Ṛgveda · Maṇḍala 10

Sūkta 16

Agni · Damana Yāmāyana · 14 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Damana Yāmāyana
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 7, 8); svarāṭtriṣṭup (6, 9, 10); virāṭtrisṭup (2, 5); virāḍanuṣṭup (13, 14); bhuriktriṣṭup (3); anuṣṭup (11); nicṛdanuṣṭup (12)

2nd set of styles triṣṭubh (1-10); anuṣṭubh (11-14)

  1. Ṛk 1

    मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रं ।
    य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥

    मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् |
    यदा शृतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ||

    máinamagne ví daho mā́bhí śoco mā́sya tvácam cikṣipo mā́ śárīram ǀ
    yadā́ śṛtám kṛṇávo jātavedó’themenam prá hiṇutātpitṛ́bhyaḥ ǁ

    mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram |
    yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ ||

    मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒हः॒ । मा । अ॒भि । शो॒चः॒ । मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒पः॒ । मा । शरी॑रम् ।
    य॒दा । शृ॒तम् । कृ॒णवः॑ । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒णु॒ता॒त् । पि॒तृऽभ्यः॑ ॥

    मा । एनम् । अग्ने । वि । दहः । मा । अभि । शोचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम् ।
    यदा । शृतम् । कृणवः । जातऽवेदः । अथ । ईम् । एनम् । प्र । हिणुतात् । पितृऽभ्यः ॥

    mā́ ǀ enam ǀ agne ǀ ví ǀ dahaḥ ǀ mā́ ǀ abhí ǀ śocaḥ ǀ mā́ ǀ asya ǀ tvácam ǀ cikṣipaḥ ǀ mā́ ǀ śárīram ǀ
    yadā́ ǀ śṛtám ǀ kṛṇávaḥ ǀ jāta-vedaḥ ǀ átha ǀ īm ǀ enam ǀ prá ǀ hiṇutāt ǀ pitṛ́-bhyaḥ ǁ

    mā ǀ enam ǀ agne ǀ vi ǀ dahaḥ ǀ mā ǀ abhi ǀ śocaḥ ǀ mā ǀ asya ǀ tvacam ǀ cikṣipaḥ ǀ mā ǀ śarīram ǀ
    yadā ǀ śṛtam ǀ kṛṇavaḥ ǀ jāta-vedaḥ ǀ atha ǀ īm ǀ enam ǀ pra ǀ hiṇutāt ǀ pitṛ-bhyaḥ ǁ

    10.16.1 Aṣṭaka 7.6.20.1Anuvāka 10.1.135

  2. Ṛk 2

    शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ ।
    य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥

    शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः |
    यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ||

    śṛtám yadā́ kárasi jātavedó’themenam pári dattātpitṛ́bhyaḥ ǀ
    yadā́ gácchātyásunītimetā́máthā devā́nām vaśanī́rbhavāti ǁ

    śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ |
    yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti ||

    शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्यः॑ ।
    य॒दा । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनीः । भ॒वा॒ति॒ ॥

    शृतम् । यदा । करसि । जातऽवेदः । अथ । ईम् । एनम् । परि । दत्तात् । पितृऽभ्यः ।
    यदा । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनीः । भवाति ॥

    śṛtám ǀ yadā́ ǀ kárasi ǀ jāta-vedaḥ ǀ átha ǀ īm ǀ enam ǀ pári ǀ dattāt ǀ pitṛ́-bhyaḥ ǀ
    yadā́ ǀ gácchāti ǀ ásu-nītim ǀ etā́m ǀ átha ǀ devā́nām ǀ vaśa-nī́ḥ ǀ bhavāti ǁ

    śṛtam ǀ yadā ǀ karasi ǀ jāta-vedaḥ ǀ atha ǀ īm ǀ enam ǀ pari ǀ dattāt ǀ pitṛ-bhyaḥ ǀ
    yadā ǀ gacchāti ǀ asu-nītim ǀ etām ǀ atha ǀ devānām ǀ vaśa-nīḥ ǀ bhavāti ǁ

