀ tám ǀ mucāte ǀ yáḥ ǀ īm ǀ váhāte ǀ yáḥ ǀ īm ǀ vā ǀ vare-yā́t ǁyasya ǀ anakṣā ǀ duhitā ǀ jātu ǀ āsa ǀ kaḥ ǀ tām ǀ vidvān ǀ abhi ǀ manyāte ǀ andhām ǀ
kataraḥ ǀ menim ǀ prati ǀ tam ǀ mucāte ǀ yaḥ ǀ īm ǀ vahāte ǀ yaḥ ǀ īm ǀ vā ǀ vare-yāt ǁ10.27.11 Aṣṭaka 7.7.17.1Anuvāka 10.2.113
-
Ṛk 12
किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।
भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण |
भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ||kíyatī yóṣā maryató vadhūyóḥ páriprītā pányasā vā́ryeṇa ǀ
bhadrā́ vadhū́rbhavati yátsupéśāḥ svayám sā́ mitrám vanute jáne cit ǁkiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa |
bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit ||किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।
भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥कियती । योषा । मर्यतः । वधूऽयोः । परिऽप्रीता । पन्यसा । वार्येण ।
भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥kíyatī ǀ yóṣā ǀ maryatáḥ ǀ vadhū-yóḥ ǀ pári-prītā ǀ pányasā ǀ vā́ryeṇa ǀ
bhadrā́ ǀ vadhū́ḥ ǀ bhavati ǀ yát ǀ su-péśāḥ ǀ svayám ǀ sā́ ǀ mitrám ǀ vanute ǀ jáne ǀ cit ǁkiyatī ǀ yoṣā ǀ maryataḥ ǀ vadhū-yoḥ ǀ pari-prītā ǀ panyasā ǀ vāryeṇa ǀ
bhadrā ǀ vadhūḥ ǀ bhavati ǀ yat ǀ su-peśāḥ ǀ svayam ǀ sā ǀ mitram ǀ vanute ǀ jane ǀ cit ǁ10.27.12 Aṣṭaka 7.7.17.2Anuvāka 10.2.114
-
Ṛk 13
प॒त्तो ज॑गार प्र॒त्यंच॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थं ।
आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमिं॑ ॥पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् |
आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ||pattó jagāra pratyáñcamatti śīrṣṇā́ śíraḥ práti dadhau várūtham ǀ
ā́sīna ūrdhvā́mupási kṣiṇāti nyáṅṅuttānā́mánveti bhū́mim ǁpatto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham |
āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim ||प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।
आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥पत्तः । जगार । प्रत्यञ्चम् । अत्ति । शीर्ष्णा । शिरः । प्रति । दधौ । वरूथम् ।
आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥pattáḥ ǀ jagāra ǀ pratyáñcam ǀ atti ǀ śīrṣṇā́ ǀ śíraḥ ǀ práti ǀ dadhau ǀ várūtham ǀ
ā́sīnaḥ ǀ ūrdhvā́m ǀ upási ǀ kṣiṇāti ǀ nyáṅ ǀ uttānā́m ǀ ánu ǀ eti ǀ bhū́mim ǁpattaḥ ǀ jagāra ǀ pratyañcam ǀ atti ǀ śīrṣṇā ǀ śiraḥ ǀ prati ǀ dadhau ǀ varūtham ǀ
āsīnaḥ ǀ ūrdhvām ǀ upasi ǀ kṣiṇāti ǀ nyaṅ ǀ uttānām ǀ anu ǀ eti ǀ bhūmim ǁ10.27.13 Aṣṭaka 7.7.17.3Anuvāka 10.2.115
-
Ṛk 14
बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।
अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः |
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ||bṛhánnacchāyó apalāśó árvā tastháu mātā́ víṣito atti gárbhaḥ ǀ
anyásyā vatsám rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ ǁbṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ |
anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ ||बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।
अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विऽसितः । अत्ति । गर्भः ।
अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥bṛhán ǀ acchāyáḥ ǀ apalāśáḥ ǀ árvā ǀ tastháu ǀ mātā́ ǀ ví-sitaḥ ǀ atti ǀ gárbhaḥ ǀ
anyásyāḥ ǀ vatsám ǀ rihatī́ ǀ mimāya ǀ káyā ǀ bhuvā́ ǀ ní ǀ dadhe ǀ dhenúḥ ǀ ū́dhaḥ ǁbṛhan ǀ acchāyaḥ ǀ apalāśaḥ ǀ arvā ǀ tasthau ǀ mātā ǀ vi-sitaḥ ǀ atti ǀ garbhaḥ ǀ
anyasyāḥ ǀ vatsam ǀ rihatī ǀ mimāya ǀ kayā ǀ bhuvā ǀ ni ǀ dadhe ǀ dhenuḥ ǀ ūdhaḥ ǁ10.27.14 Aṣṭaka 7.7.17.4Anuvāka 10.2.116
-
Ṛk 15
