Sūkta 26
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Vimada Aindra Or Vimada Prājāpatya Or Vimada Aindra And Vasukṛt Vāsukra
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih
Metres by ṛk
1st set of styles pādanicṛdanuṣṭup (5-8); uṣṇik (1); svarāḍārcyanuṣṭup (2); kakummatyanuṣṭup (3); nicṛdārṣyuṣṇik (4); virāḍārṣyanuṣṭup (9)
2nd set of styles anuṣṭubh (2, 3, 5-9); uṣṇih (1, 4)
-
Ṛk 1
प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यंति॑ नि॒युतः॑ ।
प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥प्र ह्य् अच्छा मनीषा स्पार्हा यन्ति नियुतः |
प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ||prá hyácchā manīṣā́ spārhā́ yánti niyútaḥ ǀ
prá dasrā́ niyúdrathaḥ pūṣā́ aviṣṭu mā́hinaḥ ǁpra hy acchā manīṣā spārhā yanti niyutaḥ |
pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ ||प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।
प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः ।
प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥prá ǀ hí ǀ áccha ǀ manīṣā́ḥ ǀ spārhā́ḥ ǀ yánti ǀ ni-yútaḥ ǀ
prá ǀ dasrā́ ǀ niyút-rathaḥ ǀ pūṣā́ ǀ aviṣṭu ǀ mā́hinaḥ ǁpra ǀ hi ǀ accha ǀ manīṣāḥ ǀ spārhāḥ ǀ yanti ǀ ni-yutaḥ ǀ
pra ǀ dasrā ǀ niyut-rathaḥ ǀ pūṣā ǀ aviṣṭu ǀ māhinaḥ ǁ10.26.1 Aṣṭaka 7.7.13.1Anuvāka 10.2.94
-
Ṛk 2
यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ ।
विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नां ॥यस्य त्यन् महित्वं वाताप्यम् अयं जनः |
विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ||yásya tyánmahitvám vātā́pyamayám jánaḥ ǀ
vípra ā́ vaṃsaddhītíbhiścíketa suṣṭutīnā́m ǁyasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ |
vipra ā vaṃsad dhītibhiś ciketa suṣṭutīnām ||यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।
विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः ।
विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥yásya ǀ tyát ǀ mahi-tvám ǀ vātā́pyam ǀ ayám ǀ jánaḥ ǀ
vípraḥ ǀ ā́ ǀ vaṃsat ǀ dhītí-bhiḥ ǀ cíketa ǀ su-stutīnā́m ǁyasya ǀ tyat ǀ mahi-tvam ǀ vātāpyam ǀ ayam ǀ janaḥ ǀ
vipraḥ ǀ ā ǀ vaṃsat ǀ dhīti-bhiḥ ǀ ciketa ǀ su-stutīnām ǁ10.26.2 Aṣṭaka 7.7.13.2Anuvāka 10.2.95
-
Ṛk 3
स वे॑द सुष्टुती॒नामिंदु॒र्न पू॒षा वृषा॑ ।
अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा |
अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ||sá veda suṣṭutīnā́míndurná pūṣā́ vṛ́ṣā ǀ
abhí psúraḥ pruṣāyati vrajám na ā́ pruṣāyati ǁsa veda suṣṭutīnām indur na pūṣā vṛṣā |
abhi psuraḥ pruṣāyati vrajaṃ na ā pruṣāyati ||सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।
अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥सः । वेद । सुऽस्तुतीनाम् । इन्दुः । न । पूषा । वृषा ।
अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥sáḥ ǀ veda ǀ su-stutīnā́m ǀ índuḥ ǀ ná ǀ pūṣā́ ǀ vṛ́ṣā ǀ
