Sūkta 64
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 4, 5, 9, 10, 13, 15); virāḍjagatī (2, 3, 7, 8, 11); jagatī (6, 14); triṣṭup (12); nicṛttriṣṭup (16); pādanicṛttriṣṭup (17)
2nd set of styles jagatī (1-11, 13-15); triṣṭubh (12, 16, 17)
-
Ṛk 1
क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मंतु॒ नाम॑ शृण्व॒तां म॑नामहे ।
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वताम् मनामहे |
को मृऌआति कतमो नो मयस् करत् कतम ऊती अभ्य् आ ववर्तति ||kathā́ devā́nām katamásya yā́mani sumántu nā́ma śṛṇvatā́m manāmahe ǀ
kó mṛḷāti katamó no máyaskaratkatamá ūtī́ abhyā́ vavartati ǁkathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe |
ko mṛḷāti katamo no mayas karat katama ūtī abhy ā vavartati ||क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।
कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः॑ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥कथा । देवानाम् । कतमस्य । यामनि । सुऽमन्तु । नाम । शृण्वताम् । मनामहे ।
कः । मृळाति । कतमः । नः । मयः । करत् । कतमः । ऊती । अभि । आ । ववर्तति ॥kathā́ ǀ devā́nām ǀ katamásya ǀ yā́mani ǀ su-mántu ǀ nā́ma ǀ śṛṇvatā́m ǀ manāmahe ǀ
káḥ ǀ mṛḷāti ǀ katamáḥ ǀ naḥ ǀ máyaḥ ǀ karat ǀ katamáḥ ǀ ūtī́ ǀ abhí ǀ ā́ ǀ vavartati ǁkathā ǀ devānām ǀ katamasya ǀ yāmani ǀ su-mantu ǀ nāma ǀ śṛṇvatām ǀ manāmahe ǀ
kaḥ ǀ mṛḷāti ǀ katamaḥ ǀ naḥ ǀ mayaḥ ǀ karat ǀ katamaḥ ǀ ūtī ǀ abhi ǀ ā ǀ vavartati ǁ10.64.1 Aṣṭaka 8.2.6.1Anuvāka 10.5.56
-
Ṛk 2
क्र॒तू॒यंति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेनं॑ति वे॒नाः प॒तयं॒त्या दिशः॑ ।
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्य् आ दिशः |
न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ||kratūyánti krátavo hṛtsú dhītáyo vénanti venā́ḥ patáyantyā́ díśaḥ ǀ
ná marḍitā́ vidyate anyá ebhyo devéṣu me ádhi kā́mā ayaṃsata ǁkratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ |
na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata ||क्र॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ ।
न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥क्रतुऽयन्ति । क्रतवः । हृत्ऽसु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः ।
न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥kratu-yánti ǀ krátavaḥ ǀ hṛt-sú ǀ dhītáyaḥ ǀ vénanti ǀ venā́ḥ ǀ patáyanti ǀ ā́ ǀ díśaḥ ǀ
ná ǀ marḍitā́ ǀ vidyate ǀ anyáḥ ǀ ebhyaḥ ǀ devéṣu ǀ me ǀ ádhi ǀ kā́māḥ ǀ ayaṃsata ǁkratu-yanti ǀ kratavaḥ ǀ hṛt-su ǀ dhītayaḥ ǀ venanti ǀ venāḥ ǀ patayanti ǀ ā ǀ diśaḥ ǀ
na ǀ marḍitā ǀ vidyate ǀ anyaḥ ǀ ebhyaḥ ǀ deveṣu ǀ me ǀ adhi ǀ kāmāḥ ǀ ayaṃsata ǁ10.64.2 Aṣṭaka 8.2.6.2Anuvāka 10.5.57
-
Ṛk 3
नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
सूर्या॒मासा॑ चं॒द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥नरा वा शंसम् पूषणम् अगोह्यम् अग्निं देवेद्धम् अभ्य् अर्चसे गिरा |
सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातम् उषसम् अक्तुम् अश्विना ||nárā vā śáṃsam pūṣáṇamágohyamagním devéddhamabhyárcase girā́ ǀ
sū́ryāmā́sā candrámasā yamám diví tritám vā́tamuṣásamaktúmaśvínā ǁnarā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā |
sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā ||नरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।
सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥नराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देवऽइद्धम् । अभि । अर्चसे । गिरा ।
सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना ॥nárāśáṃsam ǀ vā ǀ pūṣáṇam ǀ ágohyam ǀ agním ǀ devá-iddham ǀ abhí ǀ arcase ǀ girā́ ǀ
sū́ryāmā́sā ǀ candrámasā ǀ yamám ǀ diví ǀ tritám ǀ vā́tam ǀ uṣásam ǀ aktúm ǀ aśvínā ǁnarāśaṃsam ǀ vā ǀ pūṣaṇam ǀ agohyam ǀ agnim ǀ deva-iddham ǀ abhi ǀ arcase ǀ girā ǀ
sūryāmāsā ǀ candramasā ǀ yamam ǀ divi ǀ tritam ǀ vātam ǀ uṣasam ǀ aktum ǀ aśvinā ǁ10.64.3 Aṣṭaka 8.2.6.3Anuvāka 10.5.58
-
Ṛk 4
क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
अ॒ज एक॑पात्सु॒हवे॑भि॒र्ऋक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥कथा कविस् तुवीरवान् कया गिरा बृहस्पतिर् वावृधते सुवृक्तिभिः |
अज एकपात् सुहवेभिर् ऋक्वभिर् अहिः शृणोतु बुध्न्यो हवीमनि ||kathā́ kavístuvīrávānkáyā girā́ bṛ́haspátirvāvṛdhate suvṛktíbhiḥ ǀ
ajá ékapātsuhávebhirṛ́kvabhiráhiḥ śṛṇotu budhnyó hávīmani ǁkathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ |
aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani ||क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ ।
अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥कथा । कविः । तुविऽरवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्तिऽभिः ।
अजः । एकऽपात् । सुऽहवेभिः । ऋक्वऽभिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ॥kathā́ ǀ kavíḥ ǀ tuvi-rávān ǀ káyā ǀ girā́ ǀ bṛ́haspátiḥ ǀ vavṛdhate ǀ suvṛktí-bhiḥ ǀ
ajáḥ ǀ éka-pāt ǀ su-hávebhiḥ ǀ ṛ́kva-bhiḥ ǀ áhiḥ ǀ śṛṇotu ǀ budhnyáḥ ǀ hávīmani ǁkathā ǀ kaviḥ ǀ tuvi-ravān ǀ kayā ǀ girā ǀ bṛhaspatiḥ ǀ vavṛdhate ǀ suvṛkti-bhiḥ ǀ
ajaḥ ǀ eka-pāt ǀ su-havebhiḥ ǀ ṛkva-bhiḥ ǀ ahiḥ ǀ śṛṇotu ǀ budhnyaḥ ǀ havīmani ǁ10.64.4 Aṣṭaka 8.2.6.4Anuvāka 10.5.59
-
Ṛk 5
दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
अतू॑र्तपंथाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि |
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ||dákṣasya vādite jánmani vraté rā́jānā mitrā́váruṇā́ vivāsasi ǀ
átūrtapanthāḥ pururátho aryamā́ saptáhotā víṣurūpeṣu jánmasu ǁdakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi |
atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu ||दक्ष॑स्य । वा॒ । अ॒दि॒ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा । आ । वि॒वा॒स॒सि॒ ।
अतू॑र्तऽपन्थाः । पु॒रु॒ऽरथः॑ । अ॒र्य॒मा । स॒प्तऽहो॑ता । विषु॑ऽरूपेषु । जन्म॑ऽसु ॥दक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । आ । विवाससि ।
