Ṛgveda · Maṇḍala 10 · Sūkta 154
Ṛk 10.154.2
Saṃhitā
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥
तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः |
तपो ये चक्रिरे महस् तांश् चिद् एवापि गच्छतात् ||
tápasā yé anādhṛṣyā́stápasā yé sváryayúḥ ǀ
tápo yé cakriré máhastā́ṃścidevā́pi gacchatāt ǁ
tapasā ye anādhṛṣyās tapasā ye svar yayuḥ |
tapo ye cakrire mahas tāṃś cid evāpi gacchatāt ||
Padapāṭha
तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।
तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥
तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।
तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥
tápasā ǀ yé ǀ anādhṛṣyā́ḥ ǀ tápasā ǀ yé ǀ sváḥ ǀ yayúḥ ǀ
tápaḥ ǀ yé ǀ cakriré ǀ máhaḥ ǀ tā́n ǀ cit ǀ evá ǀ ápi ǀ gacchatāt ǁ
tapasā ǀ ye ǀ anādhṛṣyāḥ ǀ tapasā ǀ ye ǀ svaḥ ǀ yayuḥ ǀ
tapaḥ ǀ ye ǀ cakrire ǀ mahaḥ ǀ tān ǀ cit ǀ eva ǀ api ǀ gacchatāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.154.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.12.02
- Maṇḍala · Anuvāka · Ṛk
- 10.12.012
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Yamī Vaivasvatī
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.