abhí ǀ psúraḥ ǀ pruṣāyati ǀ vrajám ǀ naḥ ǀ ā́ ǀ pruṣāyati ǁsaḥ ǀ veda ǀ su-stutīnām ǀ induḥ ǀ na ǀ pūṣā ǀ vṛṣā ǀ
abhi ǀ psuraḥ ǀ pruṣāyati ǀ vrajam ǀ naḥ ǀ ā ǀ pruṣāyati ǁ10.26.3 Aṣṭaka 7.7.13.3Anuvāka 10.2.96
-
Ṛk 4
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् ।
म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वं ॥मंसीमहि त्वा वयम् अस्माकं देव पूषन् |
मतीनां च साधनं विप्राणां चाधवम् ||maṃsīmáhi tvā vayámasmā́kam deva pūṣan ǀ
matīnā́m ca sā́dhanam víprāṇām cādhavám ǁmaṃsīmahi tvā vayam asmākaṃ deva pūṣan |
matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam ||मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।
म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् ।
मतीनाम् । च । साधनम् । विप्राणाम् । च । आऽधवम् ॥maṃsīmáhi ǀ tvā ǀ vayám ǀ asmā́kam ǀ deva ǀ pūṣan ǀ
matīnā́m ǀ ca ǀ sā́dhanam ǀ víprāṇām ǀ ca ǀ ā-dhavám ǁmaṃsīmahi ǀ tvā ǀ vayam ǀ asmākam ǀ deva ǀ pūṣan ǀ
matīnām ǀ ca ǀ sādhanam ǀ viprāṇām ǀ ca ǀ ā-dhavam ǁ10.26.4 Aṣṭaka 7.7.13.4Anuvāka 10.2.97
-
Ṛk 5
प्रत्य॑र्धिर्य॒ज्ञाना॑मश्वह॒यो रथा॑नां ।
ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ॥प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् |
ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ||prátyardhiryajñā́nāmaśvahayó ráthānām ǀ
ṛ́ṣiḥ sá yó mánurhito víprasya yāvayatsakháḥ ǁpratyardhir yajñānām aśvahayo rathānām |
ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ ||प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।
ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥प्रतिऽअर्धिः । यज्ञानाम् । अश्वऽहयः । रथानाम् ।
ऋषिः । सः । यः । मनुःऽहितः । विप्रस्य । यवयत्ऽसखः ॥práti-ardhiḥ ǀ yajñā́nām ǀ aśva-hayáḥ ǀ ráthānām ǀ
ṛ́ṣiḥ ǀ sáḥ ǀ yáḥ ǀ mánuḥ-hitaḥ ǀ víprasya ǀ yavayat-sakháḥ ǁprati-ardhiḥ ǀ yajñānām ǀ aśva-hayaḥ ǀ rathānām ǀ
ṛṣiḥ ǀ saḥ ǀ yaḥ ǀ manuḥ-hitaḥ ǀ viprasya ǀ yavayat-sakhaḥ ǁ10.26.5 Aṣṭaka 7.7.13.5Anuvāka 10.2.98
-
Ṛk 6
आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया॑श्च शु॒चस्य॑ च ।
वा॒सो॒वा॒योऽवी॑ना॒मा वासां॑सि॒ मर्मृ॑जत् ॥आधीषमाणायाः पतिः शुचायाश् च शुचस्य च |
वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ||ādhī́ṣamāṇāyāḥ pátiḥ śucā́yāśca śucásya ca ǀ
vāsovāyó’vīnāmā́ vā́sāṃsi mármṛjat ǁādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca |
vāsovāyo 'vīnām ā vāsāṃsi marmṛjat ||आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।
वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥आऽधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च ।
वासःऽवायः । अवीनाम् । आ । वासांसि । मर्मृजत् ॥ā-dhī́ṣamāṇāyāḥ ǀ pátiḥ ǀ śucā́yāḥ ǀ ca ǀ śucásya ǀ ca ǀ
vāsaḥ-vāyáḥ ǀ ávīnām ǀ ā́ ǀ vā́sāṃsi ǀ mármṛjat ǁā-dhīṣamāṇāyāḥ ǀ patiḥ ǀ śucāyāḥ ǀ ca ǀ śucasya ǀ ca ǀ