स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिरं॒ते ।
नव॑ प॒श्चाता॑त्स्थिवि॒मंत॑ आयं॒दश॒ प्राक्सानु॒ वि ति॑रं॒त्यश्नः॑ ॥सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते |
नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ||saptá vīrā́so adharā́dúdāyannaṣṭóttarā́ttātsámajagmiranté ǀ
náva paścā́tātsthivimánta āyandáśa prā́ksā́nu ví tirantyáśnaḥ ǁsapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te |
nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ ||स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।
नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते ।
नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥saptá ǀ vīrā́saḥ ǀ adharā́t ǀ út ǀ āyan ǀ aṣṭá ǀ uttarā́ttāt ǀ sám ǀ ajagmiran ǀ té ǀ
náva ǀ paścā́tāt ǀ sthivi-mántaḥ ǀ āyan ǀ dáśa ǀ prā́k ǀ sā́nu ǀ ví ǀ tiranti ǀ áśnaḥ ǁsapta ǀ vīrāsaḥ ǀ adharāt ǀ ut ǀ āyan ǀ aṣṭa ǀ uttarāttāt ǀ sam ǀ ajagmiran ǀ te ǀ
nava ǀ paścātāt ǀ sthivi-mantaḥ ǀ āyan ǀ daśa ǀ prāk ǀ sānu ǀ vi ǀ tiranti ǀ aśnaḥ ǁ10.27.15 Aṣṭaka 7.7.17.5Anuvāka 10.2.117
-
Ṛk 16
द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वंति॒ क्रत॑वे॒ पार्या॑य ।
गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नंतं तु॒षयं॑ती बिभर्ति ॥दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय |
गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ||daśānā́mékam kapilám samānám tám hinvanti krátave pā́ryāya ǀ
gárbham mātā́ súdhitam vakṣáṇāsvávenantam tuṣáyantī bibharti ǁdaśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya |
garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti ||द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।
गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय ।
गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥daśānā́m ǀ ékam ǀ kapilám ǀ samānám ǀ tám ǀ hinvanti ǀ krátave ǀ pā́ryāya ǀ
gárbham ǀ mātā́ ǀ sú-dhitam ǀ vakṣáṇāsu ǀ ávenantam ǀ tuṣáyantī ǀ bibharti ǁdaśānām ǀ ekam ǀ kapilam ǀ samānam ǀ tam ǀ hinvanti ǀ kratave ǀ pāryāya ǀ
garbham ǀ mātā ǀ su-dhitam ǀ vakṣaṇāsu ǀ avenantam ǀ tuṣayantī ǀ bibharti ǁ10.27.16 Aṣṭaka 7.7.18.1Anuvāka 10.2.118
-
Ṛk 17
पीवा॑नं मे॒षम॑पचंत वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।
द्वा धनुं॑ बृह॒तीम॒प्स्वं१॒॑तः प॒वित्र॑वंता चरतः पु॒नंता॑ ॥पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् |
द्वा धनुम् बृहतीम् अप्स्व् अन्तः पवित्रवन्ता चरतः पुनन्ता ||pī́vānam meṣámapacanta vīrā́ nyúptā akṣā́ ánu dīvá āsan ǀ
dvā́ dhánum bṛhatī́mapsvántáḥ pavítravantā carataḥ punántā ǁpīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan |
dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā ||पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।
द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥पीवानम् । मेषम् । अपचन्त । वीराः । निऽउप्ताः । अक्षाः । अनु । दीवे । आसन् ।
द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥pī́vānam ǀ meṣám ǀ apacanta ǀ vīrā́ḥ ǀ ní-uptāḥ ǀ akṣā́ḥ ǀ ánu ǀ dīvé ǀ āsan ǀ
dvā́ ǀ dhánum ǀ bṛhatī́m ǀ ap-sú ǀ antáríti ǀ pavítra-vantā ǀ carataḥ ǀ punántā ǁpīvānam ǀ meṣam ǀ apacanta ǀ vīrāḥ ǀ ni-uptāḥ ǀ akṣāḥ ǀ anu ǀ dīve ǀ āsan ǀ
dvā ǀ dhanum ǀ bṛhatīm ǀ ap-su ǀ antariti ǀ pavitra-vantā ǀ carataḥ ǀ punantā ǁ10.27.17 Aṣṭaka 7.7.18.2Anuvāka 10.2.119
-
Ṛk 18
वि क्रो॑श॒नासो॒ विष्वं॑च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः |
अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ||ví krośanā́so víṣvañca āyanpácāti némo nahí pákṣadardháḥ ǀ
ayám me deváḥ savitā́ tádāha drvánna ídvanavatsarpírannaḥ ǁvi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ |
ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ ||वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।
अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥ví ǀ krośanā́saḥ ǀ víṣvañcaḥ ǀ āyan ǀ pácāti ǀ némaḥ ǀ nahí ǀ pákṣat ǀ ardháḥ ǀ
ayám ǀ me ǀ deváḥ ǀ savitā́ ǀ tát ǀ āha ǀ drú-annaḥ ǀ ít ǀ vanavat ǀ sarpíḥ-annaḥ ǁvi ǀ krośanāsaḥ ǀ viṣvañcaḥ ǀ āyan ǀ pacāti ǀ nemaḥ ǀ nahi ǀ pakṣat ǀ ardhaḥ ǀ
ayam ǀ me ǀ devaḥ ǀ savitā ǀ tat ǀ āha ǀ dru-annaḥ ǀ it ǀ vanavat ǀ sarpiḥ-annaḥ ǁ10.27.18 Aṣṭaka 7.7.18.3Anuvāka 10.2.120
-
Ṛk 19
अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानं ।
सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् |
सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ||ápaśyam grā́mam váhamānamārā́dacakráyā svadháyā vártamānam ǀ
síṣaktyaryáḥ prá yugā́ jánānām sadyáḥ śiśnā́ praminānó návīyān ǁapaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam |
siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān ||अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।
सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् ।
सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥ápaśyam ǀ grā́mam ǀ váhamānam ǀ ārā́t ǀ acakráyā ǀ svadháyā ǀ vártamānam ǀ
sísakti ǀ aryáḥ ǀ prá ǀ yugā́ ǀ jánānām ǀ sadyáḥ ǀ śiśnā́ ǀ pra-minānáḥ ǀ návīyān ǁapaśyam ǀ grāmam ǀ vahamānam ǀ ārāt ǀ acakrayā ǀ svadhayā ǀ vartamānam ǀ
sisakti ǀ aryaḥ ǀ pra ǀ yugā ǀ janānām ǀ sadyaḥ ǀ śiśnā ǀ pra-minānaḥ ǀ navīyān ǁ10.27.19 Aṣṭaka 7.7.18.4Anuvāka 10.2.121
-
Ṛk 20
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधि ।
आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि |
आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ||etáu me gā́vau pramarásya yuktáu mó ṣú prá sedhīrmúhurínmamandhi ǀ
ā́paścidasya ví naśantyártham sū́raśca marká úparo babhūvā́n ǁetau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi |
āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān ||ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।
आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥etáu ǀ me ǀ gā́vau ǀ pra-marásya ǀ yuktáu ǀ mó íti ǀ sú ǀ prá ǀ sedhīḥ ǀ múhuḥ ǀ ít ǀ mamandhi ǀ
ā́paḥ ǀ cit ǀ asya ǀ ví ǀ naśanti ǀ ártham ǀ sū́raḥ ǀ ca ǀ markáḥ ǀ úparaḥ ǀ babhūvā́n ǁetau ǀ me ǀ gāvau ǀ pra-marasya ǀ yuktau ǀ mo iti ǀ su ǀ pra ǀ sedhīḥ ǀ muhuḥ ǀ it ǀ mamandhi ǀ
āpaḥ ǀ cit ǀ asya ǀ vi ǀ naśanti ǀ artham ǀ sūraḥ ǀ ca ǀ markaḥ ǀ uparaḥ ǀ babhūvān ǁ10.27.20 Aṣṭaka 7.7.18.5Anuvāka 10.2.122
-
Ṛk 21
अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।
श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरंति ॥अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् |
श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ||ayám yó vájraḥ purudhā́ vívṛtto’váḥ sū́ryasya bṛhatáḥ púrīṣāt ǀ
śráva ídenā́ paró anyádasti tádavyathī́ jarimā́ṇastaranti ǁayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt |
śrava id enā paro anyad asti tad avyathī jarimāṇas taranti ||अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।
श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥अयम् । यः । वज्रः । पुरुधा । विऽवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् ।
श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥ayám ǀ yáḥ ǀ vájraḥ ǀ purudhā́ ǀ ví-vṛttaḥ ǀ aváḥ ǀ sū́ryasya ǀ bṛhatáḥ ǀ púrīṣāt ǀ
śrávaḥ ǀ ít ǀ enā́ ǀ paráḥ ǀ anyát ǀ asti ǀ tát ǀ avyathī́ ǀ jarimā́ṇaḥ ǀ taranti ǁayam ǀ yaḥ ǀ vajraḥ ǀ purudhā ǀ vi-vṛttaḥ ǀ avaḥ ǀ sūryasya ǀ bṛhataḥ ǀ purīṣāt ǀ