अतूर्तऽपन्थाः । पुरुऽरथः । अर्यमा । सप्तऽहोता । विषुऽरूपेषु । जन्मऽसु ॥dákṣasya ǀ vā ǀ adite ǀ jánmani ǀ vraté ǀ rā́jānā ǀ mitrā́váruṇā ǀ ā́ ǀ vivāsasi ǀ
átūrta-panthāḥ ǀ puru-ráthaḥ ǀ aryamā́ ǀ saptá-hotā ǀ víṣu-rūpeṣu ǀ jánma-su ǁdakṣasya ǀ vā ǀ adite ǀ janmani ǀ vrate ǀ rājānā ǀ mitrāvaruṇā ǀ ā ǀ vivāsasi ǀ
atūrta-panthāḥ ǀ puru-rathaḥ ǀ aryamā ǀ sapta-hotā ǀ viṣu-rūpeṣu ǀ janma-su ǁ10.64.5 Aṣṭaka 8.2.6.5Anuvāka 10.5.60
-
Ṛk 6
ते नो॒ अर्वं॑तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वंतु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः |
सहस्रसा मेधसाताव् इव त्मना महो ये धनं समिथेषु जभ्रिरे ||té no árvanto havanaśrúto hávam víśve śṛṇvantu vājíno mitádravaḥ ǀ
sahasrasā́ medhásātāviva tmánā mahó yé dhánam samithéṣu jabhriré ǁte no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ |
sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire ||ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः ।
स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥ते । नः । अर्वन्तः । हवनऽश्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मितऽद्रवः ।
सहस्रऽसाः । मेधसातौऽइव । त्मना । महः । ये । धनम् । सम्ऽइथेषु । जभ्रिरे ॥té ǀ naḥ ǀ árvantaḥ ǀ havana-śrútaḥ ǀ hávam ǀ víśve ǀ śṛṇvantu ǀ vājínaḥ ǀ mitá-dravaḥ ǀ
sahasra-sā́ḥ ǀ medhásātau-iva ǀ tmánā ǀ maháḥ ǀ yé ǀ dhánam ǀ sam-ithéṣu ǀ jabhriré ǁte ǀ naḥ ǀ arvantaḥ ǀ havana-śrutaḥ ǀ havam ǀ viśve ǀ śṛṇvantu ǀ vājinaḥ ǀ mita-dravaḥ ǀ
sahasra-sāḥ ǀ medhasātau-iva ǀ tmanā ǀ mahaḥ ǀ ye ǀ dhanam ǀ sam-itheṣu ǀ jabhrire ǁ10.64.6 Aṣṭaka 8.2.7.1Anuvāka 10.5.61
-
Ṛk 7
प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षणं॑ ।
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सचं॑ते स॒चितः॒ सचे॑तसः ॥प्र वो वायुं रथयुजम् पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् |
ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ||prá vo vāyúm rathayújam púraṃdhim stómaiḥ kṛṇudhvam sakhyā́ya pūṣáṇam ǀ
té hí devásya savitúḥ sávīmani krátum sácante sacítaḥ sácetasaḥ ǁpra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam |
te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ ||प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् ।
ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥प्र । वः । वायुम् । रथऽयुजम् । पुरम्ऽधिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् ।
ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । सऽचितः । सऽचेतसः ॥prá ǀ vaḥ ǀ vāyúm ǀ ratha-yújam ǀ púram-dhim ǀ stómaiḥ ǀ kṛṇudhvam ǀ sakhyā́ya ǀ pūṣáṇam ǀ
té ǀ hí ǀ devásya ǀ savitúḥ ǀ sávīmani ǀ krátum ǀ sácante ǀ sa-cítaḥ ǀ sá-cetasaḥ ǁpra ǀ vaḥ ǀ vāyum ǀ ratha-yujam ǀ puram-dhim ǀ stomaiḥ ǀ kṛṇudhvam ǀ sakhyāya ǀ pūṣaṇam ǀ
te ǀ hi ǀ devasya ǀ savituḥ ǀ savīmani ǀ kratum ǀ sacante ǀ sa-citaḥ ǀ sa-cetasaḥ ǁ10.64.7 Aṣṭaka 8.2.7.2Anuvāka 10.5.62
-
Ṛk 8
त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
