Sūkta 113
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śataprabhedana Vairūpa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (2, 6, 9); jagatī (1, 5); svarāḍārcījagatī (7, 8); nicṛjjagatī (3); pādanicṛjjgatī (4); pādanicṛttriṣṭup (10)
2nd set of styles jagatī (1-9); triṣṭubh (10)
-
Ṛk 1
तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावतां ।
यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिंद्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् |
यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ||támasya dyā́vāpṛthivī́ sácetasā víśvebhirdeváiránu śúṣmamāvatām ǀ
yádáitkṛṇvānó mahimā́namindriyám pītvī́ sómasya krátumām̐ avardhata ǁtam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām |
yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṃ avardhata ||तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् ।
यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥तम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् ।
यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥tám ǀ asya ǀ dyā́vāpṛthivī́ íti ǀ sá-cetasā ǀ víśvebhiḥ ǀ deváiḥ ǀ ánu ǀ śúṣmam ǀ āvatām ǀ
yát ǀ áit ǀ kṛṇvānáḥ ǀ mahimā́nam ǀ indriyám ǀ pītvī́ ǀ sómasya ǀ krátu-mān ǀ avardhata ǁtam ǀ asya ǀ dyāvāpṛthivī iti ǀ sa-cetasā ǀ viśvebhiḥ ǀ devaiḥ ǀ anu ǀ śuṣmam ǀ āvatām ǀ
yat ǀ ait ǀ kṛṇvānaḥ ǀ mahimānam ǀ indriyam ǀ pītvī ǀ somasya ǀ kratu-mān ǀ avardhata ǁ10.113.1 Aṣṭaka 8.6.14.1Anuvāka 10.10.1
-
Ṛk 2
तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।
दे॒वेभि॒रिंद्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते |
देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वां अभवद् वरेण्यः ||támasya víṣṇurmahimā́namójasāṃśúm dadhanvā́nmádhuno ví rapśate ǀ
devébhiríndro maghávā sayā́vabhirvṛtrám jaghanvā́m̐ abhavadváreṇyaḥ ǁtam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate |
devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṃ abhavad vareṇyaḥ ||तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ ।
दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते ।
देवेभिः । इन्द्रः । मघऽवा । सयावऽभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥tám ǀ asya ǀ víṣṇuḥ ǀ mahimā́nam ǀ ójasā ǀ aṃśúm ǀ dadhanvā́n ǀ mádhunaḥ ǀ ví ǀ rapśate ǀ
devébhiḥ ǀ índraḥ ǀ maghá-vā ǀ sayā́va-bhiḥ ǀ vṛtrám ǀ jaghanvā́n ǀ abhavat ǀ váreṇyaḥ ǁtam ǀ asya ǀ viṣṇuḥ ǀ mahimānam ǀ ojasā ǀ aṃśum ǀ dadhanvān ǀ madhunaḥ ǀ vi ǀ rapśate ǀ
devebhiḥ ǀ indraḥ ǀ magha-vā ǀ sayāva-bhiḥ ǀ vṛtram ǀ jaghanvān ǀ abhavat ǀ vareṇyaḥ ǁ10.113.2 Aṣṭaka 8.6.14.2Anuvāka 10.10.2
-
Ṛk 3
वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।
विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिंद्रि॒यं ॥वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे |
विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ||vṛtréṇa yádáhinā bíbhradā́yudhā samásthithā yudháye śáṃsamāvíde ǀ
víśve te átra marútaḥ sahá tmánā́vardhannugra mahimā́namindriyám ǁvṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide |
viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam ||वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ ।
विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥वृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्ऽअस्थिथाः । युधये । शंसम् । आऽविदे ।
विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम् ॥vṛtréṇa ǀ yát ǀ áhinā ǀ bíbhrat ǀ ā́yudhā ǀ sam-ásthithāḥ ǀ yudháye ǀ śáṃsam ǀ ā-víde ǀ
víśve ǀ te ǀ átra ǀ marútaḥ ǀ sahá ǀ tmánā ǀ ávardhan ǀ ugra ǀ mahimā́nam ǀ indriyám ǁvṛtreṇa ǀ yat ǀ ahinā ǀ bibhrat ǀ āyudhā ǀ sam-asthithāḥ ǀ yudhaye ǀ śaṃsam ǀ ā-vide ǀ
viśve ǀ te ǀ atra ǀ marutaḥ ǀ saha ǀ tmanā ǀ avardhan ǀ ugra ǀ mahimānam ǀ indriyam ǁ10.113.3 Aṣṭaka 8.6.14.3Anuvāka 10.10.3
-
Ṛk 4
ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रणं॑ ।
अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुं ॥जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् |
अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ||jajñāná evá vyábādhata spṛ́dhaḥ prā́paśyadvīró abhí páuṃsyam ráṇam ǀ
ávṛścadádrimáva sasyádaḥ sṛjadástabhnānnā́kam svapasyáyā pṛthúm ǁjajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam |
avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum ||ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् ।
अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥जज्ञानः । एव । वि । अबाधत । स्पृधः । प्र । अपश्यत् । वीरः । अभि । पौंस्यम् । रणम् ।
अवृश्चत् । अद्रिम् । अव । सऽस्यदः । सृजत् । अस्तभ्नात् । नाकम् । सुऽअपस्यया । पृथुम् ॥jajñānáḥ ǀ evá ǀ ví ǀ abādhata ǀ spṛ́dhaḥ ǀ prá ǀ apaśyat ǀ vīráḥ ǀ abhí ǀ páuṃsyam ǀ ráṇam ǀ
ávṛścat ǀ ádrim ǀ áva ǀ sa-syádaḥ ǀ sṛjat ǀ ástabhnāt ǀ nā́kam ǀ su-apasyáyā ǀ pṛthúm ǁjajñānaḥ ǀ eva ǀ vi ǀ abādhata ǀ spṛdhaḥ ǀ pra ǀ apaśyat ǀ vīraḥ ǀ abhi ǀ pauṃsyam ǀ raṇam ǀ
avṛścat ǀ adrim ǀ ava ǀ sa-syadaḥ ǀ sṛjat ǀ astabhnāt ǀ nākam ǀ su-apasyayā ǀ pṛthum ǁ10.113.4 Aṣṭaka 8.6.14.4Anuvāka 10.10.4
-
Ṛk 5
आदिंद्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।
अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत |
अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ||ā́díndraḥ satrā́ táviṣīrapatyata várīyo dyā́vāpṛthivī́ abādhata ǀ
ávābharaddhṛṣitó vájramāyasám śévam mitrā́ya váruṇāya dāśúṣe ǁād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata |
avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe ||आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ ।
अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत ।
अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे ॥ā́t ǀ índraḥ ǀ satrā́ ǀ táviṣīḥ ǀ apatyata ǀ várīyaḥ ǀ dyā́vāpṛthivī́ íti ǀ abādhata ǀ
áva ǀ abharat ǀ dhṛṣitáḥ ǀ vájram ǀ āyasám ǀ śévam ǀ mitrā́ya ǀ váruṇāya ǀ dāśúṣe ǁāt ǀ indraḥ ǀ satrā ǀ taviṣīḥ ǀ apatyata ǀ varīyaḥ ǀ dyāvāpṛthivī iti ǀ abādhata ǀ
ava ǀ abharat ǀ dhṛṣitaḥ ǀ vajram ǀ āyasam ǀ śevam ǀ mitrāya ǀ varuṇāya ǀ dāśuṣe ǁ10.113.5 Aṣṭaka 8.6.14.5Anuvāka 10.10.5
-
Ṛk 6
