Ṛgveda · Maṇḍala 10 · Sūkta 113
Ṛk 10.113.1
Saṃhitā
तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावतां ।
यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिंद्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥
तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् |
यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमां अवर्धत ||
támasya dyā́vāpṛthivī́ sácetasā víśvebhirdeváiránu śúṣmamāvatām ǀ
yádáitkṛṇvānó mahimā́namindriyám pītvī́ sómasya krátumām̐ avardhata ǁ
tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām |
yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṃ avardhata ||
Padapāṭha
तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् ।
यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥
तम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् ।
यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥
tám ǀ asya ǀ dyā́vāpṛthivī́ íti ǀ sá-cetasā ǀ víśvebhiḥ ǀ deváiḥ ǀ ánu ǀ śúṣmam ǀ āvatām ǀ
yát ǀ áit ǀ kṛṇvānáḥ ǀ mahimā́nam ǀ indriyám ǀ pītvī́ ǀ sómasya ǀ krátu-mān ǀ avardhata ǁ
tam ǀ asya ǀ dyāvāpṛthivī iti ǀ sa-cetasā ǀ viśvebhiḥ ǀ devaiḥ ǀ anu ǀ śuṣmam ǀ āvatām ǀ
yat ǀ ait ǀ kṛṇvānaḥ ǀ mahimānam ǀ indriyam ǀ pītvī ǀ somasya ǀ kratu-mān ǀ avardhata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.113.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.14.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śataprabhedana Vairūpa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.