Ṛgveda · Maṇḍala 10

Sūkta 98

Devās · Devāpi Ārṣṭiṣeṇa · 12 ṛks

Link
Devatā देवता
Devās
Ṛṣi ऋषि
Devāpi Ārṣṭiṣeṇa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 6, 8, 11, 12); bhuriktriṣṭup (1, 7); triṣṭup (3, 5); virāṭtrisṭup (4, 10); pādanicṛttriṣṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।
    आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥

    बृहस्पते प्रति मे देवताम् इहि मित्रो वा यद् वरुणो वासि पूषा |
    आदित्यैर् वा यद् वसुभिर् मरुत्वान् स पर्जन्यं शन्तनवे वृषाय ||

    bṛ́haspate práti me devátāmihi mitró vā yádváruṇo vā́si pūṣā́ ǀ
    ādityáirvā yádvásubhirmarútvāntsá parjányam śáṃtanave vṛṣāya ǁ

    bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā |
    ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya ||

    बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । असि॑ । पू॒षा ।
    आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥

    बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा ।
    आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥

    bṛ́haspate ǀ práti ǀ me ǀ devátām ǀ ihi ǀ mitráḥ ǀ vā ǀ yát ǀ váruṇaḥ ǀ vā ǀ ási ǀ pūṣā́ ǀ
    ādityáiḥ ǀ vā ǀ yát ǀ vásu-bhiḥ ǀ marútvān ǀ sáḥ ǀ parjányam ǀ śám-tanave ǀ vṛṣaya ǁ

    bṛhaspate ǀ prati ǀ me ǀ devatām ǀ ihi ǀ mitraḥ ǀ vā ǀ yat ǀ varuṇaḥ ǀ vā ǀ asi ǀ pūṣā ǀ
    ādityaiḥ ǀ vā ǀ yat ǀ vasu-bhiḥ ǀ marutvān ǀ saḥ ǀ parjanyam ǀ śam-tanave ǀ vṛṣaya ǁ

    10.98.1 Aṣṭaka 8.5.12.1Anuvāka 10.8.114

  2. Ṛk 2

    आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वांत्वद्दे॑वापे अ॒भि माम॑गच्छत् ।
    प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥

    आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् |
    प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ||

    ā́ devó dūtó ajiráścikitvā́ntváddevāpe abhí mā́magacchat ǀ
    pratīcīnáḥ práti mā́mā́ vavṛtsva dádhāmi te dyumátīm vā́camāsán ǁ

    ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat |
    pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan ||

    आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।
    प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥

    आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् ।
    प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युऽमतीम् । वाचम् । आसन् ॥

    ā́ ǀ deváḥ ǀ dūtáḥ ǀ ajiráḥ ǀ cikitvā́n ǀ tvát ǀ deva-āpe ǀ abhí ǀ mā́m ǀ agacchat ǀ
    pratīcīnáḥ ǀ práti ǀ mā́m ǀ ā́ ǀ vavṛtsva ǀ dádhāmi ǀ te ǀ dyu-mátīm ǀ vā́cam ǀ āsán ǁ

    ā ǀ devaḥ ǀ dūtaḥ ǀ ajiraḥ ǀ cikitvān ǀ tvat ǀ deva-āpe ǀ abhi ǀ mām ǀ agacchat ǀ
    pratīcīnaḥ ǀ prati ǀ mām ǀ ā ǀ vavṛtsva ǀ dadhāmi ǀ te ǀ dyu-matīm ǀ vācam ǀ āsan ǁ

    10.98.2 Aṣṭaka 8.5.12.2Anuvāka 10.8.115

  3. Ṛk 3

    अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒रां ।
    यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥

    अस्मे धेहि द्युमतीं वाचम् आसन् बृहस्पते अनमीवाम् इषिराम् |
    यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ||

    asmé dhehi dyumátīm vā́camāsánbṛ́haspate anamīvā́miṣirā́m ǀ
    yáyā vṛṣṭím śáṃtanave vánāva divó drapsó mádhumām̐ ā́ viveśa ǁ

    asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām |
    yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṃ ā viveśa ||

    अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् ।
    यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥

    अस्मे इति । धेहि । द्युऽमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् ।
    यया । वृष्टिम् । शम्ऽतनवे । वनाव । दिवः । द्रप्सः । मधुऽमान् । आ । विवेश ॥

    asmé íti ǀ dhehi ǀ dyu-mátīm ǀ vā́cam ǀ āsán ǀ bṛ́haspate ǀ anamīvā́m ǀ iṣirā́m ǀ
    yáyā ǀ vṛṣṭím ǀ śám-tanave ǀ vánāva ǀ diváḥ ǀ drapsáḥ ǀ mádhu-mān ǀ ā́ ǀ viveśa ǁ

    asme iti ǀ dhehi ǀ dyu-matīm ǀ vācam ǀ āsan ǀ bṛhaspate ǀ anamīvām ǀ iṣirām ǀ
    yayā ǀ vṛṣṭim ǀ śam-tanave ǀ vanāva ǀ divaḥ ǀ drapsaḥ ǀ madhu-mān ǀ ā ǀ viveśa ǁ

    10.98.3 Aṣṭaka 8.5.12.3Anuvāka 10.8.116

  4. Ṛk 4

    आ नो॑ द्र॒प्सा मधु॑मंतो विशं॒त्विंद्र॑ दे॒ह्यधि॑रथं स॒हस्रं॑ ।
    नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वांदे॑वापे ह॒विषा॑ सपर्य ॥

    आ नो द्रप्सा मधुमन्तो विशन्त्व् इन्द्र देह्य् अधिरथं सहस्रम् |
    नि षीद होत्रम् ऋतुथा यजस्व देवान् देवापे हविषा सपर्य ||

    ā́ no drapsā́ mádhumanto viśantvíndra dehyádhiratham sahásram ǀ
    ní ṣīda hotrámṛtuthā́ yajasva devā́ndevāpe havíṣā saparya ǁ

    ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram |
    ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya ||

    आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् ।
    नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥

    आ । नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्र । देहि । अधिऽरथम् । सहस्रम् ।
    नि । सीद । होत्रम् । ऋतुऽथा । यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ॥

    ā́ ǀ naḥ ǀ drapsā́ḥ ǀ mádhu-mantaḥ ǀ viśantu ǀ índra ǀ dehí ǀ ádhi-ratham ǀ sahásram ǀ
    ní ǀ sīda ǀ hotrám ǀ ṛtu-thā́ ǀ yajasva ǀ devā́n ǀ deva-āpe ǀ havíṣā ǀ saparya ǁ

    ā ǀ naḥ ǀ drapsāḥ ǀ madhu-mantaḥ ǀ viśantu ǀ indra ǀ dehi ǀ adhi-ratham ǀ sahasram ǀ
    ni ǀ sīda ǀ hotram ǀ ṛtu-thā ǀ yajasva ǀ devān ǀ deva-āpe ǀ haviṣā ǀ saparya ǁ

    10.98.4 Aṣṭaka 8.5.12.4Anuvāka 10.8.117

  5. Ṛk 5

    आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीदं॑दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
    स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥

    आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् |
    स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ||

    ārṣṭiṣeṇó hotrámṛ́ṣirniṣī́dandevā́pirdevasumatím cikitvā́n ǀ
    sá úttarasmādádharam samudrámapó divyā́ asṛjadvarṣyā́ abhí ǁ

    ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān |
    sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi ||

    आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् ।
    सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥

    आर्ष्टिषेणः । होत्रम् । ऋषिः । निऽसीदन् । देवऽआपिः । देवऽसुमतिम् । चिकित्वान् ।
    सः । उत्ऽतरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥

    ārṣṭiṣeṇáḥ ǀ hotrám ǀ ṛ́ṣiḥ ǀ ni-sī́dan ǀ devá-āpiḥ ǀ deva-sumatím ǀ cikitvā́n ǀ
    sáḥ ǀ út-tarasmāt ǀ ádharam ǀ samudrám ǀ apáḥ ǀ divyā́ḥ ǀ asṛjat ǀ varṣyā́ḥ ǀ abhí ǁ

