Sūkta 97
- Devatā देवता
- Auṣadhīstutiḥ
- Ṛṣi ऋषि
- Bhiṣaj Ātharvaṇa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (8, 10, 13-16, 18-21); anuṣṭup (1, 2, 4-7, 11, 17); nicṛdanuṣṭup (3, 9, 12, 22, 23)
2nd set of styles anuṣṭubh
-
Ṛk 1
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगम् पुरा |
मनै नु बभ्रूणाम् अहं शतं धामानि सप्त च ||yā́ óṣadhīḥ pū́rvā jātā́ devébhyastriyugám purā́ ǀ
mánai nú babhrū́ṇāmahám śatám dhā́māni saptá ca ǁyā oṣadhīḥ pūrvā jātā devebhyas triyugam purā |
manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca ||याः । ओष॑धीः । पूर्वाः॑ । जा॒ताः । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा ।
मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥याः । ओषधीः । पूर्वाः । जाताः । देवेभ्यः । त्रिऽयुगम् । पुरा ।
मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ॥yā́ḥ ǀ óṣadhīḥ ǀ pū́rvāḥ ǀ jātā́ḥ ǀ devébhyaḥ ǀ tri-yugám ǀ purā́ ǀ
mánai ǀ nú ǀ babhrū́ṇām ǀ ahám ǀ śatám ǀ dhā́māni ǀ saptá ǀ ca ǁyāḥ ǀ oṣadhīḥ ǀ pūrvāḥ ǀ jātāḥ ǀ devebhyaḥ ǀ tri-yugam ǀ purā ǀ
manai ǀ nu ǀ babhrūṇām ǀ aham ǀ śatam ǀ dhāmāni ǀ sapta ǀ ca ǁ10.97.1 Aṣṭaka 8.5.8.1Anuvāka 10.8.91
-
Ṛk 2
श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥शतं वो अम्ब धामानि सहस्रम् उत वो रुहः |
अधा शतक्रत्वो यूयम् इमम् मे अगदं कृत ||śatám vo amba dhā́māni sahásramutá vo rúhaḥ ǀ
ádhā śatakratvo yūyámimám me agadám kṛta ǁśataṃ vo amba dhāmāni sahasram uta vo ruhaḥ |
adhā śatakratvo yūyam imam me agadaṃ kṛta ||श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ ।
अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः ।
अध । शतऽक्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत ॥śatám ǀ vaḥ ǀ amba ǀ dhā́māni ǀ sahásram ǀ utá ǀ vaḥ ǀ rúhaḥ ǀ
ádha ǀ śata-kratvaḥ ǀ yūyám ǀ imám ǀ me ǀ agadám ǀ kṛta ǁśatam ǀ vaḥ ǀ amba ǀ dhāmāni ǀ sahasram ǀ uta ǀ vaḥ ǀ ruhaḥ ǀ
adha ǀ śata-kratvaḥ ǀ yūyam ǀ imam ǀ me ǀ agadam ǀ kṛta ǁ10.97.2 Aṣṭaka 8.5.8.2Anuvāka 10.8.92
-
Ṛk 3
ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥ओषधीः प्रति मोदध्वम् पुष्पवतीः प्रसूवरीः |
अश्वा इव सजित्वरीर् वीरुधः पारयिष्ण्वः ||óṣadhīḥ práti modadhvam púṣpavatīḥ prasū́varīḥ ǀ
áśvā iva sajítvarīrvīrúdhaḥ pārayiṣṇváḥ ǁoṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ |
aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ ||ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः ।
अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥ओषधीः । प्रति । मोदध्वम् । पुष्पऽवतीः । प्रऽसूवरीः ।
अश्वाःऽइव । सऽजित्वरीः । वीरुधः । पारयिष्ण्वः ॥óṣadhīḥ ǀ práti ǀ modadhvam ǀ púṣpa-vatīḥ ǀ pra-sū́varīḥ ǀ
áśvāḥ-iva ǀ sa-jítvarīḥ ǀ vīrúdhaḥ ǀ pārayiṣṇváḥ ǁoṣadhīḥ ǀ prati ǀ modadhvam ǀ puṣpa-vatīḥ ǀ pra-sūvarīḥ ǀ
aśvāḥ-iva ǀ sa-jitvarīḥ ǀ vīrudhaḥ ǀ pārayiṣṇvaḥ ǁ10.97.3 Aṣṭaka 8.5.8.3Anuvāka 10.8.93
-
Ṛk 4
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे |
सनेयम् अश्वं गां वास आत्मानं तव पूरुष ||óṣadhīríti mātarastádvo devīrúpa bruve ǀ