    10.16.2 Aṣṭaka 7.6.20.2Anuvāka 10.1.136

  3. Ṛk 3

    सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।
    अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

    सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा |
    अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ||

    sū́ryam cákṣurgacchatu vā́tamātmā́ dyā́m ca gaccha pṛthivī́m ca dhármaṇā ǀ
    apó vā gaccha yádi tátra te hitámóṣadhīṣu práti tiṣṭhā śárīraiḥ ǁ

    sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā |
    apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ ||

    सूर्य॑म् । चक्षुः॑ । ग॒च्छ॒तु॒ । वात॑म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म॑णा ।
    अ॒पः । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥

    सूर्यम् । चक्षुः । गच्छतु । वातम् । आत्मा । द्याम् । च । गच्छ । पृथिवीम् । च । धर्मणा ।
    अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥

    sū́ryam ǀ cákṣuḥ ǀ gacchatu ǀ vā́tam ǀ ātmā́ ǀ dyā́m ǀ ca ǀ gaccha ǀ pṛthivī́m ǀ ca ǀ dhármaṇā ǀ
    apáḥ ǀ vā ǀ gaccha ǀ yádi ǀ tátra ǀ te ǀ hitám ǀ óṣadhīṣu ǀ práti ǀ tiṣṭha ǀ śárīraiḥ ǁ

    sūryam ǀ cakṣuḥ ǀ gacchatu ǀ vātam ǀ ātmā ǀ dyām ǀ ca ǀ gaccha ǀ pṛthivīm ǀ ca ǀ dharmaṇā ǀ
    apaḥ ǀ vā ǀ gaccha ǀ yadi ǀ tatra ǀ te ǀ hitam ǀ oṣadhīṣu ǀ prati ǀ tiṣṭha ǀ śarīraiḥ ǁ

    10.16.3 Aṣṭaka 7.6.20.3Anuvāka 10.1.137

  4. Ṛk 4

    अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
    यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कं ॥

    अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः |
    यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ||

    ajó bhāgástápasā tám tapasva tám te śocístapatu tám te arcíḥ ǀ
    yā́ste śivā́stanvó jātavedastā́bhirvahainam sukṛ́tāmu lokám ǁ

    ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ |
    yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam ||

    अ॒जः । भा॒गः । तप॑सा । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः ।
    याः । ते॒ । शि॒वाः । त॒न्वः॑ । जा॒त॒ऽवे॒दः॒ । ताभिः॑ । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥

    अजः । भागः । तपसा । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते । अर्चिः ।
    याः । ते । शिवाः । तन्वः । जातऽवेदः । ताभिः । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥

    ajáḥ ǀ bhāgáḥ ǀ tápasā ǀ tám ǀ tapasva ǀ tám ǀ te ǀ śocíḥ ǀ tapatu ǀ tám ǀ te ǀ arcíḥ ǀ
    yā́ḥ ǀ te ǀ śivā́ḥ ǀ tanváḥ ǀ jāta-vedaḥ ǀ tā́bhiḥ ǀ vaha ǀ enam ǀ su-kṛ́tām ǀ ūṃ íti ǀ lokám ǁ

    ajaḥ ǀ bhāgaḥ ǀ tapasā ǀ tam ǀ tapasva ǀ tam ǀ te ǀ śociḥ ǀ tapatu ǀ tam ǀ te ǀ arciḥ ǀ
    yāḥ ǀ te ǀ śivāḥ ǀ tanvaḥ ǀ jāta-vedaḥ ǀ tābhiḥ ǀ vaha ǀ enam ǀ su-kṛtām ǀ ūṃ iti ǀ lokam ǁ

    10.16.4 Aṣṭaka 7.6.20.4Anuvāka 10.1.138

  5. Ṛk 5

    अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
    आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥

    अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः |
    आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ||

