Ṛgveda · Maṇḍala 10

Sūkta 112

Indra · Nabhaḥprabhedana Vairūpa · 10 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Nabhaḥprabhedana Vairūpa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 4-6, 9, 10); virāṭtrisṭup (1, 3, 7, 8)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इंद्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
    हर्ष॑स्व॒ हंत॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥

    इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः |
    हर्षस्व हन्तवे शूर शत्रून् उक्थेभिष् टे वीर्या प्र ब्रवाम ||

    índra píba pratikāmám sutásya prātaḥsāvástáva hí pūrvápītiḥ ǀ
    hárṣasva hántave śūra śátrūnukthébhiṣṭe vīryā́ prá bravāma ǁ

    indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ |
    harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma ||

    इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः ।
    हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥

    इन्द्र । पिब । प्रतिऽकामम् । सुतस्य । प्रातःऽसावः । तव । हि । पूर्वऽपीतिः ।
    हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥

    índra ǀ píba ǀ prati-kāmám ǀ sutásya ǀ prātaḥ-sāváḥ ǀ táva ǀ hí ǀ pūrvá-pītiḥ ǀ
    hárṣasva ǀ hántave ǀ śūra ǀ śátrūn ǀ ukthébhiḥ ǀ te ǀ vīryā́ ǀ prá ǀ bravāma ǁ

    indra ǀ piba ǀ prati-kāmam ǀ sutasya ǀ prātaḥ-sāvaḥ ǀ tava ǀ hi ǀ pūrva-pītiḥ ǀ
    harṣasva ǀ hantave ǀ śūra ǀ śatrūn ǀ ukthebhiḥ ǀ te ǀ vīryā ǀ pra ǀ bravāma ǁ

    10.112.1 Aṣṭaka 8.6.12.1Anuvāka 10.9.133

  2. Ṛk 2

    यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेंद्र॒ तेन॑ सोम॒पेया॑य याहि ।
    तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वंतु॒ येभि॒र्यासि॒ वृष॑भि॒र्मंद॑मानः ॥

    यस् ते रथो मनसो जवीयान् एन्द्र तेन सोमपेयाय याहि |
    तूयम् आ ते हरयः प्र द्रवन्तु येभिर् यासि वृषभिर् मन्दमानः ||

    yáste rátho mánaso jávīyānéndra téna somapéyāya yāhi ǀ
    tū́yamā́ te hárayaḥ prá dravantu yébhiryā́si vṛ́ṣabhirmándamānaḥ ǁ

    yas te ratho manaso javīyān endra tena somapeyāya yāhi |
    tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ ||

    यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ ।
    तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥

    यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमऽपेयाय । याहि ।
    तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषऽभिः । मन्दमानः ॥

    yáḥ ǀ te ǀ ráthaḥ ǀ mánasaḥ ǀ jávīyān ǀ ā́ ǀ indra ǀ téna ǀ soma-péyāya ǀ yāhi ǀ
    tū́yam ǀ ā́ ǀ te ǀ hárayaḥ ǀ prá ǀ dravantu ǀ yébhiḥ ǀ yā́si ǀ vṛ́ṣa-bhiḥ ǀ mándamānaḥ ǁ

    yaḥ ǀ te ǀ rathaḥ ǀ manasaḥ ǀ javīyān ǀ ā ǀ indra ǀ tena ǀ soma-peyāya ǀ yāhi ǀ
    tūyam ǀ ā ǀ te ǀ harayaḥ ǀ pra ǀ dravantu ǀ yebhiḥ ǀ yāsi ǀ vṛṣa-bhiḥ ǀ mandamānaḥ ǁ

    10.112.2 Aṣṭaka 8.6.12.2Anuvāka 10.9.134

  3. Ṛk 3

    हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
    अ॒स्माभि॑रिंद्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥

    हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस् तन्वं स्पर्शयस्व |
    अस्माभिर् इन्द्र सखिभिर् हुवानः सध्रीचीनो मादयस्वा निषद्य ||

    háritvatā várcasā sū́ryasya śréṣṭhai rūpáistanvám sparśayasva ǀ
    asmā́bhirindra sákhibhirhuvānáḥ sadhrīcīnó mādayasvā niṣádya ǁ

    haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva |
    asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya ||

    हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ ।
    अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥

    हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व ।
    अस्माभिः । इन्द्र । सखिऽभिः । हुवानः । सध्रीचीनः । मादयस्व । निऽसद्य ॥

    háritvatā ǀ várcasā ǀ sū́ryasya ǀ śréṣṭhaiḥ ǀ rūpáiḥ ǀ tanvám ǀ sparśayasva ǀ
    asmā́bhiḥ ǀ indra ǀ sákhi-bhiḥ ǀ huvānáḥ ǀ sadhrīcīnáḥ ǀ mādayasva ǀ ni-sádya ǁ

    haritvatā ǀ varcasā ǀ sūryasya ǀ śreṣṭhaiḥ ǀ rūpaiḥ ǀ tanvam ǀ sparśayasva ǀ
    asmābhiḥ ǀ indra ǀ sakhi-bhiḥ ǀ huvānaḥ ǀ sadhrīcīnaḥ ǀ mādayasva ǀ ni-sadya ǁ

    10.112.3 Aṣṭaka 8.6.12.3Anuvāka 10.9.135

  4. Ṛk 4

    यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्तां ।
    तदोक॒ आ हरि॑भिरिंद्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥

    यस्य त्यत् ते महिमानम् मदेष्व् इमे मही रोदसी नाविविक्ताम् |
    तद् ओक आ हरिभिर् इन्द्र युक्तैः प्रियेभिर् याहि प्रियम् अन्नम् अच्छ ||

    yásya tyátte mahimā́nam mádeṣvimé mahī́ ródasī nā́viviktām ǀ
    tádóka ā́ háribhirindra yuktáiḥ priyébhiryāhi priyámánnamáccha ǁ

    yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām |
    tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha ||

    यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।
    तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥

    यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् ।
    तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥

    yásya ǀ tyát ǀ te ǀ mahimā́nam ǀ mádeṣu ǀ imé íti ǀ mahī́ íti ǀ ródasī íti ǀ ná ǀ áviviktām ǀ
    tát ǀ ókaḥ ǀ ā́ ǀ hári-bhiḥ ǀ indra ǀ yuktáiḥ ǀ priyébhiḥ ǀ yāhi ǀ priyám ǀ ánnam ǀ áccha ǁ

    yasya ǀ tyat ǀ te ǀ mahimānam ǀ madeṣu ǀ ime iti ǀ mahī iti ǀ rodasī iti ǀ na ǀ aviviktām ǀ
    tat ǀ okaḥ ǀ ā ǀ hari-bhiḥ ǀ indra ǀ yuktaiḥ ǀ priyebhiḥ ǀ yāhi ǀ priyam ǀ annam ǀ accha ǁ

    10.112.4 Aṣṭaka 8.6.12.4Anuvāka 10.9.136

  5. Ṛk 5

    यस्य॒ शश्व॑त्पपि॒वाँ इं॑द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
    स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इं॑द्र॒ सोमः॑ ॥

    यस्य शश्वत् पपिवां इन्द्र शत्रून् अनानुकृत्या रण्या चकर्थ |
    स ते पुरन्धिं तविषीम् इयर्ति स ते मदाय सुत इन्द्र सोमः ||

    yásya śáśvatpapivā́m̐ indra śátrūnanānukṛtyā́ ráṇyā cakártha ǀ
    sá te púraṃdhim táviṣīmiyarti sá te mádāya sutá indra sómaḥ ǁ

    yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha |
    sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ ||

    यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।
    सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥

    यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ ।
    सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥

    yásya ǀ śáśvat ǀ papi-vā́n ǀ indra ǀ śátrūn ǀ ananu-kṛtyā́ ǀ ráṇyā ǀ cakártha ǀ
    sáḥ ǀ te ǀ púram-dhim ǀ táviṣīm ǀ iyarti ǀ sáḥ ǀ te ǀ mádāya ǀ sutáḥ ǀ indra ǀ sómaḥ ǁ

    yasya ǀ śaśvat ǀ papi-vān ǀ indra ǀ śatrūn ǀ ananu-kṛtyā ǀ raṇyā ǀ cakartha ǀ
    saḥ ǀ te ǀ puram-dhim ǀ taviṣīm ǀ iyarti ǀ saḥ ǀ te ǀ madāya ǀ sutaḥ ǀ indra ǀ somaḥ ǁ

    10.112.5 Aṣṭaka 8.6.12.5Anuvāka 10.9.137

  6. Ṛk 6

    इ॒दं ते॒ पात्रं॒ सन॑वित्तमिंद्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
    पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्यं॑ति दे॒वाः ॥

    इदं ते पात्रं सनवित्तम् इन्द्र पिबा सोमम् एना शतक्रतो |
    पूर्ण आहावो मदिरस्य मध्वो यं विश्व इद् अभिहर्यन्ति देवाः ||

    idám te pā́tram sánavittamindra píbā sómamenā́ śatakrato ǀ
    pūrṇá āhāvó madirásya mádhvo yám víśva ídabhiháryanti devā́ḥ ǁ

    idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato |
    pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ ||

    इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
    पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥

    इदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो ।
    पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥

    idám ǀ te ǀ pā́tram ǀ sána-vittam ǀ indra ǀ píba ǀ sómam ǀ enā́ ǀ śatakrato íti śata-krato ǀ
    pūrṇáḥ ǀ ā-hāváḥ ǀ madirásya ǀ mádhvaḥ ǀ yám ǀ víśve ǀ ít ǀ abhi-háryanti ǀ devā́ḥ ǁ

    idam ǀ te ǀ pātram ǀ sana-vittam ǀ indra ǀ piba ǀ somam ǀ enā ǀ śatakrato iti śata-krato ǀ
    pūrṇaḥ ǀ ā-hāvaḥ ǀ madirasya ǀ madhvaḥ ǀ yam ǀ viśve ǀ it ǀ abhi-haryanti ǀ devāḥ ǁ

    10.112.6 Aṣṭaka 8.6.13.1Anuvāka 10.9.138

  7. Ṛk 7

    वि हि त्वामिं॑द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वयं॑ते ।
    अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥

    वि हि त्वाम् इन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते |
    अस्माकं ते मधुमत्तमानीमा भुवन् सवना तेषु हर्य ||

    ví hí tvā́mindra purudhā́ jánāso hitáprayaso vṛṣabha hváyante ǀ
    asmā́kam te mádhumattamānīmā́ bhuvantsávanā téṣu harya ǁ

    vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante |
    asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya ||

    वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते ।
    अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥

    वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितऽप्रयसः । वृषभ । ह्वयन्ते ।
    अस्माकम् । ते । मधुमत्ऽतमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥

    ví ǀ hí ǀ tvā́m ǀ indra ǀ purudhā́ ǀ jánāsaḥ ǀ hitá-prayasaḥ ǀ vṛṣabha ǀ hváyante ǀ
    asmā́kam ǀ te ǀ mádhumat-tamāni ǀ imā́ ǀ bhuvan ǀ sávanā ǀ téṣu ǀ harya ǁ

    vi ǀ hi ǀ tvām ǀ indra ǀ purudhā ǀ janāsaḥ ǀ hita-prayasaḥ ǀ vṛṣabha ǀ hvayante ǀ
    asmākam ǀ te ǀ madhumat-tamāni ǀ imā ǀ bhuvan ǀ savanā ǀ teṣu ǀ harya ǁ

    10.112.7 Aṣṭaka 8.6.13.2Anuvāka 10.9.139

  8. Ṛk 8

    प्र त॑ इंद्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।
    स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गां ॥

    प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचम् प्रथमा कृतानि |
    सतीनमन्युर् अश्रथायो अद्रिं सुवेदनाम् अकृणोर् ब्रह्मणे गाम् ||

    prá ta indra pūrvyā́ṇi prá nūnám vīryā́ vocam prathamā́ kṛtā́ni ǀ
    satīnámanyuraśrathāyo ádrim suvedanā́makṛṇorbráhmaṇe gā́m ǁ

    pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni |
    satīnamanyur aśrathāyo adriṃ suvedanām akṛṇor brahmaṇe gām ||

    प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ ।
    स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥

    प्र । ते । इन्द्र । पूर्व्याणि । प्र । नूनम् । वीर्या । वोचम् । प्रथमा । कृतानि ।
    सतीनऽमन्युः । अश्रथयः । अद्रिम् । सुऽवेदनाम् । अकृणोः । ब्रह्मणे । गाम् ॥

    prá ǀ te ǀ indra ǀ pūrvyā́ṇi ǀ prá ǀ nūnám ǀ vīryā́ ǀ vocam ǀ prathamā́ ǀ kṛtā́ni ǀ
    satīná-manyuḥ ǀ aśrathayaḥ ǀ ádrim ǀ su-vedanā́m ǀ akṛṇoḥ ǀ bráhmaṇe ǀ gā́m ǁ

    pra ǀ te ǀ indra ǀ pūrvyāṇi ǀ pra ǀ nūnam ǀ vīryā ǀ vocam ǀ prathamā ǀ kṛtāni ǀ
    satīna-manyuḥ ǀ aśrathayaḥ ǀ adrim ǀ su-vedanām ǀ akṛṇoḥ ǀ brahmaṇe ǀ gām ǁ

    10.112.8 Aṣṭaka 8.6.13.3Anuvāka 10.9.140

  9. Ṛk 9

    नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नां ।
    न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥

    नि षु सीद गणपते गणेषु त्वाम् आहुर् विप्रतमं कवीनाम् |
    न ऋते त्वत् क्रियते किं चनारे महाम् अर्कम् मघवञ् चित्रम् अर्च ||

    ní ṣú sīda gaṇapate gaṇéṣu tvā́māhurvípratamam kavīnā́m ǀ
    ná ṛté tvátkriyate kím canā́ré mahā́markám maghavañcitrámarca ǁ

    ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām |
    na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca ||

    नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।
    न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥

    नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् ।
    न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥

    ní ǀ sú ǀ sīda ǀ gaṇa-pate ǀ gaṇéṣu ǀ tvā́m ǀ āhuḥ ǀ vípra-tamam ǀ kavīnā́m ǀ
    ná ǀ ṛté ǀ tvát ǀ kriyate ǀ kím ǀ caná ǀ āré ǀ mahā́m ǀ arkám ǀ magha-van ǀ citrám ǀ arca ǁ

    ni ǀ su ǀ sīda ǀ gaṇa-pate ǀ gaṇeṣu ǀ tvām ǀ āhuḥ ǀ vipra-tamam ǀ kavīnām ǀ
    na ǀ ṛte ǀ tvat ǀ kriyate ǀ kim ǀ cana ǀ āre ǀ mahām ǀ arkam ǀ magha-van ǀ citram ǀ arca ǁ

    10.112.9 Aṣṭaka 8.6.13.4Anuvāka 10.9.141

  10. Ṛk 10

    अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नां ।
    रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥

    अभिख्या नो मघवन् नाधमानान् सखे बोधि वसुपते सखीनाम् |
    रणं कृधि रणकृत् सत्यशुष्माभक्ते चिद् आ भजा राये अस्मान् ||

    abhikhyā́ no maghavannā́dhamānāntsákhe bodhí vasupate sákhīnām ǀ
    ráṇam kṛdhi raṇakṛtsatyaśuṣmā́bhakte cidā́ bhajā rāyé asmā́n ǁ

    abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām |
    raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān ||

    अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् ।
    रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥

    अभिऽख्या । नः । मघऽवन् । नाधमानान् । सखे । बोधि । वसुऽपते । सखीनाम् ।
    रणम् । कृधि । रणऽकृत् । सत्यऽशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥

    abhi-khyā́ ǀ naḥ ǀ magha-van ǀ nā́dhamānān ǀ sákhe ǀ bodhí ǀ vasu-pate ǀ sákhīnām ǀ
    ráṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ ábhakte ǀ cit ǀ ā́ ǀ bhaja ǀ rāyé ǀ asmā́n ǁ

    abhi-khyā ǀ naḥ ǀ magha-van ǀ nādhamānān ǀ sakhe ǀ bodhi ǀ vasu-pate ǀ sakhīnām ǀ
    raṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ abhakte ǀ cit ǀ ā ǀ bhaja ǀ rāye ǀ asmān ǁ

    10.112.10 Aṣṭaka 8.6.13.5Anuvāka 10.9.142

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.112 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

DRINK of the juice, O Indra, at thy plea. sure, for thy first draught is early morn's libation. Rejoice, that thou mayst slay our foes, O Hero, and we with lauds will tell thy mighty exploits.

Ṛk 2

Thou hast a car more swift than thought, O Indra; thercon come hither, come to drink the Soma. Let thy Bay Steeds, thy Stallions, hasten hither, with whom thou cornest nigh and art delighted.

Ṛk 3

Deck out thy body with the fairest colours, with golden splendour of the Sun adorn it. O Indra, turn thee hitherward invited by us thy friends; be seated and be joyful.

Ṛk 4

O thou whose grandeur in thy festive transports not even these two great worlds have comprehended. Come, Indra, with thy dear Bay Horses harnessed, come to our dwelling and the food thou lovest.

Ṛk 5

Pressed for thy joyous banquet is the Soma, Soma whereof thou, Indra, ever drinking, Hast waged unequalled battles with thy foemen, which prompts the mighty flow of thine abundance.

Ṛk 6

Found from of old is this thy cup, O Indra: Śatakratu, drink therefrom the Soma. Filled is the beaker with the meath that gladdens, the beaker which all Deities delight in.

Ṛk 7

From many a side with proffered entertainment the folk are calling thee, O Mighty Indra. These our libations shall for thee be richest in sweet meath: dvink thereof and find them pleasant.

Ṛk 8

I will declare thy deeds of old, O Indra, the mighty acts which thou hast first accomplished. In genuine wrath thou loosenedst the mountain so that the Brahman easily found the cattle.

Ṛk 9

Lord of the hosts, amid our bands be seated: they call thee greatest Sage among the sages. Nothing is done, even far away, without thee: great, wondrous, Maghavan, is the hymn I sing thee.