Sūkta 154
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Yamī Vaivasvatī
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1, 3, 5); nicṛdanuṣṭup (2, 4)
2nd set of styles anuṣṭubh
-
Ṛk 1
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात् ॥सोम एकेभ्यः पवते घृतम् एक उपासते |
येभ्यो मधु प्रधावति तांश् चिद् एवापि गच्छतात् ||sóma ékebhyaḥ pavate ghṛtáméka úpāsate ǀ
yébhyo mádhu pradhā́vati tā́ṃścidevā́pi gacchatāt ǁsoma ekebhyaḥ pavate ghṛtam eka upāsate |
yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt ||सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ ।
येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते ।
येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥sómaḥ ǀ ékebhyaḥ ǀ pavate ǀ ghṛtám ǀ éke ǀ úpa ǀ āsate ǀ
yébhyaḥ ǀ mádhu ǀ pra-dhā́vati ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁsomaḥ ǀ ekebhyaḥ ǀ pavate ǀ ghṛtam ǀ eke ǀ upa ǀ āsate ǀ
yebhyaḥ ǀ madhu ǀ pra-dhāvati ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ10.154.1 Aṣṭaka 8.8.12.1Anuvāka 10.12.11
-
Ṛk 2
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः |
तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ||tápasā yé anādhṛṣyā́stápasā yé sváryayúḥ ǀ
tápo yé cakriré máhastā́ṃścidevā́pi gacchatāt ǁtapasā ye anādhṛṣyās tapasā ye svar yayuḥ |
tapo ye cakrire mahas tāṃś cid evāpi gacchatāt ||तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।
तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।
तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥tápasā ǀ yé ǀ anādhṛṣyā́ḥ ǀ tápasā ǀ yé ǀ sváḥ ǀ yayúḥ ǀ
tápaḥ ǀ yé ǀ cakriré ǀ máhaḥ ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁtapasā ǀ ye ǀ anādhṛṣyāḥ ǀ tapasā ǀ ye ǀ svaḥ ǀ yayuḥ ǀ
tapaḥ ǀ ye ǀ cakrire ǀ mahaḥ ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ10.154.2 Aṣṭaka 8.8.12.2Anuvāka 10.12.12
-
Ṛk 3
ये युध्यं॑ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः |
ये वा सहस्रदक्षिणास् तांश् चिद् एवापि गच्छतात् ||yé yúdhyante pradháneṣu śū́rāso yé tanūtyájaḥ ǀ
yé vā sahásradakṣiṇāstā́ṃścidevā́pi gacchatāt ǁye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ |
ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt ||ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ ।
ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ये । युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः ।
ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥yé ǀ yúdhyante ǀ pra-dháneṣu ǀ śū́rāsaḥ ǀ yé ǀ tanū-tyájaḥ ǀ
yé ǀ vā ǀ sahásra-dakṣiṇāḥ ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁye ǀ yudhyante ǀ pra-dhaneṣu ǀ śūrāsaḥ ǀ ye ǀ tanū-tyajaḥ ǀ
ye ǀ vā ǀ sahasra-dakṣiṇāḥ ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ10.154.3 Aṣṭaka 8.8.12.3Anuvāka 10.12.13
-
Ṛk 4
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
पि॒तॄंतप॑स्वतो यम॒ तांश्चि॑दे॒वापि॑ गच्छतात् ॥ये चित् पूर्व ऋतसाप ऋतावान ऋतावृधः |
पितॄन् तपस्वतो यम तांश् चिद् एवापि गच्छतात् ||yé citpū́rva ṛtasā́pa ṛtā́vāna ṛtāvṛ́dhaḥ ǀ
pitṝ́ntápasvato yama tā́ṃścidevā́pi gacchatāt ǁye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ |
pitṝn tapasvato yama tāṃś cid evāpi gacchatāt ||ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ ।
पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥ये । चित् । पूर्वे । ऋतऽसापः । ऋतऽवानः । ऋतऽवृधः ।
पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥yé ǀ cit ǀ pū́rve ǀ ṛta-sā́paḥ ǀ ṛtá-vānaḥ ǀ ṛta-vṛ́dhaḥ ǀ
pitṝ́n ǀ tápasvataḥ ǀ yama ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁye ǀ cit ǀ pūrve ǀ ṛta-sāpaḥ ǀ ṛta-vānaḥ ǀ ṛta-vṛdhaḥ ǀ
pitṝn ǀ tapasvataḥ ǀ yama ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ10.154.4 Aṣṭaka 8.8.12.4Anuvāka 10.12.14
-
Ṛk 5
स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यंति॒ सूर्यं॑ ।
ऋषीं॒तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् |
ऋषीन् तपस्वतो यम तपोजां अपि गच्छतात् ||sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam ǀ
ṛ́ṣīntápasvato yama tapojā́m̐ ápi gacchatāt ǁsahasraṇīthāḥ kavayo ye gopāyanti sūryam |
ṛṣīn tapasvato yama tapojāṃ api gacchatāt ||स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।
ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥sahásra-nīthāḥ ǀ kaváyaḥ ǀ yé ǀ gopāyánti ǀ sū́ryam ǀ
ṛ́ṣīn ǀ tápasvataḥ ǀ yama ǀ tapaḥ-jā́n ǀ ápi ǀ gacchatāt ǁsahasra-nīthāḥ ǀ kavayaḥ ǀ ye ǀ gopāyanti ǀ sūryam ǀ
ṛṣīn ǀ tapasvataḥ ǀ yama ǀ tapaḥ-jān ǀ api ǀ gacchatāt ǁ10.154.5 Aṣṭaka 8.8.12.5Anuvāka 10.12.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.