कृ॒शानु॒मस्तॄं॑ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥त्रिः सप्त सस्रा नद्यो महीर् अपो वनस्पतीन् पर्वतां अग्निम् ऊतये |
कृशानुम् अस्तॄन् तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ||tríḥ saptá sasrā́ nadyó mahī́rapó vánaspátīnpárvatām̐ agnímūtáye ǀ
kṛśā́numástṝntiṣyám sadhástha ā́ rudrám rudréṣu rudríyam havāmahe ǁtriḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṃ agnim ūtaye |
kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe ||त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॑न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ ।
कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये ।
कृशानुम् । अस्तॄन् । तिष्यम् । सधऽस्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे ॥tríḥ ǀ saptá ǀ sasrā́ḥ ǀ nadyáḥ ǀ mahī́ḥ ǀ apáḥ ǀ vánaspátīn ǀ párvatān ǀ agním ǀ ūtáye ǀ
kṛśā́num ǀ ástṝn ǀ tiṣyám ǀ sadhá-sthe ǀ ā́ ǀ rudrám ǀ rudréṣu ǀ rudríyam ǀ havāmahe ǁtriḥ ǀ sapta ǀ sasrāḥ ǀ nadyaḥ ǀ mahīḥ ǀ apaḥ ǀ vanaspatīn ǀ parvatān ǀ agnim ǀ ūtaye ǀ
kṛśānum ǀ astṝn ǀ tiṣyam ǀ sadha-sthe ǀ ā ǀ rudram ǀ rudreṣu ǀ rudriyam ǀ havāmahe ǁ10.64.8 Aṣṭaka 8.2.7.3Anuvāka 10.5.63
-
Ṛk 9
सर॑स्वती स॒रयुः॒ सिंधु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा यं॑तु॒ वक्ष॑णीः ।
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥सरस्वती सरयुः सिन्धुर् ऊर्मिभिर् महो महीर् अवसा यन्तु वक्षणीः |
देवीर् आपो मातरः सूदयित्न्वो घृतवत् पयो मधुमन् नो अर्चत ||sárasvatī saráyuḥ síndhurūrmíbhirmahó mahī́rávasā́ yantu vákṣaṇīḥ ǀ
devī́rā́po mātáraḥ sūdayitnvó ghṛtávatpáyo mádhumanno arcata ǁsarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ |
devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata ||सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । आ । य॒न्तु॒ । वक्ष॑णीः ।
दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥सरस्वती । सरयुः । सिन्धुः । ऊर्मिऽभिः । महः । महीः । अवसा । आ । यन्तु । वक्षणीः ।
देवीः । आपः । मातरः । सूदयित्न्वः । घृतऽवत् । पयः । मधुऽमत् । नः । अर्चत ॥sárasvatī ǀ saráyuḥ ǀ síndhuḥ ǀ ūrmí-bhiḥ ǀ maháḥ ǀ mahī́ḥ ǀ ávasā ǀ ā́ ǀ yantu ǀ vákṣaṇīḥ ǀ
devī́ḥ ǀ ā́paḥ ǀ mātáraḥ ǀ sūdayitnváḥ ǀ ghṛtá-vat ǀ páyaḥ ǀ mádhu-mat ǀ naḥ ǀ arcata ǁsarasvatī ǀ sarayuḥ ǀ sindhuḥ ǀ ūrmi-bhiḥ ǀ mahaḥ ǀ mahīḥ ǀ avasā ǀ ā ǀ yantu ǀ vakṣaṇīḥ ǀ
devīḥ ǀ āpaḥ ǀ mātaraḥ ǀ sūdayitnvaḥ ǀ ghṛta-vat ǀ payaḥ ǀ madhu-mat ǀ naḥ ǀ arcata ǁ10.64.9 Aṣṭaka 8.2.7.4Anuvāka 10.5.64
-
Ṛk 10
उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥उत माता बृहद्दिवा शृणोतु नस् त्वष्टा देवेभिर् जनिभिः पिता वचः |
ऋभुक्षा वाजो रथस्पतिर् भगो रण्वः शंसः शशमानस्य पातु नः ||utá mātā́ bṛhaddivā́ śṛṇotu nastváṣṭā devébhirjánibhiḥ pitā́ vácaḥ ǀ
ṛbhukṣā́ vā́jo ráthaspátirbhágo raṇváḥ śáṃsaḥ śaśamānásya pātu naḥ ǁuta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ |
ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ ||उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पि॒ता । वचः॑ ।
ऋ॒भु॒क्षाः । वाजः॑ । रथः॒पतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥उत । माता । बृहत्ऽदिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनिऽभिः । पिता । वचः ।
ऋभुक्षाः । वाजः । रथःपतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः ॥utá ǀ mātā́ ǀ bṛhat-divā́ ǀ śṛṇotu ǀ naḥ ǀ tváṣṭā ǀ devébhiḥ ǀ jáni-bhiḥ ǀ pitā́ ǀ vácaḥ ǀ
ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ ráthaḥpátiḥ ǀ bhágaḥ ǀ raṇváḥ ǀ śáṃsaḥ ǀ śaśamānásya ǀ pātu ǀ naḥ ǁuta ǀ mātā ǀ bṛhat-divā ǀ śṛṇotu ǀ naḥ ǀ tvaṣṭā ǀ devebhiḥ ǀ jani-bhiḥ ǀ pitā ǀ vacaḥ ǀ
ṛbhukṣāḥ ǀ vājaḥ ǀ rathaḥpatiḥ ǀ bhagaḥ ǀ raṇvaḥ ǀ śaṃsaḥ ǀ śaśamānasya ǀ pātu ǀ naḥ ǁ10.64.10 Aṣṭaka 8.2.7.5Anuvāka 10.5.65
-
Ṛk 11
र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणाम् मरुताम् उपस्तुतिः |
गोभिः ष्याम यशसो जनेष्व् आ सदा देवास इऌअया सचेमहि ||raṇváḥ sáṃdṛṣṭau pitumā́m̐ iva kṣáyo bhadrā́ rudrā́ṇām marútāmúpastutiḥ ǀ
góbhiḥ ṣyāma yaśáso jáneṣvā́ sádā devāsa íḷayā sacemahi ǁraṇvaḥ saṃdṛṣṭau pitumāṃ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ |
gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḷayā sacemahi ||र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः ।
गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपऽस्तुतिः ।
गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥raṇváḥ ǀ sám-dṛṣṭau ǀ pitumā́n-iva ǀ kṣáyaḥ ǀ bhadrā́ ǀ rudrā́ṇām ǀ marútām ǀ úpa-stutiḥ ǀ
góbhiḥ ǀ syāma ǀ yaśásaḥ ǀ jáneṣu ǀ ā́ ǀ sádā ǀ devāsaḥ ǀ íḷayā ǀ sacemahi ǁraṇvaḥ ǀ sam-dṛṣṭau ǀ pitumān-iva ǀ kṣayaḥ ǀ bhadrā ǀ rudrāṇām ǀ marutām ǀ upa-stutiḥ ǀ
gobhiḥ ǀ syāma ǀ yaśasaḥ ǀ janeṣu ǀ ā ǀ sadā ǀ devāsaḥ ǀ iḷayā ǀ sacemahi ǁ10.64.11 Aṣṭaka 8.2.8.1Anuvāka 10.5.66
-
Ṛk 12
यां मे॒ धियं॒ मरु॑त॒ इंद्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यं ।
तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥याम् मे धियम् मरुत इन्द्र देवा अददात वरुण मित्र यूयम् |
ताम् पीपयत पयसेव धेनुं कुविद् गिरो अधि रथे वहाथ ||yā́m me dhíyam máruta índra dévā ádadāta varuṇa mitra yūyám ǀ
tā́m pīpayata páyaseva dhenúm kuvídgíro ádhi ráthe váhātha ǁyām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam |
tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha ||यम् । मे॒ । धिय॑म् । मरु॑तः । इन्द्र॑ । देवाः॑ । अद॑दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।
ताम् । पी॒प॒य॒त॒ । पय॑साऽइव । धे॒नुम् । कु॒वित् । गिरः॑ । अधि॑ । रथे॑ । वहा॑थ ॥यम् । मे । धियम् । मरुतः । इन्द्र । देवाः । अददात । वरुण । मित्र । यूयम् ।
ताम् । पीपयत । पयसाऽइव । धेनुम् । कुवित् । गिरः । अधि । रथे । वहाथ ॥yám ǀ me ǀ dhíyam ǀ márutaḥ ǀ índra ǀ dévāḥ ǀ ádadāta ǀ varuṇa ǀ mitra ǀ yūyám ǀ
tā́m ǀ pīpayata ǀ páyasā-iva ǀ dhenúm ǀ kuvít ǀ gíraḥ ǀ ádhi ǀ ráthe ǀ váhātha ǁyam ǀ me ǀ dhiyam ǀ marutaḥ ǀ indra ǀ devāḥ ǀ adadāta ǀ varuṇa ǀ mitra ǀ yūyam ǀ