vāsaḥ-vāyaḥ ǀ avīnām ǀ ā ǀ vāsāṃsi ǀ marmṛjat ǁ10.26.6 Aṣṭaka 7.7.14.1Anuvāka 10.2.99
-
Ṛk 7
इ॒नो वाजा॑नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा॑ ।
प्र श्मश्रु॑ हर्य॒तो दू॑धो॒द्वि वृथा॒ यो अदा॑भ्यः ॥इनो वाजानाम् पतिर् इनः पुष्टीनां सखा |
प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ||inó vā́jānām pátirináḥ puṣṭīnā́m sákhā ǀ
prá śmáśru haryató dūdhodví vṛ́thā yó ádābhyaḥ ǁino vājānām patir inaḥ puṣṭīnāṃ sakhā |
pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ ||इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।
प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा ।
प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥ináḥ ǀ vā́jānām ǀ pátiḥ ǀ ináḥ ǀ puṣṭīnā́m ǀ sákhā ǀ
prá ǀ śmáśru ǀ haryatáḥ ǀ dūdhot ǀ ví ǀ vṛ́thā ǀ yáḥ ǀ ádābhyaḥ ǁinaḥ ǀ vājānām ǀ patiḥ ǀ inaḥ ǀ puṣṭīnām ǀ sakhā ǀ
pra ǀ śmaśru ǀ haryataḥ ǀ dūdhot ǀ vi ǀ vṛthā ǀ yaḥ ǀ adābhyaḥ ǁ10.26.7 Aṣṭaka 7.7.14.2Anuvāka 10.2.100
-
Ṛk 8
आ ते॒ रथ॑स्य पूषन्न॒जा धुरं॑ ववृत्युः ।
विश्व॑स्या॒र्थिनः॒ सखा॑ सनो॒जा अन॑पच्युतः ॥आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः |
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ||ā́ te ráthasya pūṣannajā́ dhúram vavṛtyuḥ ǀ
víśvasyārthínaḥ sákhā sanojā́ ánapacyutaḥ ǁā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ |
viśvasyārthinaḥ sakhā sanojā anapacyutaḥ ||आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।
विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः ।
विश्वस्य । अर्थिनः । सखा । सनःऽजाः । अनपऽच्युतः ॥ā́ ǀ te ǀ ráthasya ǀ pūṣan ǀ ajā́ḥ ǀ dhúram ǀ vavṛtyuḥ ǀ
víśvasya ǀ arthínaḥ ǀ sákhā ǀ sanaḥ-jā́ḥ ǀ ánapa-cyutaḥ ǁā ǀ te ǀ rathasya ǀ pūṣan ǀ ajāḥ ǀ dhuram ǀ vavṛtyuḥ ǀ
viśvasya ǀ arthinaḥ ǀ sakhā ǀ sanaḥ-jāḥ ǀ anapa-cyutaḥ ǁ10.26.8 Aṣṭaka 7.7.14.3Anuvāka 10.2.101
-
Ṛk 9
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः ।
भुव॒द्वाजा॑नां वृ॒ध इ॒मं नः॑ शृणव॒द्धवं॑ ॥अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः |
भुवद् वाजानां वृध इमं नः शृणवद् धवम् ||asmā́kamūrjā́ rátham pūṣā́ aviṣṭu mā́hinaḥ ǀ
bhúvadvā́jānām vṛdhá imám naḥ śṛṇavaddhávam ǁasmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ |
bhuvad vājānāṃ vṛdha imaṃ naḥ śṛṇavad dhavam ||अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।
भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः ।
भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥asmā́kam ǀ ūrjā́ ǀ rátham ǀ pūṣā́ ǀ aviṣṭu ǀ mā́hinaḥ ǀ
bhúvat ǀ vā́jānām ǀ vṛdháḥ ǀ imám ǀ naḥ ǀ śṛṇavat ǀ hávam ǁasmākam ǀ ūrjā ǀ ratham ǀ pūṣā ǀ aviṣṭu ǀ māhinaḥ ǀ
bhuvat ǀ vājānām ǀ vṛdhaḥ ǀ imam ǀ naḥ ǀ śṛṇavat ǀ havam ǁ10.26.9 Aṣṭaka 7.7.14.4Anuvāka 10.2.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.