Sūkta 33
- Devatā देवता
- 1, 2, 4-9: Viśvedevās; 3: Indra
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles gāyatrī (4-7, 9); triṣṭup (1); nicṛdbṛhatī (2); bhurigbṛhatī (3); gāyatrī (pādanicṛdgāyatrī) (8)
2nd set of styles gāyatrī (4-9); triṣṭubh (1); bṛhatī (2); satobṛhatī (3)
-
Ṛk 1
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मंत॑रेण ।
विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षंदुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणम् अन्तरेण |
विश्वे देवासो अध माम् अरक्षन् दुःशासुर् आगाद् इति घोष आसीत् ||prá mā yuyujre prayújo jánānām váhāmi sma pūṣáṇamántareṇa ǀ
víśve devā́so ádha mā́marakṣanduḥśā́surā́gādíti ghóṣa āsīt ǁpra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa |
viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt ||प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण ।
विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण ।
विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥prá ǀ mā ǀ yuyujre ǀ pra-yújaḥ ǀ jánānām ǀ váhāmi ǀ sma ǀ pūṣáṇam ǀ ántareṇa ǀ
víśve ǀ devā́saḥ ǀ ádha ǀ mā́m ǀ arakṣan ǀ duḥ-śā́suḥ ǀ ā́ ǀ agāt ǀ íti ǀ ghóṣaḥ ǀ āsīt ǁpra ǀ mā ǀ yuyujre ǀ pra-yujaḥ ǀ janānām ǀ vahāmi ǀ sma ǀ pūṣaṇam ǀ antareṇa ǀ
viśve ǀ devāsaḥ ǀ adha ǀ mām ǀ arakṣan ǀ duḥ-śāsuḥ ǀ ā ǀ agāt ǀ iti ǀ ghoṣaḥ ǀ āsīt ǁ10.33.1 Aṣṭaka 7.8.1.1Anuvāka 10.3.36
-
Ṛk 2
सं मा॑ तपंत्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः |
नि बाधते अमतिर् नग्नता जसुर् वेर् न वेवीयते मतिः ||sám mā tapantyabhítaḥ sapátnīriva párśavaḥ ǀ
ní bādhate ámatirnagnátā jásurvérná vevīyate matíḥ ǁsam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ ||सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।
नि । बाधते । अमतिः । नग्नता । जसुः । वेः । न । वेवीयते । मतिः ॥sám ǀ mā ǀ tapanti ǀ abhítaḥ ǀ sapátnīḥ-iva ǀ párśavaḥ ǀ
ní ǀ bādhate ǀ ámatiḥ ǀ nagnátā ǀ jásuḥ ǀ véḥ ǀ ná ǀ vevīyate ǀ matíḥ ǁsam ǀ mā ǀ tapanti ǀ abhitaḥ ǀ sapatnīḥ-iva ǀ parśavaḥ ǀ
ni ǀ bādhate ǀ amatiḥ ǀ nagnatā ǀ jasuḥ ǀ veḥ ǀ na ǀ vevīyate ǀ matiḥ ǁ10.33.2 Aṣṭaka 7.8.1.2Anuvāka 10.3.37
-
Ṛk 3
मूषो॒ न शि॒श्ना व्य॑दंति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो ।
स॒कृत्सु नो॑ मघवन्निंद्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो |
सकृत् सु नो मघवन्न् इन्द्र मृऌअयाधा पितेव नो भव ||mū́ṣo ná śiśnā́ vyádanti mādhyáḥ stotā́ram te śatakrato ǀ
sakṛ́tsú no maghavannindra mṛḷayā́dhā pitéva no bhava ǁmūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato |
sakṛt su no maghavann indra mṛḷayādhā piteva no bhava ||मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतक्रतो इति शतऽक्रतो ।
सकृत् । सु । नः । मघऽवन् । इन्द्र । मृळय । अध । पिताऽइव । नः । भव ॥mū́ṣaḥ ǀ ná ǀ śiśnā́ ǀ ví ǀ adanti ǀ mā ǀ ā-dhyáḥ ǀ stotā́ram ǀ te ǀ śatakrato íti śata-krato ǀ
sakṛ́t ǀ sú ǀ naḥ ǀ magha-van ǀ indra ǀ mṛḷaya ǀ ádha ǀ pitā́-iva ǀ naḥ ǀ bhava ǁmūṣaḥ ǀ na ǀ śiśnā ǀ vi ǀ adanti ǀ mā ǀ ā-dhyaḥ ǀ stotāram ǀ te ǀ śatakrato iti śata-krato ǀ
sakṛt ǀ su ǀ naḥ ǀ magha-van ǀ indra ǀ mṛḷaya ǀ adha ǀ pitā-iva ǀ naḥ ǀ bhava ǁ10.33.3 Aṣṭaka 7.8.1.3Anuvāka 10.3.38
-
Ṛk 4
कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवं ।
मंहि॑ष्ठं वा॒घता॒मृषिः॑ ॥कुरुश्रवणम् आवृणि राजानं त्रासदस्यवम् |
मंहिष्ठं वाघताम् ऋषिः ||kuruśrávaṇamāvṛṇi rā́jānam trā́sadasyavam ǀ
máṃhiṣṭham vāghátāmṛ́ṣiḥ ǁkuruśravaṇam āvṛṇi rājānaṃ trāsadasyavam |
maṃhiṣṭhaṃ vāghatām ṛṣiḥ ||कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् ।
मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥कुरुऽश्रवणम् । अवृणि । राजानम् । त्रासदस्यवम् ।
मंहिष्ठम् । वाघताम् । ऋषिः ॥kuru-śrávaṇam ǀ avṛṇi ǀ rā́jānam ǀ trā́sadasyavam ǀ
máṃhiṣṭham ǀ vāghátām ǀ ṛ́ṣiḥ ǁkuru-śravaṇam ǀ avṛṇi ǀ rājānam ǀ trāsadasyavam ǀ
maṃhiṣṭham ǀ vāghatām ǀ ṛṣiḥ ǁ10.33.4 Aṣṭaka 7.8.1.4Anuvāka 10.3.39
-
Ṛk 5
यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वहं॑ति साधु॒या ।
स्तवै॑ स॒हस्र॑दक्षिणे ॥यस्य मा हरितो रथे तिस्रो वहन्ति साधुया |
स्तवै सहस्रदक्षिणे ||yásya mā haríto ráthe tisró váhanti sādhuyā́ ǀ
stávai sahásradakṣiṇe ǁyasya mā harito rathe tisro vahanti sādhuyā |
stavai sahasradakṣiṇe ||यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया ।
स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥यस्य । मा । हरितः । रथे । तिस्रः । वहन्ति । साधुऽया ।
स्तवै । सहस्रऽदक्षिणे ॥yásya ǀ mā ǀ harítaḥ ǀ ráthe ǀ tisráḥ ǀ váhanti ǀ sādhu-yā́ ǀ
stávai ǀ sahásra-dakṣiṇe ǁyasya ǀ mā ǀ haritaḥ ǀ rathe ǀ tisraḥ ǀ vahanti ǀ sādhu-yā ǀ
stavai ǀ sahasra-dakṣiṇe ǁ10.33.5 Aṣṭaka 7.8.1.5Anuvāka 10.3.40
-
Ṛk 6
यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।
क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥यस्य प्रस्वादसो गिर उपमश्रवसः पितुः |
क्षेत्रं न रण्वम् ऊचुषे ||yásya prásvādaso gíra upamáśravasaḥ pitúḥ ǀ
kṣétram ná raṇvámūcúṣe ǁyasya prasvādaso gira upamaśravasaḥ pituḥ |
kṣetraṃ na raṇvam ūcuṣe ||यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः ।