    áva sṛja púnaragne pitṛ́bhyo yásta ā́hutaścárati svadhā́bhiḥ ǀ
    ā́yurvásāna úpa vetu śéṣaḥ sám gacchatām tanvā́ jātavedaḥ ǁ

    ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ |
    āyur vasāna upa vetu śeṣaḥ saṃ gacchatāṃ tanvā jātavedaḥ ||

    अव॑ । सृ॒ज॒ । पुनः॑ । अ॒ग्ने॒ । पि॒तृऽभ्यः॑ । यः । ते॒ । आऽहु॑तः । चर॑ति । स्व॒धाभिः॑ ।
    आयुः॑ । वसा॑नः । उप॑ । वे॒तु॒ । शेषः॑ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । जा॒त॒ऽवे॒दः॒ ॥

    अव । सृज । पुनः । अग्ने । पितृऽभ्यः । यः । ते । आऽहुतः । चरति । स्वधाभिः ।
    आयुः । वसानः । उप । वेतु । शेषः । सम् । गच्छताम् । तन्वा । जातऽवेदः ॥

    áva ǀ sṛja ǀ púnaḥ ǀ agne ǀ pitṛ́-bhyaḥ ǀ yáḥ ǀ te ǀ ā́-hutaḥ ǀ cárati ǀ svadhā́bhiḥ ǀ
    ā́yuḥ ǀ vásānaḥ ǀ úpa ǀ vetu ǀ śéṣaḥ ǀ sám ǀ gacchatām ǀ tanvā́ ǀ jāta-vedaḥ ǁ

    ava ǀ sṛja ǀ punaḥ ǀ agne ǀ pitṛ-bhyaḥ ǀ yaḥ ǀ te ǀ ā-hutaḥ ǀ carati ǀ svadhābhiḥ ǀ
    āyuḥ ǀ vasānaḥ ǀ upa ǀ vetu ǀ śeṣaḥ ǀ sam ǀ gacchatām ǀ tanvā ǀ jāta-vedaḥ ǁ

    10.16.5 Aṣṭaka 7.6.20.5Anuvāka 10.1.139

  6. Ṛk 6

    यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
    अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

    यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः |
    अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ||

    yátte kṛṣṇáḥ śakuná ātutóda pipīláḥ sarpá utá vā śvā́padaḥ ǀ
    agníṣṭádviśvā́dagadám kṛṇotu sómaśca yó brāhmaṇā́m̐ āvivéśa ǁ

    yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |
    agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṃ āviveśa ||

    यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒ऽतु॒तोद॑ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप॑दः ।
    अ॒ग्निः । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः॑ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥

    यत् । ते । कृष्णः । शकुनः । आऽतुतोद । पिपीलः । सर्पः । उत । वा । श्वापदः ।
    अग्निः । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्मणान् । आऽविवेश ॥

    yát ǀ te ǀ kṛṣṇáḥ ǀ śakunáḥ ǀ ā-tutóda ǀ pipīláḥ ǀ sarpáḥ ǀ utá ǀ vā ǀ śvā́padaḥ ǀ
    agníḥ ǀ tát ǀ viśva-át ǀ agadám ǀ kṛṇotu ǀ sómaḥ ǀ ca ǀ yáḥ ǀ brāhmaṇā́n ǀ ā-vivéśa ǁ

    yat ǀ te ǀ kṛṣṇaḥ ǀ śakunaḥ ǀ ā-tutoda ǀ pipīlaḥ ǀ sarpaḥ ǀ uta ǀ vā ǀ śvāpadaḥ ǀ
    agniḥ ǀ tat ǀ viśva-at ǀ agadam ǀ kṛṇotu ǀ somaḥ ǀ ca ǀ yaḥ ǀ brāhmaṇān ǀ ā-viveśa ǁ

    10.16.6 Aṣṭaka 7.6.21.1Anuvāka 10.1.140

  7. Ṛk 7

    अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।
    नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्यं॒खया॑ते ॥

    अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च |
    नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ||

    agnérvárma pári góbhirvyayasva sám prórṇuṣva pī́vasā médasā ca ǀ
    néttvā dhṛṣṇúrhárasā járhṛṣāṇo dadhṛ́gvidhakṣyánparyaṅkháyāte ǁ

    agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca |
    net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte ||

    अ॒ग्नेः । वर्म॑ । परि॑ । गोभिः॑ । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । पीव॑सा । मेद॑सा । च॒ ।
    न । इत् । त्वा॒ । धृ॒ष्णुः । हर॑सा । जर्हृ॑षाणः । द॒धृक् । वि॒ऽध॒क्ष्यन् । प॒रि॒ऽअ॒ङ्खया॑ते ॥

    अग्नेः । वर्म । परि । गोभिः । व्ययस्व । सम् । प्र । ऊर्णुष्व । पीवसा । मेदसा । च ।
    न । इत् । त्वा । धृष्णुः । हरसा । जर्हृषाणः । दधृक् । विऽधक्ष्यन् । परिऽअङ्खयाते ॥

    agnéḥ ǀ várma ǀ pári ǀ góbhiḥ ǀ vyayasva ǀ sám ǀ prá ǀ ūrṇuṣva ǀ pī́vasā ǀ médasā ǀ ca ǀ
    ná ǀ ít ǀ tvā ǀ dhṛṣṇúḥ ǀ hárasā ǀ járhṛṣāṇaḥ ǀ dadhṛ́k ǀ vi-dhakṣyán ǀ pari-aṅkháyāte ǁ

    agneḥ ǀ varma ǀ pari ǀ gobhiḥ ǀ vyayasva ǀ sam ǀ pra ǀ ūrṇuṣva ǀ pīvasā ǀ medasā ǀ ca ǀ
    na ǀ it ǀ tvā ǀ dhṛṣṇuḥ ǀ harasā ǀ jarhṛṣāṇaḥ ǀ dadhṛk ǀ vi-dhakṣyan ǀ pari-aṅkhayāte ǁ

    10.16.7 Aṣṭaka 7.6.21.2Anuvāka 10.1.141

  8. Ṛk 8

    इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्यानां॑ ।
    ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मिं॑दे॒वा अ॒मृता॑ मादयंते ॥

    इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् |
    एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ||

    imámagne camasám mā́ ví jihvaraḥ priyó devā́nāmutá somyā́nām ǀ
    eṣá yáścamasó devapā́nastásmindevā́ amṛ́tā mādayante ǁ

    imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām |
    eṣa yaś camaso devapānas tasmin devā amṛtā mādayante ||

    इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒रः॒ । प्रि॒यः । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् ।
    ए॒षः । यः । च॒म॒सः । दे॒व॒ऽपानः॑ । तस्मि॑न् । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ॥

    इमम् । अग्ने । चमसम् । मा । वि । जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम् ।
    एषः । यः । चमसः । देवऽपानः । तस्मिन् । देवाः । अमृताः । मादयन्ते ॥

    imám ǀ agne ǀ camasám ǀ mā́ ǀ ví ǀ jihvaraḥ ǀ priyáḥ ǀ devā́nām ǀ utá ǀ somyā́nām ǀ
    eṣáḥ ǀ yáḥ ǀ camasáḥ ǀ deva-pā́naḥ ǀ tásmin ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayante ǁ

    imam ǀ agne ǀ camasam ǀ mā ǀ vi ǀ jihvaraḥ ǀ priyaḥ ǀ devānām ǀ uta ǀ somyānām ǀ
    eṣaḥ ǀ yaḥ ǀ camasaḥ ǀ deva-pānaḥ ǀ tasmin ǀ devāḥ ǀ amṛtāḥ ǀ mādayante ǁ

    10.16.8 Aṣṭaka 7.6.21.3Anuvāka 10.1.142

  9. Ṛk 9

    क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।
    इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥

    क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः |
    इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ||

    kravyā́damagním prá hiṇomi dūrám yamárājño gacchatu ripravāháḥ ǀ
    iháivā́yámítaro jātávedā devébhyo havyám vahatu prajānán ǁ

    kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ |
    ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan ||

