Sūkta 104
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aṣṭaka Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2, 7, 8, 11); nicṛttriṣṭup (5, 6, 10); virāṭtrisṭup (3, 4); pādanicṛttriṣṭup (9)
2nd set of styles triṣṭubh
-
Ṛk 1
असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूयं॑ ।
तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इं॑द्र॒ पिबा॑ सु॒तस्य॑ ॥असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञम् उप याहि तूयम् |
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ||ásāvi sómaḥ puruhūta túbhyam háribhyām yajñámúpa yāhi tū́yam ǀ
túbhyam gíro vípravīrā iyānā́ dadhanvirá indra píbā sutásya ǁasāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam |
tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya ||असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् ।
तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥असावि । सोमः । पुरुऽहूत । तुभ्यम् । हरिऽभ्याम् । यज्ञम् । उप । याहि । तूयम् ।
तुभ्यम् । गिरः । विप्रऽवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥ásāvi ǀ sómaḥ ǀ puru-hūta ǀ túbhyam ǀ hári-bhyām ǀ yajñám ǀ úpa ǀ yāhi ǀ tū́yam ǀ
túbhyam ǀ gíraḥ ǀ vípra-vīrāḥ ǀ iyānā́ḥ ǀ dadhanviré ǀ indra ǀ píba ǀ sutásya ǁasāvi ǀ somaḥ ǀ puru-hūta ǀ tubhyam ǀ hari-bhyām ǀ yajñam ǀ upa ǀ yāhi ǀ tūyam ǀ
tubhyam ǀ giraḥ ǀ vipra-vīrāḥ ǀ iyānāḥ ǀ dadhanvire ǀ indra ǀ piba ǀ sutasya ǁ10.104.1 Aṣṭaka 8.5.24.1Anuvāka 10.9.50
-
Ṛk 2
अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।
मि॒मि॒क्षुर्यमद्र॑य इंद्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरम् पृणस्व |
मिमिक्षुर् यम् अद्रय इन्द्र तुभ्यं तेभिर् वर्धस्व मदम् उक्थवाहः ||apsú dhūtásya harivaḥ píbehá nṛ́bhiḥ sutásya jaṭháram pṛṇasva ǀ
mimikṣúryámádraya indra túbhyam tébhirvardhasva mádamukthavāhaḥ ǁapsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva |
mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ ||अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नृऽभिः॑ । सु॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्व॒ ।
मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ । मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥अप्ऽसु । धूतस्य । हरिऽवः । पिब । इह । नृऽभिः । सुतस्य । जठरम् । पृणस्व ।
मिमिक्षुः । यम् । अद्रयः । इन्द्र । तुभ्यम् । तेभिः । वर्धस्व । मदम् । उक्थऽवाहः ॥ap-sú ǀ dhūtásya ǀ hari-vaḥ ǀ píba ǀ ihá ǀ nṛ́-bhiḥ ǀ sutásya ǀ jaṭháram ǀ pṛṇasva ǀ
mimikṣúḥ ǀ yám ǀ ádrayaḥ ǀ indra ǀ túbhyam ǀ tébhiḥ ǀ vardhasva ǀ mádam ǀ uktha-vāhaḥ ǁap-su ǀ dhūtasya ǀ hari-vaḥ ǀ piba ǀ iha ǀ nṛ-bhiḥ ǀ sutasya ǀ jaṭharam ǀ pṛṇasva ǀ
mimikṣuḥ ǀ yam ǀ adrayaḥ ǀ indra ǀ tubhyam ǀ tebhiḥ ǀ vardhasva ǀ madam ǀ uktha-vāhaḥ ǁ10.104.2 Aṣṭaka 8.5.24.2Anuvāka 10.9.51
-
Ṛk 3
प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्यं॑ ।
इंद्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥प्रोग्राम् पीतिं वृष्ण इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् |
इन्द्र धेनाभिर् इह मादयस्व धीभिर् विश्वाभिः शच्या गृणानः ||prógrā́m pītím vṛ́ṣṇa iyarmi satyā́m prayái sutásya haryaśva túbhyam ǀ
índra dhénābhirihá mādayasva dhībhírvíśvābhiḥ śácyā gṛṇānáḥ ǁprogrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam |
indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ ||प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ।
इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ।
इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः ॥prá ǀ ugrā́m ǀ pītím ǀ vṛ́ṣṇe ǀ iyarmi ǀ satyā́m ǀ pra-yái ǀ sutásya ǀ hari-aśva ǀ túbhyam ǀ
índra ǀ dhénābhiḥ ǀ ihá ǀ mādayasva ǀ dhībhíḥ ǀ víśvābhiḥ ǀ śácyā ǀ gṛṇānáḥ ǁpra ǀ ugrām ǀ pītim ǀ vṛṣṇe ǀ iyarmi ǀ satyām ǀ pra-yai ǀ sutasya ǀ hari-aśva ǀ tubhyam ǀ
indra ǀ dhenābhiḥ ǀ iha ǀ mādayasva ǀ dhībhiḥ ǀ viśvābhiḥ ǀ śacyā ǀ gṛṇānaḥ ǁ10.104.3 Aṣṭaka 8.5.24.3Anuvāka 10.9.52
-
Ṛk 4
ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।
प्र॒जाव॑दिंद्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णंतः॑ सध॒माद्या॑सः ॥ऊती शचीवस् तव वीर्येण वयो दधाना उशिज ऋतज्ञाः |
प्रजावद् इन्द्र मनुषो दुरोणे तस्थुर् गृणन्तः सधमाद्यासः ||ūtī́ śacīvastáva vīryéṇa váyo dádhānā uśíja ṛtajñā́ḥ ǀ
prajā́vadindra mánuṣo duroṇé tasthúrgṛṇántaḥ sadhamā́dyāsaḥ ǁūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ ||ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः ।
प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥ऊती । शचीऽवः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋतऽज्ञाः ।
प्रजाऽवत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सधऽमाद्यासः ॥ūtī́ ǀ śacī-vaḥ ǀ táva ǀ vīryéṇa ǀ váyaḥ ǀ dádhānāḥ ǀ uśíjaḥ ǀ ṛta-jñā́ḥ ǀ
prajā́-vat ǀ indra ǀ mánuṣaḥ ǀ duroṇé ǀ tasthúḥ ǀ gṛṇántaḥ ǀ sadha-mā́dyāsaḥ ǁūtī ǀ śacī-vaḥ ǀ tava ǀ vīryeṇa ǀ vayaḥ ǀ dadhānāḥ ǀ uśijaḥ ǀ ṛta-jñāḥ ǀ
prajā-vat ǀ indra ǀ manuṣaḥ ǀ duroṇe ǀ tasthuḥ ǀ gṛṇantaḥ ǀ sadha-mādyāsaḥ ǁ10.104.4 Aṣṭaka 8.5.24.4Anuvāka 10.9.53
-
Ṛk 5
प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।
मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इंद्र॒ तव॑ सू॒नृता॑भिः ॥प्रणीतिभिष् टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः |
मंहिष्ठाम् ऊतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ||práṇītibhiṣṭe haryaśva suṣṭóḥ suṣumnásya pururúco jánāsaḥ ǀ
máṃhiṣṭhāmūtím vitíre dádhānāḥ stotā́ra indra táva sūnṛ́tābhiḥ ǁpraṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ |
maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ ||प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒ऽसु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः ।
मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥प्रनीतिऽभिः । ते । हरिऽअश्व । सुऽस्तोः । सुऽसुम्नस्य । पुरुऽरुचः । जनासः ।
मंहिष्ठाम् । ऊतिम् । विऽतिरे । दधानाः । स्तोतारः । इन्द्र । तव । सूनृताभिः ॥pránīti-bhiḥ ǀ te ǀ hari-aśva ǀ su-stóḥ ǀ su-sumnásya ǀ puru-rúcaḥ ǀ jánāsaḥ ǀ
máṃhiṣṭhām ǀ ūtím ǀ vi-tíre ǀ dádhānāḥ ǀ stotā́raḥ ǀ indra ǀ táva ǀ sūnṛ́tābhiḥ ǁpranīti-bhiḥ ǀ te ǀ hari-aśva ǀ su-stoḥ ǀ su-sumnasya ǀ puru-rucaḥ ǀ janāsaḥ ǀ
maṃhiṣṭhām ǀ ūtim ǀ vi-tire ǀ dadhānāḥ ǀ stotāraḥ ǀ indra ǀ tava ǀ sūnṛtābhiḥ ǁ10.104.5 Aṣṭaka 8.5.24.5Anuvāka 10.9.54
-
Ṛk 6
उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।
इंद्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य |
इन्द्र त्वा यज्ञः क्षममाणम् आनड् दाश्वां अस्य् अध्वरस्य प्रकेतः ||úpa bráhmāṇi harivo háribhyām sómasya yāhi pītáye sutásya ǀ