śravaḥ ǀ it ǀ enā ǀ paraḥ ǀ anyat ǀ asti ǀ tat ǀ avyathī ǀ jarimāṇaḥ ǀ taranti ǁ10.27.21 Aṣṭaka 7.7.19.1Anuvāka 10.2.123
-
Ṛk 22
वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।
अथे॒दं विश्वं॒ भुव॑नं भयात॒ इंद्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः |
अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ||vṛkṣévṛkṣe níyatā mīmayadgáustáto váyaḥ prá patānpūruṣā́daḥ ǀ
áthedám víśvam bhúvanam bhayāta índrāya sunvádṛ́ṣaye ca śíkṣat ǁvṛkṣe-vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ |
athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat ||वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।
अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥वृक्षेऽवृक्षे । निऽयता । मीमयत् । गौः । ततः । वयः । प्र । पतान् । पुरुषऽअदः ।
अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥vṛkṣé-vṛkṣe ǀ ní-yatā ǀ mīmayat ǀ gáuḥ ǀ tátaḥ ǀ váyaḥ ǀ prá ǀ patān ǀ puruṣa-ádaḥ ǀ
átha ǀ idám ǀ víśvam ǀ bhúvanam ǀ bhayāte ǀ índrāya ǀ sunvát ǀ ṛ́ṣaye ǀ ca ǀ śíkṣat ǁvṛkṣe-vṛkṣe ǀ ni-yatā ǀ mīmayat ǀ gauḥ ǀ tataḥ ǀ vayaḥ ǀ pra ǀ patān ǀ puruṣa-adaḥ ǀ
atha ǀ idam ǀ viśvam ǀ bhuvanam ǀ bhayāte ǀ indrāya ǀ sunvat ǀ ṛṣaye ǀ ca ǀ śikṣat ǁ10.27.22 Aṣṭaka 7.7.19.2Anuvāka 10.2.124
-
Ṛk 23
दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृं॒तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।
त्रय॑स्तपंति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षं ॥देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् |
त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ||devā́nām mā́ne prathamā́ atiṣṭhankṛntátrādeṣāmúparā údāyan ǀ
tráyastapanti pṛthivī́manūpā́ dvā́ bṛ́būkam vahataḥ púrīṣam ǁdevānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan |
trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam ||दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।
त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥देवानाम् । माने । प्रथमाः । अतिष्ठन् । कृन्तत्रात् । एषाम् । उपराः । उत् । आयन् ।
त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥devā́nām ǀ mā́ne ǀ prathamā́ḥ ǀ atiṣṭhan ǀ kṛntátrāt ǀ eṣām ǀ úparāḥ ǀ út ǀ āyan ǀ
tráyaḥ ǀ tapanti ǀ pṛthivī́m ǀ anūpā́ḥ ǀ dvā́ ǀ bṛ́būkam ǀ vahataḥ ǀ púrīṣam ǁdevānām ǀ māne ǀ prathamāḥ ǀ atiṣṭhan ǀ kṛntatrāt ǀ eṣām ǀ uparāḥ ǀ ut ǀ āyan ǀ
trayaḥ ǀ tapanti ǀ pṛthivīm ǀ anūpāḥ ǀ dvā ǀ bṛbūkam ǀ vahataḥ ǀ purīṣam ǁ10.27.23 Aṣṭaka 7.7.19.3Anuvāka 10.2.125
-
Ṛk 24
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।
आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये |
आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ||sā́ te jīvā́turutá tásya viddhi mā́ smaitādṛ́gápa gūhaḥ samaryé ǀ
āvíḥ sváḥ kṛṇuté gū́hate busám sá pādúrasya nirṇíjo ná mucyate ǁsā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye |
āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate ||सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।
आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।
आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥sā́ ǀ te ǀ jīvā́tuḥ ǀ utá ǀ tásya ǀ viddhi ǀ mā́ ǀ sma ǀ etādṛ́k ǀ ápa ǀ gūhaḥ ǀ sa-maryé ǀ
āvíḥ ǀ sváríti sváḥ ǀ kṛṇuté ǀ gū́hate ǀ busám ǀ sáḥ ǀ pādúḥ ǀ asya ǀ niḥ-níjaḥ ǀ ná ǀ mucyate ǁsā ǀ te ǀ jīvātuḥ ǀ uta ǀ tasya ǀ viddhi ǀ mā ǀ sma ǀ etādṛk ǀ apa ǀ gūhaḥ ǀ sa-marye ǀ
āviḥ ǀ svariti svaḥ ǀ kṛṇute ǀ gūhate ǀ busam ǀ saḥ ǀ pāduḥ ǀ asya ǀ niḥ-nijaḥ ǀ na ǀ mucyate ǁ10.27.24 Aṣṭaka 7.7.19.4Anuvāka 10.2.126
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.