इंद्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयंत म॒न्यवे॑ ।
वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतं ॥इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे |
वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ||índrasyā́tra táviṣībhyo virapśína ṛghāyató araṃhayanta manyáve ǀ
vṛtrám yádugró vyávṛścadójasāpó bíbhratam támasā párīvṛtam ǁindrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave |
vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam ||इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ ।
वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥इन्द्रस्य । अत्र । तविषीभ्यः । विऽरप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे ।
वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परिऽवृतम् ॥índrasya ǀ átra ǀ táviṣībhyaḥ ǀ vi-rapśínaḥ ǀ ṛghāyatáḥ ǀ araṃhayanta ǀ manyáve ǀ
vṛtrám ǀ yát ǀ ugráḥ ǀ ví ǀ ávṛścat ǀ ójasā ǀ apáḥ ǀ bíbhratam ǀ támasā ǀ pári-vṛtam ǁindrasya ǀ atra ǀ taviṣībhyaḥ ǀ vi-rapśinaḥ ǀ ṛghāyataḥ ǀ araṃhayanta ǀ manyave ǀ
vṛtram ǀ yat ǀ ugraḥ ǀ vi ǀ avṛścat ǀ ojasā ǀ apaḥ ǀ bibhratam ǀ tamasā ǀ pari-vṛtam ǁ10.113.6 Aṣṭaka 8.6.15.1Anuvāka 10.10.6
-
Ṛk 7
या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ ।
ध्वां॒तं तमोऽव॑ दध्वसे ह॒त इंद्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः |
ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ||yā́ vīryā́ṇi prathamā́ni kártvā mahitvébhiryátamānau samīyátuḥ ǀ
dhvāntám támó’va dadhvase hatá índro mahnā́ pūrváhūtāvapatyata ǁyā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ |
dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata ||या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ ।
ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒ते । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥या । वीर्याणि । प्रथमानि । कर्त्वा । महिऽत्वेभिः । यतमानौ । सम्ऽईयतुः ।
ध्वान्तम् । तमः । अव । दध्वसे । हते । इन्द्रः । मह्ना । पूर्वऽहूतौ । अपत्यत ॥yā́ ǀ vīryā́ṇi ǀ prathamā́ni ǀ kártvā ǀ mahi-tvébhiḥ ǀ yátamānau ǀ sam-īyátuḥ ǀ
dhvāntám ǀ támaḥ ǀ áva ǀ dadhvase ǀ haté ǀ índraḥ ǀ mahnā́ ǀ pūrvá-hūtau ǀ apatyata ǁyā ǀ vīryāṇi ǀ prathamāni ǀ kartvā ǀ mahi-tvebhiḥ ǀ yatamānau ǀ sam-īyatuḥ ǀ
dhvāntam ǀ tamaḥ ǀ ava ǀ dadhvase ǀ hate ǀ indraḥ ǀ mahnā ǀ pūrva-hūtau ǀ apatyata ǁ10.113.7 Aṣṭaka 8.6.15.2Anuvāka 10.10.7
-
Ṛk 8
विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।
र॒द्धं वृ॒त्रमहि॒मिंद्र॑स्य॒ हन्म॑ना॒ग्निर्न जंभै॑स्तृ॒ष्वन्न॑मावयत् ॥विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया |
रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ||víśve devā́so ádha vṛ́ṣṇyāni té’vardhayantsómavatyā vacasyáyā ǀ
raddhám vṛtrámáhimíndrasya hánmanāgnírná jámbhaistṛṣvánnamāvayat ǁviśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā |
raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat ||विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते॒ । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ ।
