Ṛgveda · Maṇḍala 10

Sūkta 87

Agni Rakṣohan · Pāyu Bhāradvāja · 25 ṛks

Link
Devatā देवता
Agni Rakṣohan
Ṛṣi ऋषि
Pāyu Bhāradvāja
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (4-7, 9-11, 18, 19); triṣṭup (1, 8, 12, 17); bhuriktriṣṭup (13-16); virāṭtrisṭup (2, 3, 20); anuṣṭup (22, 23); nicṛdanuṣṭup (24, 25); pādanicṛttriṣṭup (21)

2nd set of styles triṣṭubh (1-21); anuṣṭubh (22-25)

  1. Ṛk 1

    र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
    शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥

    रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रथिष्ठम् उप यामि शर्म |
    शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ||

    rakṣoháṇam vājínamā́ jigharmi mitrám práthiṣṭhamúpa yāmi śárma ǀ
    śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ǁ

    rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma |
    śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||

    र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।
    शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

    रक्षःऽहनम् । वाजिनम् । आ । जिघर्मि । मित्रम् । प्रथिष्ठम् । उप । यामि । शर्म ।
    शिशानः । अग्निः । क्रतुऽभिः । सम्ऽइद्धः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥

    rakṣaḥ-hánam ǀ vājínam ǀ ā́ ǀ jigharmi ǀ mitrám ǀ práthiṣṭham ǀ úpa ǀ yāmi ǀ śárma ǀ
    śíśānaḥ ǀ agníḥ ǀ krátu-bhiḥ ǀ sám-iddhaḥ ǀ sáḥ ǀ naḥ ǀ dívā ǀ sáḥ ǀ riṣáḥ ǀ pātu ǀ náktam ǁ

    rakṣaḥ-hanam ǀ vājinam ǀ ā ǀ jigharmi ǀ mitram ǀ prathiṣṭham ǀ upa ǀ yāmi ǀ śarma ǀ
    śiśānaḥ ǀ agniḥ ǀ kratu-bhiḥ ǀ sam-iddhaḥ ǀ saḥ ǀ naḥ ǀ divā ǀ saḥ ǀ riṣaḥ ǀ pātu ǀ naktam ǁ

    10.87.1 Aṣṭaka 8.4.5.1Anuvāka 10.7.71

  2. Ṛk 2

    अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः ।
    आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥

    अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः |
    आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृक्त्व्य् अपि धत्स्वासन् ||

    áyodaṃṣṭro arcíṣā yātudhā́nānúpa spṛśa jātavedaḥ sámiddhaḥ ǀ
    ā́ jihváyā mū́radevānrabhasva kravyā́do vṛktvyápi dhatsvāsán ǁ

    ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ |
    ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan ||

    अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः ।
    आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥

    अयःऽदंष्ट्रः । अर्चिषा । यातुऽधानान् । उप । स्पृश । जातऽवेदः । सम्ऽइद्धः ।
    आ । जिह्वया । मूरऽदेवान् । रभस्व । क्रव्यऽअदः । वृक्त्वी । अपि । धत्स्व । आसन् ॥

    áyaḥ-daṃṣṭraḥ ǀ arcíṣā ǀ yātu-dhā́nān ǀ úpa ǀ spṛśa ǀ jāta-vedaḥ ǀ sám-iddhaḥ ǀ
    ā́ ǀ jihváyā ǀ mū́ra-devān ǀ rabhasva ǀ kravya-ádaḥ ǀ vṛktvī́ ǀ ápi ǀ dhatsva ǀ āsán ǁ

    ayaḥ-daṃṣṭraḥ ǀ arciṣā ǀ yātu-dhānān ǀ upa ǀ spṛśa ǀ jāta-vedaḥ ǀ sam-iddhaḥ ǀ
    ā ǀ jihvayā ǀ mūra-devān ǀ rabhasva ǀ kravya-adaḥ ǀ vṛktvī ǀ api ǀ dhatsva ǀ āsan ǁ

    10.87.2 Aṣṭaka 8.4.5.2Anuvāka 10.7.72

  3. Ṛk 3

    उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।
    उ॒तांतरि॑क्षे॒ परि॑ याहि राजं॒जंभैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥

    उभोभयाविन्न् उप धेहि दंष्ट्रा हिंस्रः शिशानो ऽवरम् परं च |
    उतान्तरिक्षे परि याहि राजञ् जम्भैः सं धेह्य् अभि यातुधानान् ||

    ubhóbhayāvinnúpa dhehi dáṃṣṭrā hiṃsráḥ śíśānó’varam páram ca ǀ
    utā́ntárikṣe pári yāhi rājañjámbhaiḥ sám dhehyabhí yātudhā́nān ǁ

    ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca |
    utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān ||

    उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ ।
    उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ । रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥

    उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च ।
    उत । अन्तरिक्षे । परि । याहि । राजन् । जम्भैः । सम् । धेहि । अभि । यातुऽधानान् ॥

    ubhā́ ǀ ubhayāvin ǀ úpa ǀ dhehi ǀ dáṃṣṭrā ǀ hiṃsráḥ ǀ śíśānaḥ ǀ ávaram ǀ páram ǀ ca ǀ
    utá ǀ antárikṣe ǀ pári ǀ yāhi ǀ rājan ǀ jámbhaiḥ ǀ sám ǀ dhehi ǀ abhí ǀ yātu-dhā́nān ǁ

    ubhā ǀ ubhayāvin ǀ upa ǀ dhehi ǀ daṃṣṭrā ǀ hiṃsraḥ ǀ śiśānaḥ ǀ avaram ǀ param ǀ ca ǀ
    uta ǀ antarikṣe ǀ pari ǀ yāhi ǀ rājan ǀ jambhaiḥ ǀ sam ǀ dhehi ǀ abhi ǀ yātu-dhānān ǁ

    10.87.3 Aṣṭaka 8.4.5.3Anuvāka 10.7.73

  4. Ṛk 4

    य॒ज्ञैरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।
    ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषां ॥