    ārṣṭiṣeṇaḥ ǀ hotram ǀ ṛṣiḥ ǀ ni-sīdan ǀ deva-āpiḥ ǀ deva-sumatim ǀ cikitvān ǀ
    saḥ ǀ ut-tarasmāt ǀ adharam ǀ samudram ǀ apaḥ ǀ divyāḥ ǀ asṛjat ǀ varṣyāḥ ǀ abhi ǁ

    10.98.5 Aṣṭaka 8.5.12.5Anuvāka 10.8.118

  6. Ṛk 6

    अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
    ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥

    अस्मिन् समुद्रे अध्य् उत्तरस्मिन्न् आपो देवेभिर् निवृता अतिष्ठन् |
    ता अद्रवन्न् आर्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ||

    asmíntsamudré ádhyúttarasminnā́po devébhirnívṛtā atiṣṭhan ǀ
    tā́ adravannārṣṭiṣeṇéna sṛṣṭā́ devā́pinā préṣitā mṛkṣíṇīṣu ǁ

    asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan |
    tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu ||

    अ॒स्मिन् । स॒मु॒द्रे । अधि॑ । उत्ऽत॑रस्मिन् । आपः॑ । दे॒वेभिः॑ । निऽवृ॑ताः । अ॒ति॒ष्ठ॒न् ।
    ताः । अ॒द्र॒व॒न् । आ॒र्ष्टि॒षे॒णेन॑ । सृ॒ष्टाः । दे॒वऽआ॑पिना । प्रऽइ॑षिताः । मृ॒क्षिणी॑षु ॥

    अस्मिन् । समुद्रे । अधि । उत्ऽतरस्मिन् । आपः । देवेभिः । निऽवृताः । अतिष्ठन् ।
    ताः । अद्रवन् । आर्ष्टिषेणेन । सृष्टाः । देवऽआपिना । प्रऽइषिताः । मृक्षिणीषु ॥

    asmín ǀ samudré ǀ ádhi ǀ út-tarasmin ǀ ā́paḥ ǀ devébhiḥ ǀ ní-vṛtāḥ ǀ atiṣṭhan ǀ
    tā́ḥ ǀ adravan ǀ ārṣṭiṣeṇéna ǀ sṛṣṭā́ḥ ǀ devá-āpinā ǀ prá-iṣitāḥ ǀ mṛkṣíṇīṣu ǁ

    asmin ǀ samudre ǀ adhi ǀ ut-tarasmin ǀ āpaḥ ǀ devebhiḥ ǀ ni-vṛtāḥ ǀ atiṣṭhan ǀ
    tāḥ ǀ adravan ǀ ārṣṭiṣeṇena ǀ sṛṣṭāḥ ǀ deva-āpinā ǀ pra-iṣitāḥ ǀ mṛkṣiṇīṣu ǁ

    10.98.6 Aṣṭaka 8.5.12.6Anuvāka 10.8.119

  7. Ṛk 7

    यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
    दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥

    यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् |
    देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ||

    yáddevā́piḥ śáṃtanave puróhito hotrā́ya vṛtáḥ kṛpáyannádīdhet ǀ
    devaśrútam vṛṣṭivánim rárāṇo bṛ́haspátirvā́camasmā ayacchat ǁ

    yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet |
    devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat ||

    यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् ।
    दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥

    यत् । देवऽआपिः । शम्ऽतनवे । पुरःऽहितः । होत्राय । वृतः । कृपयन् । अदीधेत् ।
    देवऽश्रुतम् । वृष्टिऽवनिम् । रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥

    yát ǀ devá-āpiḥ ǀ śám-tanave ǀ puráḥ-hitaḥ ǀ hotrā́ya ǀ vṛtáḥ ǀ kṛpáyan ǀ ádīdhet ǀ
    deva-śrútam ǀ vṛṣṭi-vánim ǀ rárāṇaḥ ǀ bṛ́haspátiḥ ǀ vā́cam ǀ asmai ǀ ayacchat ǁ

    yat ǀ deva-āpiḥ ǀ śam-tanave ǀ puraḥ-hitaḥ ǀ hotrāya ǀ vṛtaḥ ǀ kṛpayan ǀ adīdhet ǀ
    deva-śrutam ǀ vṛṣṭi-vanim ǀ rarāṇaḥ ǀ bṛhaspatiḥ ǀ vācam ǀ asmai ǀ ayacchat ǁ