क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥यस्य । प्रऽस्वादसः । गिरः । उपमऽश्रवसः । पितुः ।
क्षेत्रम् । न । रण्वम् । ऊचुषे ॥yásya ǀ prá-svādasaḥ ǀ gíraḥ ǀ upamá-śravasaḥ ǀ pitúḥ ǀ
kṣétram ǀ ná ǀ raṇvám ǀ ūcúṣe ǁyasya ǀ pra-svādasaḥ ǀ giraḥ ǀ upama-śravasaḥ ǀ pituḥ ǀ
kṣetram ǀ na ǀ raṇvam ǀ ūcuṣe ǁ10.33.6 Aṣṭaka 7.8.2.1Anuvāka 10.3.41
-
Ṛk 7
अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।
पि॒तुष्टे॑ अस्मि वंदि॒ता ॥अधि पुत्रोपमश्रवो नपान् मित्रातिथेर् इहि |
पितुष् टे अस्मि वन्दिता ||ádhi putropamaśravo nápānmitrātitherihi ǀ
pitúṣṭe asmi vanditā́ ǁadhi putropamaśravo napān mitrātither ihi |
pituṣ ṭe asmi vanditā ||अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ ।
पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥अधि । पुत्र । उपमऽश्रवः । नपात् । मित्रऽअतिथेः । इहि ।
पितुः । ते । अस्मि । वन्दिता ॥ádhi ǀ putra ǀ upama-śravaḥ ǀ nápāt ǀ mitra-atitheḥ ǀ ihi ǀ
pitúḥ ǀ te ǀ asmi ǀ vanditā́ ǁadhi ǀ putra ǀ upama-śravaḥ ǀ napāt ǀ mitra-atitheḥ ǀ ihi ǀ
pituḥ ǀ te ǀ asmi ǀ vanditā ǁ10.33.7 Aṣṭaka 7.8.2.2Anuvāka 10.3.42
-
Ṛk 8
यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नां ।
जीवे॒दिन्म॒घवा॒ मम॑ ॥यद् ईशीयामृतानाम् उत वा मर्त्यानाम् |
जीवेद् इन् मघवा मम ||yádī́śīyāmṛ́tānāmutá vā mártyānām ǀ
jī́vedínmaghávā máma ǁyad īśīyāmṛtānām uta vā martyānām |
jīved in maghavā mama ||यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् ।
जीवे॑त् । इत् । म॒घऽवा॑ । मम॑ ॥यत् । ईशीय । अमृतानाम् । उत । वा । मर्त्यानाम् ।
जीवेत् । इत् । मघऽवा । मम ॥yát ǀ ī́śīya ǀ amṛ́tānām ǀ utá ǀ vā ǀ mártyānām ǀ
jī́vet ǀ ít ǀ maghá-vā ǀ máma ǁyat ǀ īśīya ǀ amṛtānām ǀ uta ǀ vā ǀ martyānām ǀ
jīvet ǀ it ǀ magha-vā ǀ mama ǁ10.33.8 Aṣṭaka 7.8.2.3Anuvāka 10.3.43
-
Ṛk 9
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।
तथा॑ यु॒जा वि वा॑वृते ॥न देवानाम् अति व्रतं शतात्मा चन जीवति |
तथा युजा वि वावृते ||ná devā́nāmáti vratám śatā́tmā caná jīvati ǀ
táthā yujā́ ví vāvṛte ǁna devānām ati vrataṃ śatātmā cana jīvati |
tathā yujā vi vāvṛte ||न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ ।
तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥न । देवानाम् । अति । व्रतम् । शतऽआत्मा । चन । जीवति ।
तथा । युजा । वि । ववृते ॥ná ǀ devā́nām ǀ áti ǀ vratám ǀ śatá-ātmā ǀ caná ǀ jīvati ǀ
táthā ǀ yujā́ ǀ ví ǀ vavṛte ǁna ǀ devānām ǀ ati ǀ vratam ǀ śata-ātmā ǀ cana ǀ jīvati ǀ
tathā ǀ yujā ǀ vi ǀ vavṛte ǁ10.33.9 Aṣṭaka 7.8.2.4Anuvāka 10.3.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.