    यज्ञैर् इषूः संनममानो अग्ने वाचा शल्यां अशनिभिर् दिहानः |
    ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ||

    yajñáiríṣūḥ saṃnámamāno agne vācā́ śalyā́m̐ aśánibhirdihānáḥ ǀ
    tā́bhirvidhya hṛ́daye yātudhā́nānpratīcó bāhū́npráti bhaṅdhyeṣām ǁ

    yajñair iṣūḥ saṃnamamāno agne vācā śalyāṃ aśanibhir dihānaḥ |
    tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām ||

    य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः ।
    ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥

    यज्ञैः । इषूः । सम्ऽनममानः । अग्ने । वाचा । शल्यान् । अशनिऽभिः । दिहानः ।
    ताभिः । विध्य । हृदये । यातुऽधानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम् ॥

    yajñáiḥ ǀ íṣūḥ ǀ sam-námamānaḥ ǀ agne ǀ vācā́ ǀ śalyā́n ǀ aśáni-bhiḥ ǀ dihānáḥ ǀ
    tā́bhiḥ ǀ vidhya ǀ hṛ́daye ǀ yātu-dhā́nān ǀ pratīcáḥ ǀ bāhū́n ǀ práti ǀ bhaṅdhi ǀ eṣām ǁ

    yajñaiḥ ǀ iṣūḥ ǀ sam-namamānaḥ ǀ agne ǀ vācā ǀ śalyān ǀ aśani-bhiḥ ǀ dihānaḥ ǀ
    tābhiḥ ǀ vidhya ǀ hṛdaye ǀ yātu-dhānān ǀ pratīcaḥ ǀ bāhūn ǀ prati ǀ bhaṅdhi ǀ eṣām ǁ

    10.87.4 Aṣṭaka 8.4.5.4Anuvāka 10.7.74

  5. Ṛk 5

    अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिंधि हिं॒स्राशनि॒र्हर॑सा हंत्वेनं ।
    प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णं ॥

    अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् |
    प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोतु वृक्णम् ||

    ágne tvácam yātudhā́nasya bhindhi hiṃsrā́śánirhárasā hantvenam ǀ
    prá párvāṇi jātavedaḥ śṛṇīhi kravyā́tkraviṣṇúrví cinotu vṛkṇám ǁ

    agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanir harasā hantv enam |
    pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam ||

    अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् ।
    प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्य॒ऽअत् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥

    अग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् ।
    प्र । पर्वाणि । जातऽवेदः । शृणीहि । क्रव्यऽअत् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥

    ágne ǀ tvácam ǀ yātu-dhā́nasya ǀ bhindhi ǀ hiṃsrā́ ǀ aśániḥ ǀ hárasā ǀ hantu ǀ enam ǀ
    prá ǀ párvāṇi ǀ jāta-vedaḥ ǀ śṛṇīhi ǀ kravya-át ǀ kraviṣṇúḥ ǀ ví ǀ cinotu ǀ vṛkṇám ǁ

    agne ǀ tvacam ǀ yātu-dhānasya ǀ bhindhi ǀ hiṃsrā ǀ aśaniḥ ǀ harasā ǀ hantu ǀ enam ǀ
    pra ǀ parvāṇi ǀ jāta-vedaḥ ǀ śṛṇīhi ǀ kravya-at ǀ kraviṣṇuḥ ǀ vi ǀ cinotu ǀ vṛkṇam ǁ

    10.87.5 Aṣṭaka 8.4.5.5Anuvāka 10.7.75

  6. Ṛk 6

    यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठं॑तमग्न उ॒त वा॒ चरं॑तं ।
    यद्वां॒तरि॑क्षे प॒थिभिः॒ पतं॑तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥

    यत्रेदानीम् पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् |
    यद् वान्तरिक्षे पथिभिः पतन्तं तम् अस्ता विध्य शर्वा शिशानः ||

    yátredā́nīm páśyasi jātavedastíṣṭhantamagna utá vā cárantam ǀ
    yádvāntárikṣe pathíbhiḥ pátantam támástā vidhya śárvā śíśānaḥ ǁ

    yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam |
    yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ ||

    यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् ।
    यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥

    यत्र । इदानीम् । पश्यसि । जातऽवेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् ।
    यत् । वा । अन्तरिक्षे । पथिऽभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥

    yátra ǀ idā́nīm ǀ páśyasi ǀ jāta-vedaḥ ǀ tíṣṭhantam ǀ agne ǀ utá ǀ vā ǀ cárantam ǀ
    yát ǀ vā ǀ antárikṣe ǀ pathí-bhiḥ ǀ pátantam ǀ tám ǀ ástā ǀ vidhya ǀ śárvā ǀ śíśānaḥ ǁ

    yatra ǀ idānīm ǀ paśyasi ǀ jāta-vedaḥ ǀ tiṣṭhantam ǀ agne ǀ uta ǀ vā ǀ carantam ǀ
    yat ǀ vā ǀ antarikṣe ǀ pathi-bhiḥ ǀ patantam ǀ tam ǀ astā ǀ vidhya ǀ śarvā ǀ śiśānaḥ ǁ

    10.87.6 Aṣṭaka 8.4.6.1Anuvāka 10.7.76

  7. Ṛk 7

    उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।
    अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विंका॒स्तम॑दं॒त्वेनीः॑ ॥

    उतालब्धं स्पृणुहि जातवेद आलेभानाद् ऋष्टिभिर् यातुधानात् |
    अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ||

    utā́labdham spṛṇuhi jātaveda ālebhānā́dṛṣṭíbhiryātudhā́nāt ǀ
    ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkāstámadantvénīḥ ǁ

    utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt |
    agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ ||

    उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ । आ॒ऽले॒भा॒नात् । ऋ॒ष्टिऽभिः॑ । या॒तु॒ऽधाना॑त् ।
    अग्ने॑ । पूर्वः॑ । नि । ज॒हि॒ । शोशु॑चानः । आ॒म॒ऽअदः॑ । क्ष्विङ्काः॑ । तम् । अ॒द॒न्तु॒ । एनीः॑ ॥