índra tvā yajñáḥ kṣámamāṇamānaḍdāśvā́m̐ asyadhvarásya praketáḥ ǁupa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya |
indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṃ asy adhvarasya praketaḥ ||उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ ।
इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥उप । ब्रह्माणि । हरिऽवः । हरिऽभ्याम् । सोमस्य । याहि । पीतये । सुतस्य ।
इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्रऽकेतः ॥úpa ǀ bráhmāṇi ǀ hari-vaḥ ǀ hári-bhyām ǀ sómasya ǀ yāhi ǀ pītáye ǀ sutásya ǀ
índra ǀ tvā ǀ yajñáḥ ǀ kṣámamāṇam ǀ ānaṭ ǀ dāśvā́n ǀ asi ǀ adhvarásya ǀ pra-ketáḥ ǁupa ǀ brahmāṇi ǀ hari-vaḥ ǀ hari-bhyām ǀ somasya ǀ yāhi ǀ pītaye ǀ sutasya ǀ
indra ǀ tvā ǀ yajñaḥ ǀ kṣamamāṇam ǀ ānaṭ ǀ dāśvān ǀ asi ǀ adhvarasya ǀ pra-ketaḥ ǁ10.104.6 Aṣṭaka 8.5.25.1Anuvāka 10.9.55
-
Ṛk 7
स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिं ।
उप॑ भूषंति॒ गिरो॒ अप्र॑तीत॒मिंद्रं॑ नम॒स्या ज॑रि॒तुः प॑नंत ॥सहस्रवाजम् अभिमातिषाहं सुतेरणम् मघवानं सुवृक्तिम् |
उप भूषन्ति गिरो अप्रतीतम् इन्द्रं नमस्या जरितुः पनन्त ||sahásravājamabhimātiṣā́ham sutéraṇam maghávānam suvṛktím ǀ
úpa bhūṣanti gíro ápratītamíndram namasyā́ jaritúḥ pananta ǁsahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim |
upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta ||स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् ।
उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥सहस्रऽवाजम् । अभिमातिऽसहम् । सुतेऽरणम् । मघऽवानम् । सुऽवृक्तिम् ।
उप । भूषन्ति । गिरः । अप्रतिऽइतम् । इन्द्रम् । नमस्याः । जरितुः । पनन्त ॥sahásra-vājam ǀ abhimāti-sáham ǀ suté-raṇam ǀ maghá-vānam ǀ su-vṛktím ǀ
úpa ǀ bhūṣanti ǀ gíraḥ ǀ áprati-itam ǀ índram ǀ namasyā́ḥ ǀ jaritúḥ ǀ pananta ǁsahasra-vājam ǀ abhimāti-saham ǀ sute-raṇam ǀ magha-vānam ǀ su-vṛktim ǀ
upa ǀ bhūṣanti ǀ giraḥ ǀ aprati-itam ǀ indram ǀ namasyāḥ ǀ jarituḥ ǀ pananta ǁ10.104.7 Aṣṭaka 8.5.25.2Anuvāka 10.9.56
-
Ṛk 8
स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिंधु॒मत॑र इंद्र पू॒र्भित् ।
न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रवं॑तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विंदः ॥सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुम् अतर इन्द्र पूर्भित् |
नवतिं स्रोत्या नव च स्रवन्तीर् देवेभ्यो गातुम् मनुषे च विन्दः ||saptā́po devī́ḥ suráṇā ámṛktā yā́bhiḥ síndhumátara indra pūrbhít ǀ
navatím srotyā́ náva ca srávantīrdevébhyo gātúm mánuṣe ca vindaḥ ǁsaptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit |
navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ ||स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।
न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥सप्त । आपः । देवीः । सुऽरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःऽभित् ।
नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥saptá ǀ ā́paḥ ǀ devī́ḥ ǀ su-ráṇāḥ ǀ ámṛktāḥ ǀ yā́bhiḥ ǀ síndhum ǀ átaraḥ ǀ indra ǀ pūḥ-bhít ǀ
navatím ǀ srotyā́ḥ ǀ náva ǀ ca ǀ srávantīḥ ǀ devébhyaḥ ǀ gātúm ǀ mánuṣe ǀ ca ǀ vindaḥ ǁsapta ǀ āpaḥ ǀ devīḥ ǀ su-raṇāḥ ǀ amṛktāḥ ǀ yābhiḥ ǀ sindhum ǀ ataraḥ ǀ indra ǀ pūḥ-bhit ǀ