    क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒हः ।
    इ॒ह । ए॒व । अ॒यम् । इत॑रः । जा॒तऽवे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ॥

    क्रव्यऽअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमऽराज्ञः । गच्छतु । रिप्रऽवाहः ।
    इह । एव । अयम् । इतरः । जातऽवेदाः । देवेभ्यः । हव्यम् । वहतु । प्रऽजानन् ॥

    kravya-ádam ǀ agním ǀ prá ǀ hiṇomi ǀ dūrám ǀ yamá-rājñaḥ ǀ gacchatu ǀ ripra-vāháḥ ǀ
    ihá ǀ evá ǀ ayám ǀ ítaraḥ ǀ jātá-vedāḥ ǀ devébhyaḥ ǀ havyám ǀ vahatu ǀ pra-jānán ǁ

    kravya-adam ǀ agnim ǀ pra ǀ hiṇomi ǀ dūram ǀ yama-rājñaḥ ǀ gacchatu ǀ ripra-vāhaḥ ǀ
    iha ǀ eva ǀ ayam ǀ itaraḥ ǀ jāta-vedāḥ ǀ devebhyaḥ ǀ havyam ǀ vahatu ǀ pra-jānan ǁ

    10.16.9 Aṣṭaka 7.6.21.4Anuvāka 10.1.143

  10. Ṛk 10

    यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसं ।
    तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥

    यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् |
    तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ||

    yó agníḥ kravyā́tpravivéśa vo gṛhámimám páśyannítaram jātávedasam ǀ
    tám harāmi pitṛyajñā́ya devám sá gharmáminvātparamé sadhásthe ǁ

    yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam |
    taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe ||

    यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् ।
    तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥

    यः । अग्निः । क्रव्यऽअत् । प्रऽविवेश । वः । गृहम् । इमम् । पश्यन् । इतरम् । जातऽवेदसम् ।
    तम् । हरामि । पितृऽयज्ञाय । देवम् । सः । घर्मम् । इन्वात् । परमे । सधऽस्थे ॥

    yáḥ ǀ agníḥ ǀ kravya-át ǀ pra-vivéśa ǀ vaḥ ǀ gṛhám ǀ imám ǀ páśyan ǀ ítaram ǀ jātá-vedasam ǀ
    tám ǀ harāmi ǀ pitṛ-yajñā́ya ǀ devám ǀ sáḥ ǀ gharmám ǀ invāt ǀ paramé ǀ sadhá-sthe ǁ

    yaḥ ǀ agniḥ ǀ kravya-at ǀ pra-viveśa ǀ vaḥ ǀ gṛham ǀ imam ǀ paśyan ǀ itaram ǀ jāta-vedasam ǀ
    tam ǀ harāmi ǀ pitṛ-yajñāya ǀ devam ǀ saḥ ǀ gharmam ǀ invāt ǀ parame ǀ sadha-sthe ǁ

    10.16.10 Aṣṭaka 7.6.21.5Anuvāka 10.1.144

  11. Ṛk 11

    यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
    प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥

    यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः |
    प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ||

    yó agníḥ kravyavā́hanaḥ pitṝ́nyákṣadṛtāvṛ́dhaḥ ǀ
    prédu havyā́ni vocati devébhyaśca pitṛ́bhya ā́ ǁ

    yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ |
    pred u havyāni vocati devebhyaś ca pitṛbhya ā ||

    यः । अ॒ग्निः । क्र॒व्य॒ऽवाह॑नः । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ ।
    प्र । इत् । ऊं॒ इति॑ । ह॒व्यानि॑ । वो॒च॒ति॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृऽभ्यः॑ । आ ॥