    उत । आऽलब्धम् । स्पृणुहि । जातऽवेदः । आऽलेभानात् । ऋष्टिऽभिः । यातुऽधानात् ।
    अग्ने । पूर्वः । नि । जहि । शोशुचानः । आमऽअदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः ॥

    utá ǀ ā́-labdham ǀ spṛṇuhi ǀ jāta-vedaḥ ǀ ā-lebhānā́t ǀ ṛṣṭí-bhiḥ ǀ yātu-dhā́nāt ǀ
    ágne ǀ pū́rvaḥ ǀ ní ǀ jahi ǀ śóśucānaḥ ǀ āma-ádaḥ ǀ kṣvíṅkāḥ ǀ tám ǀ adantu ǀ énīḥ ǁ

    uta ǀ ā-labdham ǀ spṛṇuhi ǀ jāta-vedaḥ ǀ ā-lebhānāt ǀ ṛṣṭi-bhiḥ ǀ yātu-dhānāt ǀ
    agne ǀ pūrvaḥ ǀ ni ǀ jahi ǀ śośucānaḥ ǀ āma-adaḥ ǀ kṣviṅkāḥ ǀ tam ǀ adantu ǀ enīḥ ǁ

    10.87.7 Aṣṭaka 8.4.6.2Anuvāka 10.7.77

  8. Ṛk 8

    इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।
    तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रंधयैनं ॥

    इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति |
    तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ||

    ihá prá brūhi yatamáḥ só agne yó yātudhā́no yá idám kṛṇóti ǀ
    támā́ rabhasva samídhā yaviṣṭha nṛcákṣasaścákṣuṣe randhayainam ǁ

    iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti |
    tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam ||

    इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒ऽधानः॑ । यः । इ॒दम् । कृ॒णोति॑ ।
    तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्ध॒य॒ । ए॒न॒म् ॥

    इह । प्र । ब्रूहि । यतमः । सः । अग्ने । यः । यातुऽधानः । यः । इदम् । कृणोति ।
    तम् । आ । रभस्व । सम्ऽइधा । यविष्ठ । नृऽचक्षसः । चक्षुषे । रन्धय । एनम् ॥

    ihá ǀ prá ǀ brūhi ǀ yatamáḥ ǀ sáḥ ǀ agne ǀ yáḥ ǀ yātu-dhā́naḥ ǀ yáḥ ǀ idám ǀ kṛṇóti ǀ
    tám ǀ ā́ ǀ rabhasva ǀ sam-ídhā ǀ yaviṣṭha ǀ nṛ-cákṣasaḥ ǀ cákṣuṣe ǀ randhaya ǀ enam ǁ

    iha ǀ pra ǀ brūhi ǀ yatamaḥ ǀ saḥ ǀ agne ǀ yaḥ ǀ yātu-dhānaḥ ǀ yaḥ ǀ idam ǀ kṛṇoti ǀ
    tam ǀ ā ǀ rabhasva ǀ sam-idhā ǀ yaviṣṭha ǀ nṛ-cakṣasaḥ ǀ cakṣuṣe ǀ randhaya ǀ enam ǁ

    10.87.8 Aṣṭaka 8.4.6.3Anuvāka 10.7.78

  9. Ṛk 9

    ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्रांचं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः ।
    हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥

    तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञम् प्राञ्चं वसुभ्यः प्र णय प्रचेतः |
    हिंस्रं रक्षांस्य् अभि शोशुचानम् मा त्वा दभन् यातुधाना नृचक्षः ||

    tīkṣṇénāgne cákṣuṣā rakṣa yajñám prā́ñcam vásubhyaḥ prá ṇaya pracetaḥ ǀ
    hiṃsrám rákṣāṃsyabhí śóśucānam mā́ tvā dabhanyātudhā́nā nṛcakṣaḥ ǁ

    tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ |
    hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ ||

    ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ ।
    हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥

    तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुऽभ्यः । प्र । नय । प्रऽचेतः ।
    हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुऽधानाः । नृऽचक्षः ॥

    tīkṣṇéna ǀ agne ǀ cákṣuṣā ǀ rakṣa ǀ yajñám ǀ prā́ñcam ǀ vásu-bhyaḥ ǀ prá ǀ naya ǀ pra-cetaḥ ǀ
    hiṃsrám ǀ rákṣāṃsi ǀ abhí ǀ śóśucānam ǀ mā́ ǀ tvā ǀ dabhan ǀ yātu-dhā́nāḥ ǀ nṛ-cakṣaḥ ǁ

    tīkṣṇena ǀ agne ǀ cakṣuṣā ǀ rakṣa ǀ yajñam ǀ prāñcam ǀ vasu-bhyaḥ ǀ pra ǀ naya ǀ pra-cetaḥ ǀ
    hiṃsram ǀ rakṣāṃsi ǀ abhi ǀ śośucānam ǀ mā ǀ tvā ǀ dabhan ǀ yātu-dhānāḥ ǀ nṛ-cakṣaḥ ǁ

    10.87.9 Aṣṭaka 8.4.6.4Anuvāka 10.7.79

  10. Ṛk 10

    नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।
    तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥

    नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा |
    तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ||

    nṛcákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śṛṇīhyágrā ǀ
    tásyāgne pṛṣṭī́rhárasā śṛṇīhi tredhā́ mū́lam yātudhā́nasya vṛśca ǁ

    nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā |
    tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca ||

    नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ ।
    तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥

    नृऽचक्षाः । रक्षः । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा ।
    तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातुऽधानस्य । वृश्च ॥

    nṛ-cákṣāḥ ǀ rákṣaḥ ǀ pári ǀ paśya ǀ vikṣú ǀ tásya ǀ trī́ṇi ǀ práti ǀ śṛṇīhi ǀ ágrā ǀ
    tásya ǀ agne ǀ pṛṣṭī́ḥ ǀ hárasā ǀ śṛṇīhi ǀ tredhā́ ǀ mū́lam ǀ yātu-dhā́nasya ǀ vṛśca ǁ

    nṛ-cakṣāḥ ǀ rakṣaḥ ǀ pari ǀ paśya ǀ vikṣu ǀ tasya ǀ trīṇi ǀ prati ǀ śṛṇīhi ǀ agrā ǀ
    tasya ǀ agne ǀ pṛṣṭīḥ ǀ harasā ǀ śṛṇīhi ǀ tredhā ǀ mūlam ǀ yātu-dhānasya ǀ vṛśca ǁ

    10.87.10 Aṣṭaka 8.4.6.5Anuvāka 10.7.80

  11. Ṛk 11

    त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हंति॑ ।
    तम॒र्चिषा॑ स्फू॒र्जयं॑जातवेदः सम॒क्षमे॑नं गृण॒ते नि वृ॑ङ्धि ॥