navatim ǀ srotyāḥ ǀ nava ǀ ca ǀ sravantīḥ ǀ devebhyaḥ ǀ gātum ǀ manuṣe ǀ ca ǀ vindaḥ ǁ10.104.8 Aṣṭaka 8.5.25.3Anuvāka 10.9.57
-
Ṛk 9
अ॒पो म॒हीर॒भिश॑स्तेरमुं॒चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।
इंद्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥अपो महीर् अभिशस्तेर् अमुञ्चो ऽजागर् आस्व् अधि देव एकः |
इन्द्र यास् त्वं वृत्रतूर्ये चकर्थ ताभिर् विश्वायुस् तन्वम् पुपुष्याः ||apó mahī́rabhíśasteramuñcó’jāgarāsvádhi devá ékaḥ ǀ
índra yā́stvám vṛtratū́rye cakártha tā́bhirviśvā́yustanvám pupuṣyāḥ ǁapo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ |
indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ ||अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ ।
इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥अपः । महीः । अभिऽशस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः ।
इन्द्र । याः । त्वम् । वृत्रऽतूर्ये । चकर्थ । ताभिः । विश्वऽआयुः । तन्वम् । पुपुष्याः ॥apáḥ ǀ mahī́ḥ ǀ abhí-śasteḥ ǀ amuñcaḥ ǀ ájāgaḥ ǀ āsu ǀ ádhi ǀ deváḥ ǀ ékaḥ ǀ
índra ǀ yā́ḥ ǀ tvám ǀ vṛtra-tū́rye ǀ cakártha ǀ tā́bhiḥ ǀ viśvá-āyuḥ ǀ tanvám ǀ pupuṣyāḥ ǁapaḥ ǀ mahīḥ ǀ abhi-śasteḥ ǀ amuñcaḥ ǀ ajāgaḥ ǀ āsu ǀ adhi ǀ devaḥ ǀ ekaḥ ǀ
indra ǀ yāḥ ǀ tvam ǀ vṛtra-tūrye ǀ cakartha ǀ tābhiḥ ǀ viśva-āyuḥ ǀ tanvam ǀ pupuṣyāḥ ǁ10.104.9 Aṣṭaka 8.5.25.4Anuvāka 10.9.58
-
Ṛk 10
वी॒रेण्यः॒ क्रतु॒रिंद्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।
आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥वीरेण्यः क्रतुर् इन्द्रः सुशस्तिर् उतापि धेना पुरुहूतम् ईट्टे |
आर्दयद् वृत्रम् अकृणोद् उ लोकं ससाहे शक्रः पृतना अभिष्टिः ||vīréṇyaḥ kráturíndraḥ suśastírutā́pi dhénā puruhūtámīṭṭe ǀ
ā́rdayadvṛtrámákṛṇodu lokám sasāhé śakráḥ pṛ́tanā abhiṣṭíḥ ǁvīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe |
ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ ||वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ ।
आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥वीरेण्यः । क्रतुः । इन्द्रः । सुऽशस्तिः । उत । अपि । धेना । पुरुऽहूतम् । ईट्टे ।
आर्दयत् । वृत्रम् । अकृणोत् । ऊं इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः ॥vīréṇyaḥ ǀ krátuḥ ǀ índraḥ ǀ su-śastíḥ ǀ utá ǀ ápi ǀ dhénā ǀ puru-hūtám ǀ īṭṭe ǀ
ā́rdayat ǀ vṛtrám ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ sasahé ǀ śakráḥ ǀ pṛ́tanāḥ ǀ abhiṣṭíḥ ǁvīreṇyaḥ ǀ kratuḥ ǀ indraḥ ǀ su-śastiḥ ǀ uta ǀ api ǀ dhenā ǀ puru-hūtam ǀ īṭṭe ǀ
ārdayat ǀ vṛtram ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ sasahe ǀ śakraḥ ǀ pṛtanāḥ ǀ abhiṣṭiḥ ǁ10.104.10 Aṣṭaka 8.5.25.5Anuvāka 10.9.59
-
Ṛk 11
शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ |
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ||śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ
śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁśunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ
śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁśunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ
śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ10.104.11 Aṣṭaka 8.5.25.6Anuvāka 10.9.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.