    यः । अग्निः । क्रव्यऽवाहनः । पितॄन् । यक्षत् । ऋतऽवृधः ।
    प्र । इत् । ऊं इति । हव्यानि । वोचति । देवेभ्यः । च । पितृऽभ्यः । आ ॥

    yáḥ ǀ agníḥ ǀ kravya-vā́hanaḥ ǀ pitṝ́n ǀ yákṣat ǀ ṛta-vṛ́dhaḥ ǀ
    prá ǀ ít ǀ ūṃ íti ǀ havyā́ni ǀ vocati ǀ devébhyaḥ ǀ ca ǀ pitṛ́-bhyaḥ ǀ ā́ ǁ

    yaḥ ǀ agniḥ ǀ kravya-vāhanaḥ ǀ pitṝn ǀ yakṣat ǀ ṛta-vṛdhaḥ ǀ
    pra ǀ it ǀ ūṃ iti ǀ havyāni ǀ vocati ǀ devebhyaḥ ǀ ca ǀ pitṛ-bhyaḥ ǀ ā ǁ

    10.16.11 Aṣṭaka 7.6.22.1Anuvāka 10.1.145

  12. Ṛk 12

    उ॒शंत॑स्त्वा॒ नि धी॑मह्यु॒शंतः॒ समि॑धीमहि ।
    उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

    उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि |
    उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ||

    uśántastvā ní dhīmahyuśántaḥ sámidhīmahi ǀ
    uśánnuśatá ā́ vaha pitṝ́nhavíṣe áttave ǁ

    uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi |
    uśann uśata ā vaha pitṝn haviṣe attave ||

    उ॒शन्तः॑ । त्वा॒ । नि । धी॒म॒हि॒ । उ॒शन्तः॑ । सम् । इ॒धी॒म॒हि॒ ।
    उ॒शन् । उ॒श॒तः । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥

    उशन्तः । त्वा । नि । धीमहि । उशन्तः । सम् । इधीमहि ।
    उशन् । उशतः । आ । वह । पितॄन् । हविषे । अत्तवे ॥

    uśántaḥ ǀ tvā ǀ ní ǀ dhīmahi ǀ uśántaḥ ǀ sám ǀ idhīmahi ǀ
    uśán ǀ uśatáḥ ǀ ā́ ǀ vaha ǀ pitṝ́n ǀ havíṣe ǀ áttave ǁ

    uśantaḥ ǀ tvā ǀ ni ǀ dhīmahi ǀ uśantaḥ ǀ sam ǀ idhīmahi ǀ
    uśan ǀ uśataḥ ǀ ā ǀ vaha ǀ pitṝn ǀ haviṣe ǀ attave ǁ

    10.16.12 Aṣṭaka 7.6.22.2Anuvāka 10.1.146

  13. Ṛk 13

    यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।
    कि॒यांब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥

    यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः |
    कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ||

    yám tvámagne samádahastámu nírvāpayā púnaḥ ǀ
    kiyā́mbvátra rohatu pākadūrvā́ vyálkaśā ǁ

    yaṃ tvam agne samadahas tam u nir vāpayā punaḥ |
    kiyāmbv atra rohatu pākadūrvā vyalkaśā ||

    यम् । त्वम् । अ॒ग्ने॒ । स॒म्ऽअद॑हः । तम् । ऊं॒ इति॑ । निः । वा॒प॒य॒ । पुन॒रिति॑ ।
    कि॒याम्बु॑ । अत्र॑ । रो॒ह॒तु॒ । पा॒क॒ऽदू॒र्वा । विऽअ॑ल्कशा ॥

    यम् । त्वम् । अग्ने । सम्ऽअदहः । तम् । ऊं इति । निः । वापय । पुनरिति ।
    कियाम्बु । अत्र । रोहतु । पाकऽदूर्वा । विऽअल्कशा ॥

    yám ǀ tvám ǀ agne ǀ sam-ádahaḥ ǀ tám ǀ ūṃ íti ǀ níḥ ǀ vāpaya ǀ púnaríti ǀ
    kiyā́mbu ǀ átra ǀ rohatu ǀ pāka-dūrvā́ ǀ ví-alkaśā ǁ

    yam ǀ tvam ǀ agne ǀ sam-adahaḥ ǀ tam ǀ ūṃ iti ǀ niḥ ǀ vāpaya ǀ punariti ǀ
    kiyāmbu ǀ atra ǀ rohatu ǀ pāka-dūrvā ǀ vi-alkaśā ǁ