    त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति |
    तम् अर्चिषा स्फूर्जयञ् जातवेदः समक्षम् एनं गृणते नि वृङ्धि ||

    tríryātudhā́naḥ prásitim ta etvṛtám yó agne ánṛtena hánti ǀ
    támarcíṣā sphūrjáyañjātavedaḥ samakṣámenam gṛṇaté ní vṛṅdhi ǁ

    trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti |
    tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi ||

    त्रिः । या॒तु॒ऽधानः॑ । प्रऽसि॑तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ ।
    तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवे॒दः॒ । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥

    त्रिः । यातुऽधानः । प्रऽसितिम् । ते । एतु । ऋतम् । यः । अग्ने । अनृतेन । हन्ति ।
    तम् । अर्चिषा । स्फूर्जयन् । जातऽवेदः । सम्ऽअक्षम् । एनम् । गृणते । नि । वृङ्धि ॥

    tríḥ ǀ yātu-dhā́naḥ ǀ prá-sitim ǀ te ǀ etu ǀ ṛtám ǀ yáḥ ǀ agne ǀ ánṛtena ǀ hánti ǀ
    tám ǀ arcíṣā ǀ sphūrjáyan ǀ jāta-vedaḥ ǀ sam-akṣám ǀ enam ǀ gṛṇaté ǀ ní ǀ vṛṅdhi ǁ

    triḥ ǀ yātu-dhānaḥ ǀ pra-sitim ǀ te ǀ etu ǀ ṛtam ǀ yaḥ ǀ agne ǀ anṛtena ǀ hanti ǀ
    tam ǀ arciṣā ǀ sphūrjayan ǀ jāta-vedaḥ ǀ sam-akṣam ǀ enam ǀ gṛṇate ǀ ni ǀ vṛṅdhi ǁ

    10.87.11 Aṣṭaka 8.4.7.1Anuvāka 10.7.81

  12. Ṛk 12

    तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धानं॑ ।
    अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्वं॑तम॒चितं॒ न्यो॑ष ॥

    तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् |
    अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्य् ओष ||

    tádagne cákṣuḥ práti dhehi rebhé śaphārújam yéna páśyasi yātudhā́nam ǀ
    atharvavájjyótiṣā dáivyena satyám dhū́rvantamacítam nyóṣa ǁ

    tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam |
    atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa ||

    तत् । अ॒ग्ने॒ । चक्षुः॑ । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑म् । येन॑ । पश्य॑सि । या॒तु॒ऽधान॑म् ।
    अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥

    तत् । अग्ने । चक्षुः । प्रति । धेहि । रेभे । शफऽआरुजम् । येन । पश्यसि । यातुऽधानम् ।
    अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥

    tát ǀ agne ǀ cákṣuḥ ǀ práti ǀ dhehi ǀ rebhé ǀ śapha-ārújam ǀ yéna ǀ páśyasi ǀ yātu-dhā́nam ǀ
    atharva-vát ǀ jyótiṣā ǀ dáivyena ǀ satyám ǀ dhū́rvantam ǀ acítam ǀ ní ǀ oṣa ǁ

    tat ǀ agne ǀ cakṣuḥ ǀ prati ǀ dhehi ǀ rebhe ǀ śapha-ārujam ǀ yena ǀ paśyasi ǀ yātu-dhānam ǀ
    atharva-vat ǀ jyotiṣā ǀ daivyena ǀ satyam ǀ dhūrvantam ǀ acitam ǀ ni ǀ oṣa ǁ

    10.87.12 Aṣṭaka 8.4.7.2Anuvāka 10.7.82

  13. Ṛk 13

    यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नयं॑त रे॒भाः ।
    म॒न्योर्मन॑सः शर॒व्या॒३॒॑ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

    यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः |
    मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ||

    yádagne adyá mithunā́ śápāto yádvācástṛṣṭám janáyanta rebhā́ḥ ǀ
    manyórmánasaḥ śaravyā́ jā́yate yā́ táyā vidhya hṛ́daye yātudhā́nān ǁ

    yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ |
    manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||

    यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । रे॒भाः ।
    म॒न्योः । मन॑सः । श॒र॒व्या॑ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥

    यत् । अग्ने । अद्य । मिथुना । शपातः । यत् । वाचः । तृष्टम् । जनयन्त । रेभाः ।
    मन्योः । मनसः । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥

    yát ǀ agne ǀ adyá ǀ mithunā́ ǀ śápātaḥ ǀ yát ǀ vācáḥ ǀ tṛṣṭám ǀ janáyanta ǀ rebhā́ḥ ǀ
    manyóḥ ǀ mánasaḥ ǀ śaravyā́ ǀ jā́yate ǀ yā́ ǀ táyā ǀ vidhya ǀ hṛ́daye ǀ yātu-dhā́nān ǁ

    yat ǀ agne ǀ adya ǀ mithunā ǀ śapātaḥ ǀ yat ǀ vācaḥ ǀ tṛṣṭam ǀ janayanta ǀ rebhāḥ ǀ
    manyoḥ ǀ manasaḥ ǀ śaravyā ǀ jāyate ǀ yā ǀ tayā ǀ vidhya ǀ hṛdaye ǀ yātu-dhānān ǁ

    10.87.13 Aṣṭaka 8.4.7.3Anuvāka 10.7.83

  14. Ṛk 14

    परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
    परा॒र्चिषा॒ मूर॑देवांछृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥

    परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि |
    परार्चिषा मूरदेवाञ् छृणीहि परासुतृपो अभि शोशुचानः ||

    párā śṛṇīhi tápasā yātudhā́nānpárāgne rákṣo hárasā śṛṇīhi ǀ
    párārcíṣā mū́radevāñchṛṇīhi párāsutṛ́po abhí śóśucānaḥ ǁ

    parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |
    parārciṣā mūradevāñ chṛṇīhi parāsutṛpo abhi śośucānaḥ ||

    परा॑ । शृ॒णी॒हि॒ । तप॑सा । या॒तु॒ऽधाना॑न् । परा॑ । अ॒ग्ने॒ । रक्षः॑ । हर॑सा । शृ॒णी॒हि॒ ।
    परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णी॒हि॒ । परा॑ । अ॒सु॒ऽतृपः॑ । अ॒भि । शोशु॑चानः ॥

