Sūkta 103
- Devatā देवता
- 1-3, 5-11: Indra; 4: Bṛhaspati; 12: Apvā; 13: Indra, Maruts
- Ṛṣi ऋषि
- Apratiratha Aindra
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3-5, 9); virāṭtrisṭup (8, 10, 12); nicṛttriṣṭup (7, 11); svarāṭtriṣṭup (2); bhuriktriṣṭup (6); virāḍanuṣṭup (13)
2nd set of styles triṣṭubh (1-12); anuṣṭubh (13)
-
Ṛk 1
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नां ।
सं॒क्रंद॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिंद्रः॑ ॥आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् |
संक्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ||āśúḥ śíśāno vṛṣabhó ná bhīmó ghanāghanáḥ kṣóbhaṇaścarṣaṇīnā́m ǀ
saṃkrándano’nimiṣá ekavīráḥ śatám sénā ajayatsākámíndraḥ ǁāśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām |
saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ ||आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् ।
स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् ।
सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥āśúḥ ǀ śíśānaḥ ǀ vṛṣabháḥ ǀ ná ǀ bhīmáḥ ǀ ghanāghanáḥ ǀ kṣóbhaṇaḥ ǀ carṣaṇīnā́m ǀ
sam-krándanaḥ ǀ ani-miṣáḥ ǀ eka-vīráḥ ǀ śatám ǀ sénāḥ ǀ ajayat ǀ sākám ǀ índraḥ ǁāśuḥ ǀ śiśānaḥ ǀ vṛṣabhaḥ ǀ na ǀ bhīmaḥ ǀ ghanāghanaḥ ǀ kṣobhaṇaḥ ǀ carṣaṇīnām ǀ
sam-krandanaḥ ǀ ani-miṣaḥ ǀ eka-vīraḥ ǀ śatam ǀ senāḥ ǀ ajayat ǀ sākam ǀ indraḥ ǁ10.103.1 Aṣṭaka 8.5.22.1Anuvāka 10.9.37
-
Ṛk 2
सं॒क्रंद॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिंद्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना |
तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ||saṃkrándanenānimiṣéṇa jiṣṇúnā yutkāréṇa duścyavanéna dhṛṣṇúnā ǀ
tádíndreṇa jayata tátsahadhvam yúdho nara íṣuhastena vṛ́ṣṇā ǁsaṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā |
tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā ||स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ ।
तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥सम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना ।
तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥sam-krándanena ǀ ani-miṣéṇa ǀ jiṣṇúnā ǀ yut-kāréṇa ǀ duḥ-cyavanéna ǀ dhṛṣṇúnā ǀ
tát ǀ índreṇa ǀ jayata ǀ tát ǀ sahadhvam ǀ yúdhaḥ ǀ naraḥ ǀ íṣu-hastena ǀ vṛ́ṣṇā ǁsam-krandanena ǀ ani-miṣeṇa ǀ jiṣṇunā ǀ yut-kāreṇa ǀ duḥ-cyavanena ǀ dhṛṣṇunā ǀ
tat ǀ indreṇa ǀ jayata ǀ tat ǀ sahadhvam ǀ yudhaḥ ǀ naraḥ ǀ iṣu-hastena ǀ vṛṣṇā ǁ10.103.2 Aṣṭaka 8.5.22.2Anuvāka 10.9.38
-
Ṛk 3
स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इंद्रो॑ ग॒णेन॑ ।
सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥स इषुहस्तैः स निषङ्गिभिर् वशी संस्रष्टा स युध इन्द्रो गणेन |
संसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ||sá íṣuhastaiḥ sá niṣaṅgíbhirvaśī́ sáṃsraṣṭā sá yúdha índro gaṇéna ǀ
saṃsṛṣṭajítsomapā́ bāhuśardhyúgrádhanvā prátihitābhirástā ǁsa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena |
saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā ||सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ ।
सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः । वशी । सम्ऽस्रष्टा । सः । युधः । इन्द्रः । गणेन ।
संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥sáḥ ǀ íṣu-hastaiḥ ǀ sáḥ ǀ niṣaṅgí-bhiḥ ǀ vaśī́ ǀ sám-sraṣṭā ǀ sáḥ ǀ yúdhaḥ ǀ índraḥ ǀ gaṇéna ǀ
saṃsṛṣṭa-jít ǀ soma-pā́ḥ ǀ bāhu-śardhī́ ǀ ugrá-dhanvā ǀ práti-hitābhiḥ ǀ ástā ǁsaḥ ǀ iṣu-hastaiḥ ǀ saḥ ǀ niṣaṅgi-bhiḥ ǀ vaśī ǀ sam-sraṣṭā ǀ saḥ ǀ yudhaḥ ǀ indraḥ ǀ gaṇena ǀ
saṃsṛṣṭa-jit ǀ soma-pāḥ ǀ bāhu-śardhī ǀ ugra-dhanvā ǀ prati-hitābhiḥ ǀ astā ǁ10.103.3 Aṣṭaka 8.5.22.3Anuvāka 10.9.39