    10.16.13 Aṣṭaka 7.6.22.3Anuvāka 10.1.147

  14. Ṛk 14

    शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।
    मं॒डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥

    शीतिके शीतिकावति ह्लादिके ह्लादिकावति |
    मण्डूक्या सु सं गम इमं स्व् अग्निं हर्षय ||

    śī́tike śī́tikāvati hlā́dike hlā́dikāvati ǀ
    maṇḍūkyā́ sú sám gama imám svágním harṣaya ǁ

    śītike śītikāvati hlādike hlādikāvati |
    maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya ||

    शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति ।
    म॒ण्डू॒क्या॑ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥

    शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति ।
    मण्डूक्या । सु । सम् । गमः । इमम् । सु । अग्निम् । हर्षय ॥

    śī́tike ǀ śī́tikā-vati ǀ hlā́dike ǀ hlā́dikā-vati ǀ
    maṇḍūkyā́ ǀ sú ǀ sám ǀ gamaḥ ǀ imám ǀ sú ǀ agním ǀ harṣaya ǁ

    śītike ǀ śītikā-vati ǀ hlādike ǀ hlādikā-vati ǀ
    maṇḍūkyā ǀ su ǀ sam ǀ gamaḥ ǀ imam ǀ su ǀ agnim ǀ harṣaya ǁ

    10.16.14 Aṣṭaka 7.6.22.4Anuvāka 10.1.148

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.16 · Agni

Interpretations

Ralph T. H. Griffith

Ṛk 1

Burn him not up, nor quite consume him, Agni: let not his body or his skin be scattered. O Jātavedas, when thou hast matured him, then send him on his way unto the Fathers.

Ṛk 2

When thou hast made him ready, Jātavedas, then do thou give him over to the Fathers. When he attains unto the life that waits him, he shall become the Deities' controller.

Ṛk 3

The Sun receive thine eye, tne Wind thy spirit; go, as thy merit is, to earth or heaven. Go, if it be thy lot, unto the waters; go, make thine home in plants with all thy members.

Ṛk 4

Thy portion is the goat: with heat consume him: let thy fierce flame, thy glowing splendour, burn him With thine auspicious forms, o Jātavedas, bear this man to the region of the pious.

Ṛk 5

Again, O Agni, to the Fathers send him who, offered in thee, goes with our oblations. Wearing new life let him increase his offspring: let him rejoin a body, Jātavedas.

Ṛk 6

What wound soe’er the dark bird hath inflicted, the emmet, or the serpent, or the jackal, May Agni who devoureth all things heal it and Soma who hath passed into the Brahmans.

Ṛk 7

Shield thee with flesh against the flames of Agni, encompass thee about with fat and marrow, So will the Bold One, eager to attack thee with fierce glow fail to girdle and consume thee.

Ṛk 8

Forbear, O Agni, to upset this ladle: the Gods and they who merit Soma love it. This ladle, this which serves the Gods to drink from, in this the Immortal Deities rejoice them.

Ṛk 9

send afar flesh eating Agni, bearing off stains may he depart to Yama's subjects. But let this other Jātavedas carry oblation to the Gods, for he is skilful.

Ṛk 10

I choose as God for Father-worship Agni, flesh-eater, who hath past within your dwelling, While looking on this other Jātavedas. Let him light flames in the supreme assembly.

Ṛk 11

With offerings meet let Agni bring the Fathers who support the Law. Let him announce oblations paid to Fathers and to Deities.

Ṛk 12

Right gladly would we set thee down, right gladly make thee burn and glow. Gladly bring yearning Fathers nigh to cat the food of sacrifice.

Ṛk 13

Cool, Agni, and again refresh the spot which thou hast scorched and burnt. Here let the water-lily grow, and tender grass and leafy herb.