    परा । शृणीहि । तपसा । यातुऽधानान् । परा । अग्ने । रक्षः । हरसा । शृणीहि ।
    परा । अर्चिषा । मूरऽदेवान् । शृणीहि । परा । असुऽतृपः । अभि । शोशुचानः ॥

    párā ǀ śṛṇīhi ǀ tápasā ǀ yātu-dhā́nān ǀ párā ǀ agne ǀ rákṣaḥ ǀ hárasā ǀ śṛṇīhi ǀ
    párā ǀ arcíṣā ǀ mū́ra-devān ǀ śṛṇīhi ǀ párā ǀ asu-tṛ́paḥ ǀ abhí ǀ śóśucānaḥ ǁ

    parā ǀ śṛṇīhi ǀ tapasā ǀ yātu-dhānān ǀ parā ǀ agne ǀ rakṣaḥ ǀ harasā ǀ śṛṇīhi ǀ
    parā ǀ arciṣā ǀ mūra-devān ǀ śṛṇīhi ǀ parā ǀ asu-tṛpaḥ ǀ abhi ǀ śośucānaḥ ǁ

    10.87.14 Aṣṭaka 8.4.7.4Anuvāka 10.7.84

  15. Ṛk 15

    परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णंतु प्र॒त्यगे॑नं श॒पथा॑ यंतु तृ॒ष्टाः ।
    वा॒चास्ते॑नं॒ शर॑व ऋच्छंतु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

    पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु तृष्टाः |
    वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ||

    párādyá devā́ vṛjinám śṛṇantu pratyágenam śapáthā yantu tṛṣṭā́ḥ ǀ
    vācā́stenam śárava ṛcchantu mármanvíśvasyaitu prásitim yātudhā́naḥ ǁ

    parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ |
    vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ ||

    परा॑ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः॑ । य॒न्तु॒ । तृ॒ष्टाः ।
    वा॒चाऽस्ते॑नम् । शर॑वः । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधानः॑ ॥

    परा । अद्य । देवाः । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथाः । यन्तु । तृष्टाः ।
    वाचाऽस्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽसितिम् । यातुऽधानः ॥

    párā ǀ adyá ǀ devā́ḥ ǀ vṛjinám ǀ śṛṇantu ǀ pratyák ǀ enam ǀ śapáthāḥ ǀ yantu ǀ tṛṣṭā́ḥ ǀ
    vācā́-stenam ǀ śáravaḥ ǀ ṛcchantu ǀ márman ǀ víśvasya ǀ etu ǀ prá-sitim ǀ yātu-dhā́naḥ ǁ

    parā ǀ adya ǀ devāḥ ǀ vṛjinam ǀ śṛṇantu ǀ pratyak ǀ enam ǀ śapathāḥ ǀ yantu ǀ tṛṣṭāḥ ǀ
    vācā-stenam ǀ śaravaḥ ǀ ṛcchantu ǀ marman ǀ viśvasya ǀ etu ǀ pra-sitim ǀ yātu-dhānaḥ ǁ

    10.87.15 Aṣṭaka 8.4.7.5Anuvāka 10.7.85

  16. Ṛk 16

    यः पौरु॑षेयेण क्र॒विषा॑ समं॒क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।
    यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥

    यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः |
    यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ||

    yáḥ páuruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ ǀ
    yó aghnyā́yā bhárati kṣīrámagne téṣām śīrṣā́ṇi hárasā́pi vṛśca ǁ

    yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
    yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca ||

    यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।
    यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥

    यः । पौरुषेयेण । क्रविषा । सम्ऽअङ्क्ते । यः । अश्व्येन । पशुना । यातुऽधानः ।
    यः । अघ्न्यायाः । भरति । क्षीरम् । अग्ने । तेषाम् । शीर्षाणि । हरसा । अपि । वृश्च ॥

    yáḥ ǀ páuruṣeyeṇa ǀ kravíṣā ǀ sam-aṅkté ǀ yáḥ ǀ áśvyena ǀ paśúnā ǀ yātu-dhā́naḥ ǀ
    yáḥ ǀ aghnyā́yāḥ ǀ bhárati ǀ kṣīrám ǀ agne ǀ téṣām ǀ śīrṣā́ṇi ǀ hárasā ǀ ápi ǀ vṛśca ǁ

    yaḥ ǀ pauruṣeyeṇa ǀ kraviṣā ǀ sam-aṅkte ǀ yaḥ ǀ aśvyena ǀ paśunā ǀ yātu-dhānaḥ ǀ
    yaḥ ǀ aghnyāyāḥ ǀ bharati ǀ kṣīram ǀ agne ǀ teṣām ǀ śīrṣāṇi ǀ harasā ǀ api ǀ vṛśca ǁ

    10.87.16 Aṣṭaka 8.4.8.1Anuvāka 10.7.86

  17. Ṛk 17

    सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
    पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यंच॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥

    संवत्सरीणम् पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः |
    पीयूषम् अग्ने यतमस् तितृप्सात् तम् प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ||

    saṃvatsarī́ṇam páya usríyāyāstásya mā́śīdyātudhā́no nṛcakṣaḥ ǀ
    pīyū́ṣamagne yatamástítṛpsāttám pratyáñcamarcíṣā vidhya márman ǁ

    saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ |
    pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman ||

    सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।
    पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥

    संवत्सरीणम् । पयः । उस्रियायाः । तस्य । मा । अशीत् । यातुऽधानः । नृऽचक्षः ।
    पीयूषम् । अग्ने । यतमः । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मन् ॥

    saṃvatsarī́ṇam ǀ páyaḥ ǀ usríyāyāḥ ǀ tásya ǀ mā́ ǀ aśīt ǀ yātu-dhā́naḥ ǀ nṛ-cakṣaḥ ǀ
    pīyū́ṣam ǀ agne ǀ yatamáḥ ǀ títṛpsāt ǀ tám ǀ pratyáñcam ǀ arcíṣā ǀ vidhya ǀ márman ǁ

    saṃvatsarīṇam ǀ payaḥ ǀ usriyāyāḥ ǀ tasya ǀ mā ǀ aśīt ǀ yātu-dhānaḥ ǀ nṛ-cakṣaḥ ǀ
    pīyūṣam ǀ agne ǀ yatamaḥ ǀ titṛpsāt ǀ tam ǀ pratyañcam ǀ arciṣā ǀ vidhya ǀ marman ǁ