sanéyamáśvam gā́m vā́sa ātmā́nam táva pūruṣa ǁoṣadhīr iti mātaras tad vo devīr upa bruve |
saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa ||ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ ।
स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे ।
सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष ॥óṣadhīḥ ǀ íti ǀ mātaraḥ ǀ tát ǀ vaḥ ǀ devīḥ ǀ úpa ǀ bruve ǀ
sanéyam ǀ áśvam ǀ gā́m ǀ vā́saḥ ǀ ātmā́nam ǀ táva ǀ puruṣa ǁoṣadhīḥ ǀ iti ǀ mātaraḥ ǀ tat ǀ vaḥ ǀ devīḥ ǀ upa ǀ bruve ǀ
saneyam ǀ aśvam ǀ gām ǀ vāsaḥ ǀ ātmānam ǀ tava ǀ puruṣa ǁ10.97.4 Aṣṭaka 8.5.8.4Anuvāka 10.8.94
-
Ṛk 5
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षं ॥अश्वत्थे वो निषदनम् पर्णे वो वसतिष् कृता |
गोभाज इत् किलासथ यत् सनवथ पूरुषम् ||aśvatthé vo niṣádanam parṇé vo vasatíṣkṛtā́ ǀ
gobhā́ja ítkílāsatha yátsanávatha pū́ruṣam ǁaśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā |
gobhāja it kilāsatha yat sanavatha pūruṣam ||अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता ।
गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥अश्वत्थे । वः । निऽसदनम् । पर्णे । वः । वसतिः । कृता ।
गोऽभाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम् ॥aśvatthé ǀ vaḥ ǀ ni-sádanam ǀ parṇé ǀ vaḥ ǀ vasatíḥ ǀ kṛtā́ ǀ
go-bhā́jaḥ ǀ ít ǀ kíla ǀ asatha ǀ yát ǀ sanávatha ǀ púruṣam ǁaśvatthe ǀ vaḥ ǀ ni-sadanam ǀ parṇe ǀ vaḥ ǀ vasatiḥ ǀ kṛtā ǀ
go-bhājaḥ ǀ it ǀ kila ǀ asatha ǀ yat ǀ sanavatha ǀ puruṣam ǁ10.97.5 Aṣṭaka 8.5.8.5Anuvāka 10.8.95
-
Ṛk 6
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव ।
विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥यत्रौषधीः समग्मत राजानः समिताव् इव |
विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ||yátráuṣadhīḥ samágmata rā́jānaḥ sámitāviva ǀ
vípraḥ sá ucyate bhiṣágrakṣohā́mīvacā́tanaḥ ǁyatrauṣadhīḥ samagmata rājānaḥ samitāv iva |
vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ ||यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव ।
विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव ।
विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा । अमीवऽचातनः ॥yátra ǀ óṣadhīḥ ǀ sam-ágmata ǀ rā́jānaḥ ǀ sámitau-iva ǀ
vípraḥ ǀ sáḥ ǀ ucyate ǀ bhiṣák ǀ rakṣaḥ-hā́ ǀ amīva-cā́tanaḥ ǁyatra ǀ oṣadhīḥ ǀ sam-agmata ǀ rājānaḥ ǀ samitau-iva ǀ
vipraḥ ǀ saḥ ǀ ucyate ǀ bhiṣak ǀ rakṣaḥ-hā ǀ amīva-cātanaḥ ǁ10.97.6 Aṣṭaka 8.5.9.1Anuvāka 10.8.96
-
Ṛk 7
अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जयं॑ती॒मुदो॑जसं ।
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥अश्वावतीं सोमावतीम् ऊर्जयन्तीम् उदोजसम् |
आवित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ||aśvāvatī́m somāvatī́mūrjáyantīmúdojasam ǀ
ā́vitsi sárvā óṣadhīrasmā́ ariṣṭátātaye ǁaśvāvatīṃ somāvatīm ūrjayantīm udojasam |
āvitsi sarvā oṣadhīr asmā ariṣṭatātaye ||अ॒श्व॒ऽव॒तीम् । सो॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् ।
आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥अश्वऽवतीम् । सोमऽवतीम् । ऊर्जयन्तीम् । उत्ऽओजसम् ।
आ । अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्टऽतातये ॥aśva-vatī́m ǀ soma-vatī́m ǀ ūrjáyantīm ǀ út-ojasam ǀ
ā́ ǀ avitsi ǀ sárvāḥ ǀ óṣadhīḥ ǀ asmái ǀ ariṣṭá-tātaye ǁaśva-vatīm ǀ soma-vatīm ǀ ūrjayantīm ǀ ut-ojasam ǀ
ā ǀ avitsi ǀ sarvāḥ ǀ oṣadhīḥ ǀ asmai ǀ ariṣṭa-tātaye ǁ10.97.7 Aṣṭaka 8.5.9.2Anuvāka 10.8.97
-
Ṛk 8
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धनं॑ सनि॒ष्यंती॑नामा॒त्मानं॒ तव॑ पूरुष ॥उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते |
धनं सनिष्यन्तीनाम् आत्मानं तव पूरुष ||úcchúṣmā óṣadhīnām gā́vo goṣṭhā́diverate ǀ
dhánam saniṣyántīnāmātmā́nam táva pūruṣa ǁuc chuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate |
dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa ||उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒स्थात्ऽइ॑व । ई॒र॒ते॒ ।
धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥उत् । शुष्माः । ओषधीनाम् । गावः । गोस्थात्ऽइव । ईरते ।
धनम् । सनिष्यन्तीनाम् । आत्मानम् । तव । पुरुष ॥út ǀ śúṣmāḥ ǀ óṣadhīnām ǀ gā́vaḥ ǀ gosthā́t-iva ǀ īrate ǀ
dhánam ǀ saniṣyántīnām ǀ ātmā́nam ǀ táva ǀ puruṣa ǁut ǀ śuṣmāḥ ǀ oṣadhīnām ǀ gāvaḥ ǀ gosthāt-iva ǀ īrate ǀ
dhanam ǀ saniṣyantīnām ǀ ātmānam ǀ tava ǀ puruṣa ǁ10.97.8 Aṣṭaka 8.5.9.3Anuvāka 10.8.98
-
Ṛk 9
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥इष्कृतिर् नाम वो माताथो यूयं स्थ निष्कृतीः |
सीराः पतत्रिणी स्थन यद् आमयति निष् कृथ ||íṣkṛtirnā́ma vo mātā́tho yūyám stha níṣkṛtīḥ ǀ
sīrā́ḥ patatríṇīḥ sthana yádāmáyati níṣkṛtha ǁiṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ |
sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha ||इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः ।
सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । निःऽकृतीः ।
सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ ॥íṣkṛtiḥ ǀ nā́ma ǀ vaḥ ǀ mātā́ ǀ átho íti ǀ yūyám ǀ stha ǀ níḥ-kṛtīḥ ǀ
sīrā́ḥ ǀ patatríṇīḥ ǀ sthana ǀ yát ǀ āmáyati ǀ níḥ ǀ kṛtha ǁiṣkṛtiḥ ǀ nāma ǀ vaḥ ǀ mātā ǀ atho iti ǀ yūyam ǀ stha ǀ niḥ-kṛtīḥ ǀ
sīrāḥ ǀ patatriṇīḥ ǀ sthana ǀ yat ǀ āmayati ǀ niḥ ǀ kṛtha ǁ10.97.9 Aṣṭaka 8.5.9.4Anuvāka 10.8.99
-
Ṛk 10
अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः |
ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ||áti víśvāḥ pariṣṭhā́ḥ stená iva vrajámakramuḥ ǀ
óṣadhīḥ prā́cucyavuryátkím ca tanvó rápaḥ ǁati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ |
oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ ||अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ ।
ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥अति । विश्वाः । परिऽस्थाः । स्तेनःऽइव । व्रजम् । अक्रमुः ।
ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः ॥áti ǀ víśvāḥ ǀ pari-sthā́ḥ ǀ stenáḥ-iva ǀ vrajám ǀ akramuḥ ǀ
óṣadhīḥ ǀ prá ǀ acucyavuḥ ǀ yát ǀ kím ǀ ca ǀ tanváḥ ǀ rápaḥ ǁati ǀ viśvāḥ ǀ pari-sthāḥ ǀ stenaḥ-iva ǀ vrajam ǀ akramuḥ ǀ