-
Ṛk 4
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः ।
प्र॒भं॒जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नां ॥बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः |
प्रभञ्जन् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ||bṛ́haspate pári dīyā ráthena rakṣohā́mítrām̐ apabā́dhamānaḥ ǀ
prabhañjántsénāḥ pramṛṇó yudhā́ jáyannasmā́kamedhyavitā́ ráthānām ǁbṛhaspate pari dīyā rathena rakṣohāmitrāṃ apabādhamānaḥ |
prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām ||बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः ।
प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥बृहस्पते । परि । दीय । रथेन । रक्षःऽहा । अमित्रान् । अपऽबाधमानः ।
प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥bṛ́haspate ǀ pári ǀ dīya ǀ ráthena ǀ rakṣaḥ-hā́ ǀ amítrān ǀ apa-bā́dhamānaḥ ǀ
pra-bhañján ǀ sénāḥ ǀ pra-mṛṇáḥ ǀ yudhā́ ǀ jáyan ǀ asmā́kam ǀ edhi ǀ avitā́ ǀ ráthānām ǁbṛhaspate ǀ pari ǀ dīya ǀ rathena ǀ rakṣaḥ-hā ǀ amitrān ǀ apa-bādhamānaḥ ǀ
pra-bhañjan ǀ senāḥ ǀ pra-mṛṇaḥ ǀ yudhā ǀ jayan ǀ asmākam ǀ edhi ǀ avitā ǀ rathānām ǁ10.103.4 Aṣṭaka 8.5.22.4Anuvāka 10.9.40
-
Ṛk 5
ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः |
अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ||balavijñāyáḥ stháviraḥ právīraḥ sáhasvānvājī́ sáhamāna ugráḥ ǀ
abhívīro abhísatvā sahojā́ jáitramindra ráthamā́ tiṣṭha govít ǁbalavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ |
abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit ||ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः ।
अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥बलऽविज्ञायः । स्थविरः । प्रऽवीरः । सहस्वान् । वाजी । सहमानः । उग्रः ।
अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥bala-vijñāyáḥ ǀ stháviraḥ ǀ prá-vīraḥ ǀ sáhasvān ǀ vājī́ ǀ sáhamānaḥ ǀ ugráḥ ǀ
abhí-vīraḥ ǀ abhí-satvā ǀ sahaḥ-jā́ḥ ǀ jáitram ǀ indra ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ go-vít ǁbala-vijñāyaḥ ǀ sthaviraḥ ǀ pra-vīraḥ ǀ sahasvān ǀ vājī ǀ sahamānaḥ ǀ ugraḥ ǀ
abhi-vīraḥ ǀ abhi-satvā ǀ sahaḥ-jāḥ ǀ jaitram ǀ indra ǀ ratham ǀ ā ǀ tiṣṭha ǀ go-vit ǁ10.103.5 Aṣṭaka 8.5.22.5Anuvāka 10.9.41
-
Ṛk 6
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जयं॑त॒मज्म॑ प्रमृ॒णंत॒मोज॑सा ।
इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिंद्रं॑ सखायो॒ अनु॒ सं र॑भध्वं ॥गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा |
इमं सजाता अनु वीरयध्वम् इन्द्रं सखायो अनु सं रभध्वम् ||gotrabhídam govídam vájrabāhum jáyantamájma pramṛṇántamójasā ǀ
imám sajātā ánu vīrayadhvamíndram sakhāyo ánu sám rabhadhvam ǁgotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā |
imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam ||गो॒त्र॒ऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ।
इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥गोत्रऽभिदम् । गोऽविदम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृणन्तम् । ओजसा ।
इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥gotra-bhídam ǀ go-vídam ǀ vájra-bāhum ǀ jáyantam ǀ ájma ǀ pra-mṛṇántam ǀ ójasā ǀ
imám ǀ sa-jātāḥ ǀ ánu ǀ vīrayadhvam ǀ índram ǀ sakhāyaḥ ǀ ánu ǀ sám ǀ rabhadhvam ǁgotra-bhidam ǀ go-vidam ǀ vajra-bāhum ǀ jayantam ǀ ajma ǀ pra-mṛṇantam ǀ ojasā ǀ
imam ǀ sa-jātāḥ ǀ anu ǀ vīrayadhvam ǀ indram ǀ sakhāyaḥ ǀ anu ǀ sam ǀ rabhadhvam ǁ10.103.6 Aṣṭaka 8.5.22.6Anuvāka 10.9.42
-
Ṛk 7
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिंद्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः |
दुश्च्यवनः पृतनाषाऌ अयुध्यो ऽस्माकं सेना अवतु प्र युत्सु ||abhí gotrā́ṇi sáhasā gā́hamāno’dayó vīráḥ śatámanyuríndraḥ ǀ
duścyavanáḥ pṛtanāṣā́ḷayudhyó’smā́kam sénā avatu prá yutsú ǁabhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ |
duścyavanaḥ pṛtanāṣāḷ ayudhyo 'smākaṃ senā avatu pra yutsu ||अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ ।
दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतऽमन्युः । इन्द्रः ।
दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥abhí ǀ gotrā́ṇi ǀ sáhasā ǀ gā́hamānaḥ ǀ adayáḥ ǀ vīráḥ ǀ śatá-manyuḥ ǀ índraḥ ǀ
duḥ-cyavanáḥ ǀ pṛtanāṣā́ṭ ǀ ayudhyáḥ ǀ asmā́kam ǀ sénāḥ ǀ avatu ǀ prá ǀ yut-sú ǁabhi ǀ gotrāṇi ǀ sahasā ǀ gāhamānaḥ ǀ adayaḥ ǀ vīraḥ ǀ śata-manyuḥ ǀ indraḥ ǀ
duḥ-cyavanaḥ ǀ pṛtanāṣāṭ ǀ ayudhyaḥ ǀ asmākam ǀ senāḥ ǀ avatu ǀ pra ǀ yut-su ǁ10.103.7 Aṣṭaka 8.5.23.1Anuvāka 10.9.43
-
Ṛk 8
इंद्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑मभिभंजती॒नां जयं॑तीनां म॒रुतो॑ यं॒त्वग्रं॑ ॥इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः |
देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रम् ||índra āsām netā́ bṛ́haspátirdákṣiṇā yajñáḥ purá etu sómaḥ ǀ
devasenā́nāmabhibhañjatīnā́m jáyantīnām marúto yantvágram ǁindra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ |
devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram ||इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ ।
दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः ।
देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥índraḥ ǀ āsām ǀ netā́ ǀ bṛ́haspátiḥ ǀ dákṣiṇā ǀ yajñáḥ ǀ puráḥ ǀ etu ǀ sómaḥ ǀ
deva-senā́nām ǀ abhi-bhañjatīnā́m ǀ jáyantīnām ǀ marútaḥ ǀ yantu ǀ ágram ǁindraḥ ǀ āsām ǀ netā ǀ bṛhaspatiḥ ǀ dakṣiṇā ǀ yajñaḥ ǀ puraḥ ǀ etu ǀ somaḥ ǀ
deva-senānām ǀ abhi-bhañjatīnām ǀ jayantīnām ǀ marutaḥ ǀ yantu ǀ agram ǁ10.103.8 Aṣṭaka 8.5.23.2Anuvāka 10.9.44
-
Ṛk 9
इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रं ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतां शर्ध उग्रम् |
महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ||índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nām marútām śárdha ugrám ǀ
mahā́manasām bhuvanacyavā́nām ghóṣo devā́nām jáyatāmúdasthāt ǁindrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram |
mahāmanasām bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt ||इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् ।
म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।
महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥índrasya ǀ vṛ́ṣṇaḥ ǀ váruṇasya ǀ rā́jñaḥ ǀ ādityā́nām ǀ marútām ǀ śárdhaḥ ǀ ugrám ǀ
mahā́-manasām ǀ bhuvana-cyavā́nām ǀ ghóṣaḥ ǀ devā́nām ǀ jáyatām ǀ út ǀ asthāt ǁindrasya ǀ vṛṣṇaḥ ǀ varuṇasya ǀ rājñaḥ ǀ ādityānām ǀ marutām ǀ śardhaḥ ǀ ugram ǀ
mahā-manasām ǀ bhuvana-cyavānām ǀ ghoṣaḥ ǀ devānām ǀ jayatām ǀ ut ǀ asthāt ǁ10.103.9 Aṣṭaka 8.5.23.3Anuvāka 10.9.45
-
Ṛk 10
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यंतु॒ घोषाः॑ ॥उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् मनांसि |
उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ||úddharṣaya maghavannā́yudhānyútsátvanām māmakā́nām mánāṃsi ǀ
údvṛtrahanvājínām vā́jinānyúdráthānām jáyatām yantu ghóṣāḥ ǁud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi |
ud vṛtrahan vājināṃ vājināny ud rathānāṃ jayatāṃ yantu ghoṣāḥ ||उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि ।
उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥उत् । हर्षय । मघऽवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि ।