र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमऽवत्या । वचस्यया ।
रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥víśve ǀ devā́saḥ ǀ ádha ǀ vṛ́ṣṇyāni ǀ te ǀ ávardhayan ǀ sóma-vatyā ǀ vacasyáyā ǀ
raddhám ǀ vṛtrám ǀ áhim ǀ índrasya ǀ hánmanā ǀ agníḥ ǀ ná ǀ jámbhaiḥ ǀ tṛṣú ǀ ánnam ǀ āvayat ǁviśve ǀ devāsaḥ ǀ adha ǀ vṛṣṇyāni ǀ te ǀ avardhayan ǀ soma-vatyā ǀ vacasyayā ǀ
raddham ǀ vṛtram ǀ ahim ǀ indrasya ǀ hanmanā ǀ agniḥ ǀ na ǀ jambhaiḥ ǀ tṛṣu ǀ annam ǀ āvayat ǁ10.113.8 Aṣṭaka 8.6.15.3Anuvāka 10.10.8
-
Ṛk 9
भूरि॒ दक्षे॑भिर्वच॒नेभि॒र्ऋक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो॑चत ।
इंद्रो॒ धुनिं॑ च॒ चुमु॑रिं च दं॒भयं॑छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत |
इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या शृणुते दभीतये ||bhū́ri dákṣebhirvacanébhirṛ́kvabhiḥ sakhyébhiḥ sakhyā́ni prá vocata ǀ
índro dhúnim ca cúmurim ca dambháyañchraddhāmanasyā́ śṛṇute dabhī́taye ǁbhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata |
indro dhuniṃ ca cumuriṃ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye ||भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ ।
इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥भूरि । दक्षेभिः । वचनेभिः । ऋक्वऽभिः । सख्येभिः । सख्यानि । प्र । वोचत ।
इन्द्रः । धुनिम् । च । चुमुरिम् । च । दम्भयन् । श्रद्धाऽमनस्या । शृणुते । दभीतये ॥bhū́ri ǀ dákṣebhiḥ ǀ vacanébhiḥ ǀ ṛ́kva-bhiḥ ǀ sakhyébhiḥ ǀ sakhyā́ni ǀ prá ǀ vocata ǀ
índraḥ ǀ dhúnim ǀ ca ǀ cúmurim ǀ ca ǀ dambháyan ǀ śraddhā-manasyā́ ǀ śṛṇute ǀ dabhī́taye ǁbhūri ǀ dakṣebhiḥ ǀ vacanebhiḥ ǀ ṛkva-bhiḥ ǀ sakhyebhiḥ ǀ sakhyāni ǀ pra ǀ vocata ǀ
indraḥ ǀ dhunim ǀ ca ǀ cumurim ǀ ca ǀ dambhayan ǀ śraddhā-manasyā ǀ śṛṇute ǀ dabhītaye ǁ10.113.9 Aṣṭaka 8.6.15.4Anuvāka 10.10.9
-
Ṛk 10
त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।
सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसै निवचनानि शंसन् |
सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ||tvám purū́ṇyā́ bharā sváśvyā yébhirmáṃsai nivácanāni śáṃsan ǀ
sugébhirvíśvā duritā́ tarema vidó ṣú ṇa urviyā́ gādhámadyá ǁtvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan |
sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya ||त्वम् । पु॒रूणि॑ । आ । भ॒र॒ । सु॒ऽअश्व्या॑ । येभिः॑ । मंसै॑ । नि॒ऽवच॑नानि । शंस॑न् ।
सु॒ऽगेभिः॑ । विश्वा॑ । दुः॒ऽइ॒ता । त॒रे॒म॒ । वि॒दो इति॑ । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥त्वम् । पुरूणि । आ । भर । सुऽअश्व्या । येभिः । मंसै । निऽवचनानि । शंसन् ।
सुऽगेभिः । विश्वा । दुःऽइता । तरेम । विदो इति । सु । नः । उर्विया । गाधम् । अद्य ॥tvám ǀ purū́ṇi ǀ ā́ ǀ bhara ǀ su-áśvyā ǀ yébhiḥ ǀ máṃsai ǀ ni-vácanāni ǀ śáṃsan ǀ
su-gébhiḥ ǀ víśvā ǀ duḥ-itā́ ǀ tarema ǀ vidó íti ǀ sú ǀ naḥ ǀ urviyā́ ǀ gādhám ǀ adyá ǁtvam ǀ purūṇi ǀ ā ǀ bhara ǀ su-aśvyā ǀ yebhiḥ ǀ maṃsai ǀ ni-vacanāni ǀ śaṃsan ǀ
su-gebhiḥ ǀ viśvā ǀ duḥ-itā ǀ tarema ǀ vido iti ǀ su ǀ naḥ ǀ urviyā ǀ gādham ǀ adya ǁ10.113.10 Aṣṭaka 8.6.15.5Anuvāka 10.10.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.