    10.87.17 Aṣṭaka 8.4.8.2Anuvāka 10.7.87

  18. Ṛk 18

    वि॒षं गवां॑ यातु॒धानाः॑ पिबं॒त्वा वृ॑श्च्यंता॒मदि॑तये दु॒रेवाः॑ ।
    परै॑नांदे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयंतां ॥

    विषं गवां यातुधानाः पिबन्त्व् आ वृश्च्यन्ताम् अदितये दुरेवाः |
    परैनान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ||

    viṣám gávām yātudhā́nāḥ pibantvā́ vṛścyantāmáditaye durévāḥ ǀ
    páraināndeváḥ savitā́ dadātu párā bhāgámóṣadhīnām jayantām ǁ

    viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ |
    parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām ||

    वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ ।
    परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥

    विषम् । गवाम् । यातुऽधानाः । पिबन्तु । आ । वृश्च्यन्ताम् । अदितये । दुःऽएवाः ।
    परा । एनान् । देवः । सविता । ददातु । परा । भागम् । ओषधीनाम् । जयन्ताम् ॥

    viṣám ǀ gávām ǀ yātu-dhā́nāḥ ǀ pibantu ǀ ā́ ǀ vṛścyantām ǀ áditaye ǀ duḥ-évāḥ ǀ
    párā ǀ enān ǀ deváḥ ǀ savitā́ ǀ dadātu ǀ párā ǀ bhāgám ǀ óṣadhīnām ǀ jayantām ǁ

    viṣam ǀ gavām ǀ yātu-dhānāḥ ǀ pibantu ǀ ā ǀ vṛścyantām ǀ aditaye ǀ duḥ-evāḥ ǀ
    parā ǀ enān ǀ devaḥ ǀ savitā ǀ dadātu ǀ parā ǀ bhāgam ǀ oṣadhīnām ǀ jayantām ǁ

    10.87.18 Aṣṭaka 8.4.8.3Anuvāka 10.7.88

  19. Ṛk 19

    स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
    अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥

    सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः |
    अनु दह सहमूरान् क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ||

    sanā́dagne mṛṇasi yātudhā́nānná tvā rákṣāṃsi pṛ́tanāsu jigyuḥ ǀ
    ánu daha sahámūrānkravyā́do mā́ te hetyā́ mukṣata dáivyāyāḥ ǁ

    sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |
    anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ ||

    स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।
    अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥

    सनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्युः ।
    अनु । दह । सहऽमूरान् । क्रव्यऽअदः । मा । ते । हेत्याः । मुक्षत । दैव्यायाः ॥

    sanā́t ǀ agne ǀ mṛṇasi ǀ yātu-dhā́nān ǀ ná ǀ tvā ǀ rákṣāṃsi ǀ pṛ́tanāsu ǀ jigyuḥ ǀ
    ánu ǀ daha ǀ sahá-mūrān ǀ kravya-ádaḥ ǀ mā́ ǀ te ǀ hetyā́ḥ ǀ mukṣata ǀ dáivyāyāḥ ǁ

    sanāt ǀ agne ǀ mṛṇasi ǀ yātu-dhānān ǀ na ǀ tvā ǀ rakṣāṃsi ǀ pṛtanāsu ǀ jigyuḥ ǀ
    anu ǀ daha ǀ saha-mūrān ǀ kravya-adaḥ ǀ mā ǀ te ǀ hetyāḥ ǀ mukṣata ǀ daivyāyāḥ ǁ

    10.87.19 Aṣṭaka 8.4.8.4Anuvāka 10.7.89

  20. Ṛk 20

    त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
    प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहंतु ॥

    त्वं नो अग्ने अधराद् उदक्तात् त्वम् पश्चाद् उत रक्षा पुरस्तात् |
    प्रति ते ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ||

    tvám no agne adharā́dúdaktāttvám paścā́dutá rakṣā purástāt ǀ
    práti té te ajárāsastápiṣṭhā agháśaṃsam śóśucato dahantu ǁ

    tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt |
    prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||

    त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् ।
    प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥

    त्वम् । नः । अग्ने । अधरात् । उदक्तात् । त्वम् । पश्चात् । उत । रक्ष । पुरस्तात् ।
    प्रति । ते । ते । अजरासः । तपिष्ठाः । अघऽशंसम् । शोशुचतः । दहन्तु ॥

    tvám ǀ naḥ ǀ agne ǀ adharā́t ǀ údaktāt ǀ tvám ǀ paścā́t ǀ utá ǀ rakṣa ǀ purástāt ǀ
    práti ǀ té ǀ te ǀ ajárāsaḥ ǀ tápiṣṭhāḥ ǀ aghá-śaṃsam ǀ śóśucataḥ ǀ dahantu ǁ

    tvam ǀ naḥ ǀ agne ǀ adharāt ǀ udaktāt ǀ tvam ǀ paścāt ǀ uta ǀ rakṣa ǀ purastāt ǀ
    prati ǀ te ǀ te ǀ ajarāsaḥ ǀ tapiṣṭhāḥ ǀ agha-śaṃsam ǀ śośucataḥ ǀ dahantu ǁ

    10.87.20 Aṣṭaka 8.4.8.5Anuvāka 10.7.90

  21. Ṛk 21

    प॒श्चात्पु॒रस्ता॑दध॒रादुद॑क्तात्क॒विः काव्ये॑न॒ परि॑ पाहि राजन् ।
    सखे॒ सखा॑यम॒जरो॑ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥

    पश्चात् पुरस्ताद् अधराद् उदक्तात् कविः काव्येन परि पाहि राजन् |
    सखे सखायम् अजरो जरिम्णे ऽग्ने मर्तां अमर्त्यस् त्वं नः ||

    paścā́tpurástādadharā́dúdaktātkavíḥ kā́vyena pári pāhi rājan ǀ
    sákhe sákhāyamajáro jarimṇé’gne mártām̐ ámartyastvám naḥ ǁ

    paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan |
    sakhe sakhāyam ajaro jarimṇe 'gne martāṃ amartyas tvaṃ naḥ ||