उत् । वृत्रऽहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥út ǀ harṣaya ǀ magha-van ǀ ā́yudhāni ǀ út ǀ sátvanām ǀ māmakā́nām ǀ mánāṃsi ǀ
út ǀ vṛtra-han ǀ vājínām ǀ vā́jināni ǀ út ǀ ráthānām ǀ jáyatām ǀ yantu ǀ ghóṣāḥ ǁut ǀ harṣaya ǀ magha-van ǀ āyudhāni ǀ ut ǀ satvanām ǀ māmakānām ǀ manāṃsi ǀ
ut ǀ vṛtra-han ǀ vājinām ǀ vājināni ǀ ut ǀ rathānām ǀ jayatām ǀ yantu ǀ ghoṣāḥ ǁ10.103.10 Aṣṭaka 8.5.23.4Anuvāka 10.9.46
-
Ṛk 11
अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यंतु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवंत्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु |
अस्माकं वीरा उत्तरे भवन्त्व् अस्मां उ देवा अवता हवेषु ||asmā́kamíndraḥ sámṛteṣu dhvajéṣvasmā́kam yā́ íṣavastā́ jayantu ǀ
asmā́kam vīrā́ úttare bhavantvasmā́m̐ u devā avatā háveṣu ǁasmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu |
asmākaṃ vīrā uttare bhavantv asmāṃ u devā avatā haveṣu ||अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।
अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।
अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥asmā́kam ǀ índraḥ ǀ sám-ṛteṣu ǀ dhvajéṣu ǀ asmā́kam ǀ yā́ḥ ǀ íṣavaḥ ǀ tā́ḥ ǀ jayantu ǀ
asmā́kam ǀ vīrā́ḥ ǀ út-tare ǀ bhavantu ǀ asmā́n ǀ ūṃ íti ǀ devāḥ ǀ avata ǀ háveṣu ǁasmākam ǀ indraḥ ǀ sam-ṛteṣu ǀ dhvajeṣu ǀ asmākam ǀ yāḥ ǀ iṣavaḥ ǀ tāḥ ǀ jayantu ǀ
asmākam ǀ vīrāḥ ǀ ut-tare ǀ bhavantu ǀ asmān ǀ ūṃ iti ǀ devāḥ ǀ avata ǀ haveṣu ǁ10.103.11 Aṣṭaka 8.5.23.5Anuvāka 10.9.47
-
Ṛk 12
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भयं॑ती गृहा॒णांगा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑रं॒धेना॒मित्रा॒स्तम॑सा सचंतां ॥अमीषां चित्तम् प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि |
अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ||amī́ṣām cittám pratilobháyantī gṛhāṇā́ṅgānyapve párehi ǀ
abhí préhi nírdaha hṛtsú śókairandhénāmítrāstámasā sacantām ǁamīṣāṃ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi |
abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām ||अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ ।
अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥अमीषाम् । चित्तम् । प्रतिऽलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।
अभि । प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम् ॥amī́ṣām ǀ cittám ǀ prati-lobháyantī ǀ gṛhāṇá ǀ áṅgāni ǀ apve ǀ párā ǀ ihi ǀ
abhí ǀ prá ǀ ihi ǀ níḥ ǀ daha ǀ hṛt-sú ǀ śókaiḥ ǀ andhéna ǀ amítrāḥ ǀ támasā ǀ sacantām ǁamīṣām ǀ cittam ǀ prati-lobhayantī ǀ gṛhāṇa ǀ aṅgāni ǀ apve ǀ parā ǀ ihi ǀ
abhi ǀ pra ǀ ihi ǀ niḥ ǀ daha ǀ hṛt-su ǀ śokaiḥ ǀ andhena ǀ amitrāḥ ǀ tamasā ǀ sacantām ǁ10.103.12 Aṣṭaka 8.5.23.6Anuvāka 10.9.48
-
Ṛk 13
प्रेता॒ जय॑ता नर॒ इंद्रो॑ वः॒ शर्म॑ यच्छतु ।
उ॒ग्रा वः॑ संतु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥प्रेता जयता नर इन्द्रो वः शर्म यच्छतु |
उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ||prétā jáyatā nara índro vaḥ śárma yacchatu ǀ
ugrā́ vaḥ santu bāhávo’nādhṛṣyā́ yáthā́satha ǁpretā jayatā nara indro vaḥ śarma yacchatu |
ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha ||प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ ।
उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु ।
उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥prá ǀ ita ǀ jáyata ǀ naraḥ ǀ índraḥ ǀ vaḥ ǀ śárma ǀ yacchatu ǀ
ugrā́ḥ ǀ vaḥ ǀ santu ǀ bāhávaḥ ǀ anādhṛṣyā́ḥ ǀ yáthā ǀ ásatha ǁpra ǀ ita ǀ jayata ǀ naraḥ ǀ indraḥ ǀ vaḥ ǀ śarma ǀ yacchatu ǀ
ugrāḥ ǀ vaḥ ǀ santu ǀ bāhavaḥ ǀ anādhṛṣyāḥ ǀ yathā ǀ asatha ǁ10.103.13 Aṣṭaka 8.5.23.7Anuvāka 10.9.49
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.