oṣadhīḥ ǀ pra ǀ acucyavuḥ ǀ yat ǀ kim ǀ ca ǀ tanvaḥ ǀ rapaḥ ǁ10.97.10 Aṣṭaka 8.5.9.5Anuvāka 10.8.100
-
Ṛk 11
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥यद् इमा वाजयन्न् अहम् ओषधीर् हस्त आदधे |
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ||yádimā́ vājáyannahámóṣadhīrhásta ādadhé ǀ
ātmā́ yákṣmasya naśyati purā́ jīvagṛ́bho yathā ǁyad imā vājayann aham oṣadhīr hasta ādadhe |
ātmā yakṣmasya naśyati purā jīvagṛbho yathā ||यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे ।
आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आऽदधे ।
आत्मा । यक्ष्मस्य । नश्यति । पुरा । जीवऽगृभः । यथा ॥yát ǀ imā́ḥ ǀ vājáyan ǀ ahám ǀ óṣadhīḥ ǀ háste ǀ ā-dadhé ǀ
ātmā́ ǀ yákṣmasya ǀ naśyati ǀ purā́ ǀ jīva-gṛ́bhaḥ ǀ yathā ǁyat ǀ imāḥ ǀ vājayan ǀ aham ǀ oṣadhīḥ ǀ haste ǀ ā-dadhe ǀ
ātmā ǀ yakṣmasya ǀ naśyati ǀ purā ǀ jīva-gṛbhaḥ ǀ yathā ǁ10.97.11 Aṣṭaka 8.5.10.1Anuvāka 10.8.101
-
Ṛk 12
यस्यौ॑षधीः प्र॒सर्प॒थांग॑मंगं॒ परु॑ष्परुः ।
ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गम् परुष्-परुः |
ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीर् इव ||yásyauṣadhīḥ prasárpathā́ṅgamaṅgam páruṣparuḥ ǀ
táto yákṣmam ví bādhadhva ugró madhyamaśī́riva ǁyasyauṣadhīḥ prasarpathāṅgam-aṅgam paruṣ-paruḥ |
tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva ||यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः ।
ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥यस्य । ओषधीः । प्रऽसर्पथ । अङ्गम्ऽअङ्गम् । परुःऽपरुः ।
ततः । यक्ष्मम् । वि । बाधध्वे । उग्रः । मध्यमशीःऽइव ॥yásya ǀ oṣadhīḥ ǀ pra-sárpatha ǀ áṅgam-aṅgam ǀ páruḥ-paruḥ ǀ
tátaḥ ǀ yákṣmam ǀ ví ǀ bādhadhve ǀ ugráḥ ǀ madhyamaśī́ḥ-iva ǁyasya ǀ oṣadhīḥ ǀ pra-sarpatha ǀ aṅgam-aṅgam ǀ paruḥ-paruḥ ǀ
tataḥ ǀ yakṣmam ǀ vi ǀ bādhadhve ǀ ugraḥ ǀ madhyamaśīḥ-iva ǁ10.97.12 Aṣṭaka 8.5.10.2Anuvāka 10.8.102
-
Ṛk 13
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥साकं यक्ष्म प्र पत चाषेण किकिदीविना |
साकं वातस्य ध्राज्या साकं नश्य निहाकया ||sākám yakṣma prá pata cā́ṣeṇa kikidīvínā ǀ
sākám vā́tasya dhrā́jyā sākám naśya nihā́kayā ǁsākaṃ yakṣma pra pata cāṣeṇa kikidīvinā |
sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā ||सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ ।
सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥साकम् । यक्ष्म । प्र । पत । चाषेण । किकिदीविना ।
साकम् । वातस्य । ध्राज्या । साकम् । नश्य । निऽहाकया ॥sākám ǀ yakṣma ǀ prá ǀ pata ǀ cā́ṣeṇa ǀ kikidīvínā ǀ
sākám ǀ vā́tasya ǀ dhrā́jyā ǀ sākám ǀ naśya ǀ ni-hā́kayā ǁsākam ǀ yakṣma ǀ pra ǀ pata ǀ cāṣeṇa ǀ kikidīvinā ǀ
sākam ǀ vātasya ǀ dhrājyā ǀ sākam ǀ naśya ǀ ni-hākayā ǁ10.97.13 Aṣṭaka 8.5.10.3Anuvāka 10.8.103
-
Ṛk 14
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत |
ताः सर्वाः संविदाना इदम् मे प्रावता वचः ||anyā́ vo anyā́mavatvanyā́nyásyā úpāvata ǀ
tā́ḥ sárvāḥ saṃvidānā́ idám me prā́vatā vácaḥ ǁanyā vo anyām avatv anyānyasyā upāvata |
tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ ||अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ ।
ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत ।
ताः । सर्वाः । सम्ऽविदानाः । इदम् । मे । प्र । अवत । वचः ॥anyā́ ǀ vaḥ ǀ anyā́m ǀ avatu ǀ anyā́ ǀ anyásyāḥ ǀ úpa ǀ avata ǀ
tā́ḥ ǀ sárvāḥ ǀ sam-vidānā́ḥ ǀ idám ǀ me ǀ prá ǀ avata ǀ vácaḥ ǁanyā ǀ vaḥ ǀ anyām ǀ avatu ǀ anyā ǀ anyasyāḥ ǀ upa ǀ avata ǀ
tāḥ ǀ sarvāḥ ǀ sam-vidānāḥ ǀ idam ǀ me ǀ pra ǀ avata ǀ vacaḥ ǁ10.97.14 Aṣṭaka 8.5.10.4Anuvāka 10.8.104
-
Ṛk 15
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुंचं॒त्वंह॑सः ॥याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः |
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अंहसः ||yā́ḥ phalínīryā́ aphalā́ apuṣpā́ yā́śca puṣpíṇīḥ ǀ
bṛ́haspátiprasūtāstā́ no muñcantváṃhasaḥ ǁyāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ |
bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ ||याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ ।
बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥याः । फलिनीः । याः । अफलाः । अपुष्पाः । याः । च । पुष्पिणीः ।
बृहस्पतिऽप्रसूताः । ताः । नः । मुञ्चन्तु । अंहसः ॥yā́ḥ ǀ phalínīḥ ǀ yā́ḥ ǀ aphalā́ḥ ǀ apuṣpā́ḥ ǀ yā́ḥ ǀ ca ǀ puṣpíṇīḥ ǀ
bṛ́haspáti-prasūtāḥ ǀ tā́ḥ ǀ naḥ ǀ muñcantu ǀ áṃhasaḥ ǁyāḥ ǀ phalinīḥ ǀ yāḥ ǀ aphalāḥ ǀ apuṣpāḥ ǀ yāḥ ǀ ca ǀ puṣpiṇīḥ ǀ
bṛhaspati-prasūtāḥ ǀ tāḥ ǀ naḥ ǀ muñcantu ǀ aṃhasaḥ ǁ10.97.15 Aṣṭaka 8.5.10.5Anuvāka 10.8.105
-
Ṛk 16
मुं॒चंतु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।
अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत |
अथो यमस्य पड्बीशात् सर्वस्माद् देवकिल्बिषात् ||muñcántu mā śapathyā́dátho varuṇyā́dutá ǀ
átho yamásya páḍbīśātsárvasmāddevakilbiṣā́t ǁmuñcantu mā śapathyād atho varuṇyād uta |
atho yamasya paḍbīśāt sarvasmād devakilbiṣāt ||मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त ।
अथो॒ इति॑ । य॒मस्य॑ । पड्बी॑शात् । सर्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत ।
अथो इति । यमस्य । पड्बीशात् । सर्वस्मात् । देवऽकिल्बिषात् ॥muñcántu ǀ mā ǀ śapathyā́t ǀ átho íti ǀ varuṇyā́t ǀ utá ǀ
átho íti ǀ yamásya ǀ páḍbīśāt ǀ sárvasmāt ǀ deva-kilbiṣā́t ǁmuñcantu ǀ mā ǀ śapathyāt ǀ atho iti ǀ varuṇyāt ǀ uta ǀ
atho iti ǀ yamasya ǀ paḍbīśāt ǀ sarvasmāt ǀ deva-kilbiṣāt ǁ10.97.16 Aṣṭaka 8.5.11.1Anuvāka 10.8.106
-
Ṛk 17
अ॒व॒पतं॑तीरवदंदि॒व ओष॑धय॒स्परि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥अवपतन्तीर् अवदन् दिव ओषधयस् परि |
यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ||avapátantīravadandivá óṣadhayaspári ǀ
yám jīvámaśnávāmahai ná sá riṣyāti pū́ruṣaḥ ǁavapatantīr avadan diva oṣadhayas pari |
yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ ||अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ ।
यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥अवऽपतन्तीः । अवदन् । दिवः । ओषधयः । परि ।
यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥ava-pátantīḥ ǀ avadan ǀ diváḥ ǀ óṣadhayaḥ ǀ pári ǀ
yám ǀ jīvám ǀ aśnávāmahai ǀ ná ǀ sáḥ ǀ riṣyāti ǀ púruṣaḥ ǁava-patantīḥ ǀ avadan ǀ divaḥ ǀ oṣadhayaḥ ǀ pari ǀ
yam ǀ jīvam ǀ aśnavāmahai ǀ na ǀ saḥ ǀ riṣyāti ǀ puruṣaḥ ǁ10.97.17 Aṣṭaka 8.5.11.2Anuvāka 10.8.107
-
Ṛk 18
या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥या ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः |
तासां त्वम् अस्य् उत्तमारं कामाय शं हृदे ||yā́ óṣadhīḥ sómarājñīrbahvī́ḥ śatávicakṣaṇāḥ ǀ
tā́sām tvámasyuttamā́ram kā́māya śám hṛdé ǁyā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ |
tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde ||याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः ।
तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥याः । ओषधीः । सोमऽराज्ञीः । बह्वीः । शतऽविचक्षणाः ।
तासाम् । त्वम् । असि । उत्ऽतमा । अरम् । कामाय । शम् । हृदे ॥yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ bahvī́ḥ ǀ śatá-vicakṣaṇāḥ ǀ
tā́sām ǀ tvám ǀ asi ǀ ut-tamā́ ǀ áram ǀ kā́māya ǀ śám ǀ hṛdé ǁyāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ bahvīḥ ǀ śata-vicakṣaṇāḥ ǀ
tāsām ǀ tvam ǀ asi ǀ ut-tamā ǀ aram ǀ kāmāya ǀ śam ǀ hṛde ǁ10.97.18 Aṣṭaka 8.5.11.3Anuvāka 10.8.108
-
Ṛk 19
या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्यं॑ ॥या ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु |
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ||yā́ óṣadhīḥ sómarājñīrvíṣṭhitāḥ pṛthivī́mánu ǀ
bṛ́haspátiprasūtā asyái sám datta vīryám ǁyā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu |
bṛhaspatiprasūtā asyai saṃ datta vīryam ||याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ ।
बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥याः । ओषधीः । सोमऽराज्ञीः । विऽस्थिताः । पृथिवीम् । अनु ।
बृहस्पतिऽप्रसूताः । अस्यै । सम् । दत्त । वीर्यम् ॥yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ ví-sthitāḥ ǀ pṛthivī́m ǀ ánu ǀ
bṛ́haspáti-prasūtāḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁyāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ vi-sthitāḥ ǀ pṛthivīm ǀ anu ǀ
bṛhaspati-prasūtāḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ10.97.19 Aṣṭaka 8.5.11.4Anuvāka 10.8.109
-
Ṛk 20
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रं ॥मा वो रिषत् खनिता यस्मै चाहं खनामि वः |
द्विपच् चतुष्पद् अस्माकं सर्वम् अस्त्व् अनातुरम् ||mā́ vo riṣatkhanitā́ yásmai cāhám khánāmi vaḥ ǀ
dvipáccátuṣpadasmā́kam sárvamastvanāturám ǁmā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ |
dvipac catuṣpad asmākaṃ sarvam astv anāturam ||मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ ।
द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥मा । वः । रिषत् । खनिता । यस्मै । च । अहम् । खनामि । वः ।
द्विऽपत् । चतुःऽपत् । अस्माकम् । सर्वम् । अस्तु । अनातुरम् ॥mā́ ǀ vaḥ ǀ riṣat ǀ khanitā́ ǀ yásmai ǀ ca ǀ ahám ǀ khánāmi ǀ vaḥ ǀ