    प॒श्चात् । पु॒रस्ता॑त् । अ॒ध॒रात् । उद॑क्तात् । क॒विः । काव्ये॑न । परि॑ । पा॒हि॒ । रा॒ज॒न् ।
    सखे॑ । सखा॑यम् । अ॒जरः॑ । ज॒रि॒म्णे । अग्ने॑ । मर्ता॑न् । अम॑र्त्यः । त्वम् । नः॒ ॥

    पश्चात् । पुरस्तात् । अधरात् । उदक्तात् । कविः । काव्येन । परि । पाहि । राजन् ।
    सखे । सखायम् । अजरः । जरिम्णे । अग्ने । मर्तान् । अमर्त्यः । त्वम् । नः ॥

    paścā́t ǀ purástāt ǀ adharā́t ǀ údaktāt ǀ kavíḥ ǀ kā́vyena ǀ pári ǀ pāhi ǀ rājan ǀ
    sákhe ǀ sákhāyam ǀ ajáraḥ ǀ jarimṇé ǀ ágne ǀ mártān ǀ ámartyaḥ ǀ tvám ǀ naḥ ǁ

    paścāt ǀ purastāt ǀ adharāt ǀ udaktāt ǀ kaviḥ ǀ kāvyena ǀ pari ǀ pāhi ǀ rājan ǀ
    sakhe ǀ sakhāyam ǀ ajaraḥ ǀ jarimṇe ǀ agne ǀ martān ǀ amartyaḥ ǀ tvam ǀ naḥ ǁ

    10.87.21 Aṣṭaka 8.4.9.1Anuvāka 10.7.91

  22. Ṛk 22

    परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
    धृ॒षद्व॑र्णं दि॒वेदि॑वे हं॒तारं॑ भंगु॒राव॑तां ॥

    परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि |
    धृषद्वर्णं दिवे-दिवे हन्तारम् भङ्गुरावताम् ||

    pári tvāgne púram vayám vípram sahasya dhīmahi ǀ
    dhṛṣádvarṇam divédive hantā́ram bhaṅgurā́vatām ǁ

    pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
    dhṛṣadvarṇaṃ dive-dive hantāram bhaṅgurāvatām ||

    परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ।
    धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑ताम् ॥

    परि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि ।
    धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवताम् ॥

    pári ǀ tvā ǀ agne ǀ púram ǀ vayám ǀ vípram ǀ sahasya ǀ dhīmahi ǀ
    dhṛṣát-varṇam ǀ divé-dive ǀ hantā́ram ǀ bhaṅgurá-vatām ǁ

    pari ǀ tvā ǀ agne ǀ puram ǀ vayam ǀ vipram ǀ sahasya ǀ dhīmahi ǀ
    dhṛṣat-varṇam ǀ dive-dive ǀ hantāram ǀ bhaṅgura-vatām ǁ

    10.87.22 Aṣṭaka 8.4.9.2Anuvāka 10.7.92

  23. Ṛk 23

    वि॒षेण॑ भंगु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो॑ दह ।
    अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर्ऋ॒ष्टिभिः॑ ॥

    विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह |
    अग्ने तिग्मेन शोचिषा तपुरग्राभिर् ऋष्टिभिः ||

    viṣéṇa bhaṅgurā́vataḥ práti ṣma rakṣáso daha ǀ
    ágne tigména śocíṣā tápuragrābhirṛṣṭíbhiḥ ǁ

    viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha |
    agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ ||

    वि॒षेण॑ । भ॒ङ्गु॒रऽव॑तः । प्रति॑ । स्म॒ । र॒क्षसः॑ । द॒ह॒ ।
    अग्ने॑ । ति॒ग्मेन॑ । शो॒चिषा॑ । तपुः॑ऽअग्राभिः । ऋ॒ष्टिऽभिः॑ ॥

    विषेण । भङ्गुरऽवतः । प्रति । स्म । रक्षसः । दह ।
    अग्ने । तिग्मेन । शोचिषा । तपुःऽअग्राभिः । ऋष्टिऽभिः ॥

    viṣéṇa ǀ bhaṅgurá-vataḥ ǀ práti ǀ sma ǀ rakṣásaḥ ǀ daha ǀ
    ágne ǀ tigména ǀ śocíṣā ǀ tápuḥ-agrābhiḥ ǀ ṛṣṭí-bhiḥ ǁ

    viṣeṇa ǀ bhaṅgura-vataḥ ǀ prati ǀ sma ǀ rakṣasaḥ ǀ daha ǀ
    agne ǀ tigmena ǀ śociṣā ǀ tapuḥ-agrābhiḥ ǀ ṛṣṭi-bhiḥ ǁ

    10.87.23 Aṣṭaka 8.4.9.3Anuvāka 10.7.93

  24. Ṛk 24

    प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।
    सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥

    प्रत्य् अग्ने मिथुना दह यातुधाना किमीदिना |
    सं त्वा शिशामि जागृह्य् अदब्धं विप्र मन्मभिः ||

    prátyagne mithunā́ daha yātudhā́nā kimīdínā ǀ
    sám tvā śiśāmi jāgṛhyádabdham vipra mánmabhiḥ ǁ

    praty agne mithunā daha yātudhānā kimīdinā |
    saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ ||

    प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒ऽधाना॑ । कि॒मी॒दिना॑ ।
    सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद॑ब्धम् । वि॒प्र॒ । मन्म॑ऽभिः ॥

    प्रति । अग्ने । मिथुना । दह । यातुऽधाना । किमीदिना ।
    सम् । त्वा । शिशामि । जागृहि । अदब्धम् । विप्र । मन्मऽभिः ॥

    práti ǀ agne ǀ mithunā́ ǀ daha ǀ yātu-dhā́nā ǀ kimīdínā ǀ
    sám ǀ tvā ǀ śiśāmi ǀ jāgṛhí ǀ ádabdham ǀ vipra ǀ mánma-bhiḥ ǁ

    prati ǀ agne ǀ mithunā ǀ daha ǀ yātu-dhānā ǀ kimīdinā ǀ
    sam ǀ tvā ǀ śiśāmi ǀ jāgṛhi ǀ adabdham ǀ vipra ǀ manma-bhiḥ ǁ

