Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.7
Saṃhitā
अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।
द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥
अभूर् व् औक्षीर् व्य् उ आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् |
द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ||
ábhūrváukṣīrvyú ā́yurānaḍdárṣannú pū́rvo áparo nú darṣat ǀ
dvé paváste pári tám ná bhūto yó asyá pāré rájaso vivéṣa ǁ
abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat |
dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa ||
Padapāṭha
अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।
द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥
अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।
द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥
ábhūḥ ǀ ūṃ íti ǀ áukṣīḥ ǀ ví ǀ ūṃ íti ǀ ā́yuḥ ǀ ānaṭ ǀ dárṣat ǀ nú ǀ pū́rvaḥ ǀ áparaḥ ǀ nú ǀ darṣat ǀ
dvé íti ǀ paváste íti ǀ pári ǀ tám ǀ ná ǀ bhūtaḥ ǀ yáḥ ǀ asyá ǀ pāré ǀ rájasaḥ ǀ vivéṣa ǁ
abhūḥ ǀ ūṃ iti ǀ aukṣīḥ ǀ vi ǀ ūṃ iti ǀ āyuḥ ǀ ānaṭ ǀ darṣat ǀ nu ǀ pūrvaḥ ǀ aparaḥ ǀ nu ǀ darṣat ǀ
dve iti ǀ pavaste iti ǀ pari ǀ tam ǀ na ǀ bhūtaḥ ǀ yaḥ ǀ asya ǀ pāre ǀ rajasaḥ ǀ viveṣa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.16.02
- Maṇḍala · Anuvāka · Ṛk
- 10.02.109
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.