tām ǀ pīpayata ǀ payasā-iva ǀ dhenum ǀ kuvit ǀ giraḥ ǀ adhi ǀ rathe ǀ vahātha ǁ10.64.12 Aṣṭaka 8.2.8.2Anuvāka 10.5.67
-
Ṛk 13
कु॒विदं॒ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥कुविद् अङ्ग प्रति यथा चिद् अस्य नः सजात्यस्य मरुतो बुबोधथ |
नाभा यत्र प्रथमं संनसामहे तत्र जामित्वम् अदितिर् दधातु नः ||kuvídaṅgá práti yáthā cidasyá naḥ sajātyásya maruto búbodhatha ǀ
nā́bhā yátra prathamám saṃnásāmahe tátra jāmitvámáditirdadhātu naḥ ǁkuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha |
nābhā yatra prathamaṃ saṃnasāmahe tatra jāmitvam aditir dadhātu naḥ ||कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ ।
नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । सऽजात्यस्य । मरुतः । बुबोधथ ।
नाभा । यत्र । प्रथमम् । सम्ऽनसामहे । तत्र । जामिऽत्वम् । अदितिः । दधातु । नः ॥kuvít ǀ aṅgá ǀ práti ǀ yáthā ǀ cit ǀ asyá ǀ naḥ ǀ sa-jātyásya ǀ marutaḥ ǀ búbodhatha ǀ
nā́bhā ǀ yátra ǀ prathamám ǀ sam-násāmahe ǀ tátra ǀ jāmi-tvám ǀ áditiḥ ǀ dadhātu ǀ naḥ ǁkuvit ǀ aṅga ǀ prati ǀ yathā ǀ cit ǀ asya ǀ naḥ ǀ sa-jātyasya ǀ marutaḥ ǀ bubodhatha ǀ
nābhā ǀ yatra ǀ prathamam ǀ sam-nasāmahe ǀ tatra ǀ jāmi-tvam ǀ aditiḥ ǀ dadhātu ǀ naḥ ǁ10.64.13 Aṣṭaka 8.2.8.3Anuvāka 10.5.68
-
Ṛk 14
ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वांजन्म॑ना य॒ज्ञिये॑ इ॒तः ।
उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिंचतः ॥ते हि द्यावापृथिवी मातरा मही देवी देवाञ् जन्मना यज्ञिये इतः |
उभे बिभृत उभयम् भरीमभिः पुरू रेतांसि पितृभिश् च सिञ्चतः ||té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñjánmanā yajñíye itáḥ ǀ
ubhé bibhṛta ubháyam bhárīmabhiḥ purū́ rétāṃsi pitṛ́bhiśca siñcataḥ ǁte hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ |
ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ ||ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही इति॑ । दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः ।
उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥ते । हि । द्यावापृथिवी इति । मातरा । मही इति । देवी इति । देवान् । जन्मना । यज्ञिये इति । इतः ।
उभे इति । बिभृतः । उभयम् । भरीमऽभिः । पुरु । रेतांसि । पितृऽभिः । च । सिञ्चतः ॥té ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ mātárā ǀ mahī́ íti ǀ devī́ íti ǀ devā́n ǀ jánmanā ǀ yajñíye íti ǀ itáḥ ǀ
ubhé íti ǀ bibhṛtaḥ ǀ ubháyam ǀ bhárīma-bhiḥ ǀ purú ǀ rétāṃsi ǀ pitṛ́-bhiḥ ǀ ca ǀ siñcataḥ ǁte ǀ hi ǀ dyāvāpṛthivī iti ǀ mātarā ǀ mahī iti ǀ devī iti ǀ devān ǀ janmanā ǀ yajñiye iti ǀ itaḥ ǀ
ubhe iti ǀ bibhṛtaḥ ǀ ubhayam ǀ bharīma-bhiḥ ǀ puru ǀ retāṃsi ǀ pitṛ-bhiḥ ǀ ca ǀ siñcataḥ ǁ10.64.14 Aṣṭaka 8.2.8.4Anuvāka 10.5.69
-
Ṛk 15
वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशंत म॒तिभि॑र्मनी॒षिणः॑ ॥वि षा होत्रा विश्वम् अश्नोति वार्यम् बृहस्पतिर् अरमतिः पनीयसी |
ग्रावा यत्र मधुषुद् उच्यते बृहद् अवीवशन्त मतिभिर् मनीषिणः ||ví ṣā́ hótrā víśvamaśnoti vā́ryam bṛ́haspátirarámatiḥ pánīyasī ǀ