    10.87.24 Aṣṭaka 8.4.9.4Anuvāka 10.7.94

  25. Ṛk 25

    प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ ।
    या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्यं॑ ॥

    प्रत्य् अग्ने हरसा हरः शृणीहि विश्वतः प्रति |
    यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ||

    prátyagne hárasā háraḥ śṛṇīhí viśvátaḥ práti ǀ
    yātudhā́nasya rakṣáso bálam ví ruja vīryám ǁ

    praty agne harasā haraḥ śṛṇīhi viśvataḥ prati |
    yātudhānasya rakṣaso balaṃ vi ruja vīryam ||

    प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ ।
    या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥

    प्रति । अग्ने । हरसा । हरः । शृणीहि । विश्वतः । प्रति ।
    यातुऽधानस्य । रक्षसः । बलम् । वि । रुज । वीर्यम् ॥

    práti ǀ agne ǀ hárasā ǀ háraḥ ǀ śṛṇīhí ǀ viśvátaḥ ǀ práti ǀ
    yātu-dhā́nasya ǀ rakṣásaḥ ǀ bálam ǀ ví ǀ ruja ǀ vīryám ǁ

    prati ǀ agne ǀ harasā ǀ haraḥ ǀ śṛṇīhi ǀ viśvataḥ ǀ prati ǀ
    yātu-dhānasya ǀ rakṣasaḥ ǀ balam ǀ vi ǀ ruja ǀ vīryam ǁ

    10.87.25 Aṣṭaka 8.4.9.5Anuvāka 10.7.95

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.87 · Agni Rakṣohan

Interpretations

Ralph T. H. Griffith

Ṛk 1

I BALM with oil the mighty Rakṣas-slayer; to the most famous Friend I come for shelter Enkindled, sharpened by our rites, may Agni protect us in the day and night from evil.

Ṛk 2

O Jātavedas with the teeth of iron, enkindled with thy flame attack the demons. Seize with thy longue the foolish gods' adorers: rend, put within thy mouth the raw-flesh caters.

Ṛk 3

Apply thy teeth, the upper and the lower, thou who hast both, enkindled and destroying. Roam also in the air, O King, around us, and with thy jaws assail the wicked spirits.

Ṛk 4

Bending thy shafts through sacrifices, Agni, whetting their points with song as if with whetstones, Pierce to the heart therewith the Yātudhānas, and break their arms uplifed to attack thee.

Ṛk 5

Pierce through the Yātudhāna's skin, O Agni; let the destroying dart with fire consume him. Rend his joints, Jātavedas, let the cater of flesh, flesh-seeking, track his mangled body.

Ṛk 6

Where now thou seest Agni Jātavedas, one of these demons standing still or roaming, Or flying on those paths in air's midregion, sharpen the shaft and as an archer pierce him.

Ṛk 7

Tear from the evil spirit, Jātavedas, what he hath seized and with his spears hath captured. Blazing before him strike him down, O Agni; let spotted carrion-eating kites devour him.

Ṛk 8

Here tell this forth, O Agni: whosoever is, he himself, or acteth as, a demon, Him grasp, O thou Most Youthful, with thy fuel. to the Mati-seer's eye give him as booty.

Ṛk 9

With keen glance guard the sacrifice, O Agni: thou Sage, conduct it onward to the Vasus. Let not the fiends, O Man-beholder, harm thee burning against the Rākṣasas to slay them.

Ṛk 10

Look on the fiend mid men, as Man-beholder: rend thou his three extremities in pieces. Demolish with thy flame his ribs, O Agni, the Yātudhāna's root destroy thou triply.

Ṛk 11

Thrice, Agni, let thy noose surround the demon who with his falsehood injures Holy Order. Loud roaring with thy flame, O Jātavedas, crush him and cast him down before the singer.

Ṛk 12

Lead thou the worshipper that eye, O Agni, wherewith thou lookest on the hoof-armed demon. With light celestial in Atharvan's manner burn up the foot who ruins truth with falsehood.

Ṛk 13

Agni, what curse the pair this day have uttered, what heated word the worshippers have spoken, Each arrowy taunt sped from the angry spirit,—pierce to the heart therewith the Yātudhānas.

Ṛk 14

With fervent heat exterminate the demons; destroy the fiends with burning flame, O Agni. Destroy with fire the foolish gods' adorers; blaze and destrepy the insatiable monsters.

Ṛk 15

May Gods destroy this day the evil-doer may each hot curse of his return and blast him. Let arrows pierce the liar in his vitals, and Visva's net enclose the Yātudhāna.

Ṛk 16

The fiend who smears himself with flesh of cattle, with flesh of horses and of human bodies, Who steals the milch-cow's milk away, O Agni,—tear off the heads of such with fiery fury.

Ṛk 17

The cow gives milk each year, O Man-regarder: let not the Yātudhāna ever taste it. If one would glut him with the biesting, Agni, pierce with thy flame his vitals as he meets thee.

Ṛk 18

Let the fiends drink the poison of the cattle; may Aditi cast off the evildoers. May the God Savitar give them up to ruin, and be their share of plants and herbs denied them.

Ṛk 19

Agni, from days of old thou slayest demons: never shall Rākṣasas in fight o’ercome thee. Burn up the foolish ones, the flesh-devourers: let none of them escape thine heavenly arrow.

Ṛk 20

Guard us, O Agni, from above and under, protect us fl-om behind us and before us; And may thy flames, most fierce and never wasting, glowing with fervent heat, consume the sinner.

Ṛk 21

From rear, from front, from under, from above us, O King, protect us as a Sage with wisdom. Guard to old age thy friend, O Friend, Eternal: O Agni, as Immortal, guard us mortals.

Ṛk 22

We set thee round us as a fort, victorious Agni, thee a Sage, Of hero lineage, day by day, destroyer of our treacherous foes.

Ṛk 23

Burn with thy poison turned against the treacherous brood of Rākṣasas, O Agni, with thy sharpened glow, with lances armed with points of flame.

Ṛk 24

Burn thou the paired Kimīdins, brun, Agni, the Yātudhāna pairs. I sharpen thee, Infallible, with hymns. O Sage, be vigilant.