dvi-pát ǀ cátuḥ-pat ǀ asmā́kam ǀ sárvam ǀ astu ǀ anāturám ǁmā ǀ vaḥ ǀ riṣat ǀ khanitā ǀ yasmai ǀ ca ǀ aham ǀ khanāmi ǀ vaḥ ǀ
dvi-pat ǀ catuḥ-pat ǀ asmākam ǀ sarvam ǀ astu ǀ anāturam ǁ10.97.20 Aṣṭaka 8.5.11.5Anuvāka 10.8.110
-
Ṛk 21
याश्चे॒दमु॑पशृ॒ण्वंति॒ याश्च॑ दू॒रं परा॑गताः ।
सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्यं॑ ॥याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः |
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ||yā́ścedámupaśṛṇvánti yā́śca dūrám párāgatāḥ ǀ
sárvāḥ saṃgátya vīrudho’syái sám datta vīryám ǁyāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ |
sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam ||याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः ।
सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥याः । च । इदम् । उपऽशृण्वन्ति । याः । च । दूरम् । पराऽगताः ।
सर्वाः । सम्ऽगत्य । वीरुधः । अस्यै । सम् । दत्त । वीर्यम् ॥yā́ḥ ǀ ca ǀ idám ǀ upa-śṛṇvánti ǀ yā́ḥ ǀ ca ǀ dūrám ǀ párā-gatāḥ ǀ
sárvāḥ ǀ sam-gátya ǀ vīrudhaḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁyāḥ ǀ ca ǀ idam ǀ upa-śṛṇvanti ǀ yāḥ ǀ ca ǀ dūram ǀ parā-gatāḥ ǀ
sarvāḥ ǀ sam-gatya ǀ vīrudhaḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ10.97.21 Aṣṭaka 8.5.11.6Anuvāka 10.8.111
-
Ṛk 22
ओष॑धयः॒ सं व॑दंते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥ओषधयः सं वदन्ते सोमेन सह राज्ञा |
यस्मै कृणोति ब्राह्मणस् तं राजन् पारयामसि ||óṣadhayaḥ sám vadante sómena sahá rā́jñā ǀ
yásmai kṛṇóti brāhmaṇástám rājanpārayāmasi ǁoṣadhayaḥ saṃ vadante somena saha rājñā |
yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi ||ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ ।
यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा ।
यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ॥óṣadhayaḥ ǀ sám ǀ vadante ǀ sómena ǀ sahá ǀ rā́jñā ǀ
yásmai ǀ kṛṇóti ǀ brāhmaṇáḥ ǀ tám ǀ rājan ǀ pārayāmasi ǁoṣadhayaḥ ǀ sam ǀ vadante ǀ somena ǀ saha ǀ rājñā ǀ
yasmai ǀ kṛṇoti ǀ brāhmaṇaḥ ǀ tam ǀ rājan ǀ pārayāmasi ǁ10.97.22 Aṣṭaka 8.5.11.7Anuvāka 10.8.112
-
Ṛk 23
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥त्वम् उत्तमास्य् ओषधे तव वृक्षा उपस्तयः |
उपस्तिर् अस्तु सो ऽस्माकं यो अस्मां अभिदासति ||tvámuttamā́syoṣadhe táva vṛkṣā́ úpastayaḥ ǀ
úpastirastu só’smā́kam yó asmā́m̐ abhidā́sati ǁtvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ |
upastir astu so 'smākaṃ yo asmāṃ abhidāsati ||त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः ।
उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः ।
उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥tvám ǀ ut-tamā́ ǀ asi ǀ oṣadhe ǀ táva ǀ vṛkṣā́ḥ ǀ úpastayaḥ ǀ
úpastiḥ ǀ astu ǀ sáḥ ǀ asmā́kam ǀ yáḥ ǀ asmā́n ǀ abhi-dā́sati ǁtvam ǀ ut-tamā ǀ asi ǀ oṣadhe ǀ tava ǀ vṛkṣāḥ ǀ upastayaḥ ǀ
upastiḥ ǀ astu ǀ saḥ ǀ asmākam ǀ yaḥ ǀ asmān ǀ abhi-dāsati ǁ10.97.23 Aṣṭaka 8.5.11.8Anuvāka 10.8.113
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.