grā́vā yátra madhuṣúducyáte bṛhádávīvaśanta matíbhirmanīṣíṇaḥ ǁvi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī |
grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ ||वि । सा । होत्रा॑ । विश्व॑म् । अ॒श्नो॒ति॒ । वार्य॑म् । बृह॒स्पतिः॑ । अ॒रम॑तिः । पनी॑यसी ।
ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । अवी॑वशन्त । म॒तिऽभिः॑ । म॒नी॒षिणः॑ ॥वि । सा । होत्रा । विश्वम् । अश्नोति । वार्यम् । बृहस्पतिः । अरमतिः । पनीयसी ।
ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । अवीवशन्त । मतिऽभिः । मनीषिणः ॥ví ǀ sā́ ǀ hótrā ǀ víśvam ǀ aśnoti ǀ vā́ryam ǀ bṛ́haspátiḥ ǀ arámatiḥ ǀ pánīyasī ǀ
grā́vā ǀ yátra ǀ madhu-sút ǀ ucyáte ǀ bṛhát ǀ ávīvaśanta ǀ matí-bhiḥ ǀ manīṣíṇaḥ ǁvi ǀ sā ǀ hotrā ǀ viśvam ǀ aśnoti ǀ vāryam ǀ bṛhaspatiḥ ǀ aramatiḥ ǀ panīyasī ǀ
grāvā ǀ yatra ǀ madhu-sut ǀ ucyate ǀ bṛhat ǀ avīvaśanta ǀ mati-bhiḥ ǀ manīṣiṇaḥ ǁ10.64.15 Aṣṭaka 8.2.8.5Anuvāka 10.5.70
-
Ṛk 16
ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥एवा कविस् तुवीरवां ऋतज्ञा द्रविणस्युर् द्रविणसश् चकानः |
उक्थेभिर् अत्र मतिभिश् च विप्रो ऽपीपयद् गयो दिव्यानि जन्म ||evā́ kavístuvīrávām̐ ṛtajñā́ draviṇasyúrdráviṇasaścakānáḥ ǀ
ukthébhirátra matíbhiśca vípró’pīpayadgáyo divyā́ni jánma ǁevā kavis tuvīravāṃ ṛtajñā draviṇasyur draviṇasaś cakānaḥ |
ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma ||ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।
उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥एव । कविः । तुविऽरवान् । ऋतऽज्ञाः । द्रविणस्युः । द्रविणसः । चकानः ।
उक्थेभिः । अत्र । मतिऽभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥evá ǀ kavíḥ ǀ tuvi-rávān ǀ ṛta-jñā́ḥ ǀ draviṇasyúḥ ǀ dráviṇasaḥ ǀ cakānáḥ ǀ
ukthébhiḥ ǀ átra ǀ matí-bhiḥ ǀ ca ǀ vípraḥ ǀ ápīpayat ǀ gáyaḥ ǀ divyā́ni ǀ jánma ǁeva ǀ kaviḥ ǀ tuvi-ravān ǀ ṛta-jñāḥ ǀ draviṇasyuḥ ǀ draviṇasaḥ ǀ cakānaḥ ǀ
ukthebhiḥ ǀ atra ǀ mati-bhiḥ ǀ ca ǀ vipraḥ ǀ apīpayat ǀ gayaḥ ǀ divyāni ǀ janma ǁ10.64.16 Aṣṭaka 8.2.8.6Anuvāka 10.5.71
-
Ṛk 17
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी |
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ||evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ ǀ
īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ǁevā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
īśānāso naro amartyenāstāvi jano divyo gayena ||ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।
ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥evá ǀ platéḥ ǀ sūnúḥ ǀ avīvṛdhat ǀ vaḥ ǀ víśve ǀ ādityāḥ ǀ adite ǀ manīṣī́ ǀ
īśānā́saḥ ǀ náraḥ ǀ ámartyena ǀ ástāvi ǀ jánaḥ ǀ divyáḥ ǀ gáyena ǁeva ǀ plateḥ ǀ sūnuḥ ǀ avīvṛdhat ǀ vaḥ ǀ viśve ǀ ādityāḥ ǀ adite ǀ manīṣī ǀ
īśānāsaḥ ǀ naraḥ ǀ amartyena ǀ astāvi ǀ janaḥ ǀ divyaḥ ǀ gayena ǁ10.64.17 Aṣṭaka 8.2.8.7Anuvāka 10.5.72
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.