Sūkta 41
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Suhastya Ghauṣeya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles pādanicṛjjgatī (1); nicṛjjagatī (2); virāḍjagatī (3)
2nd set of styles jagatī
-
Ṛk 1
स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतं ।
परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥समानम् उ त्यम् पुरुहूतम् उक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् |
परिज्मानं विदथ्यं सुवृक्तिभिर् वयं व्युष्टा उषसो हवामहे ||samānámu tyám puruhūtámukthyám rátham tricakrám sávanā gánigmatam ǀ
párijmānam vidathyám suvṛktíbhirvayám vyúṣṭā uṣáso havāmahe ǁsamānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam |
parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe ||स॒मा॒नम् । ऊं॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् ।
परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥समानम् । ऊं इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् ।
परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥samānám ǀ ūṃ íti ǀ tyám ǀ puru-hūtám ǀ ukthyám ǀ rátham ǀ tri-cakrám ǀ sávanā ǀ gánigmatam ǀ
pári-jmānam ǀ vidathyám ǀ suvṛktí-bhiḥ ǀ vayám ǀ ví-uṣṭau ǀ uṣásaḥ ǀ havāmahe ǁsamānam ǀ ūṃ iti ǀ tyam ǀ puru-hūtam ǀ ukthyam ǀ ratham ǀ tri-cakram ǀ savanā ǀ ganigmatam ǀ
pari-jmānam ǀ vidathyam ǀ suvṛkti-bhiḥ ǀ vayam ǀ vi-uṣṭau ǀ uṣasaḥ ǀ havāmahe ǁ10.41.1 Aṣṭaka 7.8.21.1Anuvāka 10.3.132
-
Ṛk 2
प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथं॑ ।
विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मंतमश्विना ॥प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणम् मधुवाहनं रथम् |
विशो येन गच्छथो यज्वरीर् नरा कीरेश् चिद् यज्ञं होतृमन्तम् अश्विना ||prātaryújam nāsatyā́dhi tiṣṭhathaḥ prātaryā́vāṇam madhuvā́hanam rátham ǀ
víśo yéna gácchatho yájvarīrnarā kīréścidyajñám hótṛmantamaśvinā ǁprātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham |
viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā ||प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् ।
विशः॑ । येन॑ । गच्छ॑थः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥प्रातःऽयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःऽयावानम् । मधुऽवाहनम् । रथम् ।
विशः । येन । गच्छथः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृऽमन्तम् । अश्विना ॥prātaḥ-yújam ǀ nāsatyā ǀ ádhi ǀ tiṣṭhathaḥ ǀ prātaḥ-yā́vānam ǀ madhu-vā́hanam ǀ rátham ǀ
víśaḥ ǀ yéna ǀ gácchathaḥ ǀ yájvarīḥ ǀ narā ǀ kīréḥ ǀ cit ǀ yajñám ǀ hótṛ-mantam ǀ aśvinā ǁprātaḥ-yujam ǀ nāsatyā ǀ adhi ǀ tiṣṭhathaḥ ǀ prātaḥ-yāvānam ǀ madhu-vāhanam ǀ ratham ǀ
viśaḥ ǀ yena ǀ gacchathaḥ ǀ yajvarīḥ ǀ narā ǀ kīreḥ ǀ cit ǀ yajñam ǀ hotṛ-mantam ǀ aśvinā ǁ10.41.2 Aṣṭaka 7.8.21.2Anuvāka 10.3.133
-
Ṛk 3
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसं ।
विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥अध्वर्युं वा मधुपाणिं सुहस्त्यम् अग्निधं वा धृतदक्षं दमूनसम् |
विप्रस्य वा यत् सवनानि गच्छथो ऽत आ यातम् मधुपेयम् अश्विना ||adhvaryúm vā mádhupāṇim suhástyamagnídham vā dhṛtádakṣam dámūnasam ǀ
víprasya vā yátsávanāni gácchathó’ta ā́ yātam madhupéyamaśvinā ǁadhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam |
viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā ||अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् ।
विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ॥अध्वर्युम् । वा । मधुऽपाणिम् । सुऽहस्त्यम् । अग्निधम् । वा । धृतऽदक्षम् । दमूनसम् ।
विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुऽपेयम् । अश्विना ॥adhvaryúm ǀ vā ǀ mádhu-pāṇim ǀ su-hástyam ǀ agnídham ǀ vā ǀ dhṛtá-dakṣam ǀ dámūnasam ǀ
víprasya ǀ vā ǀ yát ǀ sávanāni ǀ gácchathaḥ ǀ átaḥ ǀ ā́ ǀ yātam ǀ madhu-péyam ǀ aśvinā ǁadhvaryum ǀ vā ǀ madhu-pāṇim ǀ su-hastyam ǀ agnidham ǀ vā ǀ dhṛta-dakṣam ǀ damūnasam ǀ
viprasya ǀ vā ǀ yat ǀ savanāni ǀ gacchathaḥ ǀ ataḥ ǀ ā ǀ yātam ǀ madhu-peyam ǀ aśvinā ǁ10.41.3 Aṣṭaka 7.8.21.3Anuvāka 10.3.134
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.