    10.98.7 Aṣṭaka 8.5.13.1Anuvāka 10.8.120

  8. Ṛk 8

    यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।
    विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मंतं॑ ॥

    यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे |
    विश्वेभिर् देवैर् अनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ||

    yám tvā devā́piḥ śuśucānó agna ārṣṭiṣeṇó manuṣyáḥ samīdhé ǀ
    víśvebhirdeváiranumadyámānaḥ prá parjányamīrayā vṛṣṭimántam ǁ

    yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe |
    viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam ||

    यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे ।
    विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥

    यम् । त्वा । देवऽआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ऽईधे ।
    विश्वेभिः । देवैः । अनुऽमद्यमानः । प्र । पर्जन्यम् । ईरय । वृष्टिऽमन्तम् ॥

    yám ǀ tvā ǀ devá-āpiḥ ǀ śuśucānáḥ ǀ agne ǀ ārṣṭiṣeṇáḥ ǀ manuṣyáḥ ǀ sam-īdhé ǀ
    víśvebhiḥ ǀ deváiḥ ǀ anu-madyámānaḥ ǀ prá ǀ parjányam ǀ īraya ǀ vṛṣṭi-mántam ǁ

    yam ǀ tvā ǀ deva-āpiḥ ǀ śuśucānaḥ ǀ agne ǀ ārṣṭiṣeṇaḥ ǀ manuṣyaḥ ǀ sam-īdhe ǀ
    viśvebhiḥ ǀ devaiḥ ǀ anu-madyamānaḥ ǀ pra ǀ parjanyam ǀ īraya ǀ vṛṣṭi-mantam ǁ

    10.98.8 Aṣṭaka 8.5.13.2Anuvāka 10.8.121

  9. Ṛk 9

    त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑यं॒त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
    स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥

    त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे |
    सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ||

    tvā́m pū́rva ṛ́ṣayo gīrbhírāyantvā́madhvaréṣu puruhūta víśve ǀ
    sahásrāṇyádhirathānyasmé ā́ no yajñám rohidaśvópa yāhi ǁ

    tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve |
    sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi ||

    त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ।
    स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्ऽअ॒श्व॒ । उप॑ । या॒हि॒ ॥

    त्वाम् । पूर्वे । ऋषयः । गीःऽभिः । आयन् । त्वाम् । अध्वरेषु । पुरुऽहूत । विश्वे ।
    सहस्राणि । अधिऽरथानि । अस्मे इति । आ । नः । यज्ञम् । रोहित्ऽअश्व । उप । याहि ॥

    tvā́m ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ gīḥ-bhíḥ ǀ āyan ǀ tvā́m ǀ adhvaréṣu ǀ puru-hūta ǀ víśve ǀ
    sahásrāṇi ǀ ádhi-rathāni ǀ asmé íti ǀ ā́ ǀ naḥ ǀ yajñám ǀ rohit-aśva ǀ úpa ǀ yāhi ǁ

    tvām ǀ pūrve ǀ ṛṣayaḥ ǀ gīḥ-bhiḥ ǀ āyan ǀ tvām ǀ adhvareṣu ǀ puru-hūta ǀ viśve ǀ
    sahasrāṇi ǀ adhi-rathāni ǀ asme iti ǀ ā ǀ naḥ ǀ yajñam ǀ rohit-aśva ǀ upa ǀ yāhi ǁ

    10.98.9 Aṣṭaka 8.5.13.3Anuvāka 10.8.122

  10. Ṛk 10

    ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।
    तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥

    एतान्य् अग्ने नवतिर् नव त्वे आहुतान्य् अधिरथा सहस्रा |
    तेभिर् वर्धस्व तन्वः शूर पूर्वीर् दिवो नो वृष्टिम् इषितो रिरीहि ||

    etā́nyagne navatírnáva tvé ā́hutānyádhirathā sahásrā ǀ
    tébhirvardhasva tanváḥ śūra pūrvī́rdivó no vṛṣṭímiṣitó rirīhi ǁ

    etāny agne navatir nava tve āhutāny adhirathā sahasrā |
    tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi ||

    ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ ।
    तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥

    एतानि । अग्ने । नवतिः । नव । त्वे इति । आऽहुतानि । अधिऽरथा । सहस्रा ।
    तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि ॥

    etā́ni ǀ agne ǀ navatíḥ ǀ náva ǀ tvé íti ǀ ā́-hutāni ǀ ádhi-rathā ǀ sahásrā ǀ
    tébhiḥ ǀ vardhasva ǀ tanváḥ ǀ śūra ǀ pūrvī́ḥ ǀ diváḥ ǀ naḥ ǀ vṛṣṭím ǀ iṣitáḥ ǀ rirīhi ǁ

    etāni ǀ agne ǀ navatiḥ ǀ nava ǀ tve iti ǀ ā-hutāni ǀ adhi-rathā ǀ sahasrā ǀ
    tebhiḥ ǀ vardhasva ǀ tanvaḥ ǀ śūra ǀ pūrvīḥ ǀ divaḥ ǀ naḥ ǀ vṛṣṭim ǀ iṣitaḥ ǀ rirīhi ǁ

    10.98.10 Aṣṭaka 8.5.13.4Anuvāka 10.8.123

  11. Ṛk 11

    ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इंद्रा॑य भा॒गं ।
    वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥

    एतान्य् अग्ने नवतिं सहस्रा सम् प्र यच्छ वृष्ण इन्द्राय भागम् |
    विद्वान् पथ ऋतुशो देवयानान् अप्य् औलानं दिवि देवेषु धेहि ||

    etā́nyagne navatím sahásrā sám prá yaccha vṛ́ṣṇa índrāya bhāgám ǀ
    vidvā́npathá ṛtuśó devayā́nānápyaulānám diví devéṣu dhehi ǁ

    etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam |
    vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi ||

    ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् ।
    वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥

    एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ । वृष्णे । इन्द्राय । भागम् ।
    विद्वान् । पथः । ऋतुऽशः । देवऽयानान् । अपि । औलानम् । दिवि । देवेषु । धेहि ॥

    etā́ni ǀ agne ǀ navatím ǀ sahásrā ǀ sám ǀ prá ǀ yaccha ǀ vṛ́ṣṇe ǀ índrāya ǀ bhāgám ǀ
    vidvā́n ǀ patháḥ ǀ ṛtu-śáḥ ǀ deva-yā́nān ǀ ápi ǀ aulānám ǀ diví ǀ devéṣu ǀ dhehi ǁ

    etāni ǀ agne ǀ navatim ǀ sahasrā ǀ sam ǀ pra ǀ yaccha ǀ vṛṣṇe ǀ indrāya ǀ bhāgam ǀ
    vidvān ǀ pathaḥ ǀ ṛtu-śaḥ ǀ deva-yānān ǀ api ǀ aulānam ǀ divi ǀ deveṣu ǀ dhehi ǁ

    10.98.11 Aṣṭaka 8.5.13.5Anuvāka 10.8.124

  12. Ṛk 12

    अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
    अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥

    अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध |
    अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ||

    ágne bā́dhasva ví mṛ́dho ví durgáhā́pā́mīvāmápa rákṣāṃsi sedha ǀ
    asmā́tsamudrā́dbṛható divó no’pā́m bhūmā́namúpa naḥ sṛjehá ǁ

    agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha |
    asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha ||

    अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ ।
    अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥

    अग्ने । बाधस्व । वि । मृधः । वि । दुःऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध ।
    अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह ॥

    ágne ǀ bā́dhasva ǀ ví ǀ mṛ́dhaḥ ǀ ví ǀ duḥ-gáhā ǀ ápa ǀ ámīvām ǀ ápa ǀ rákṣāṃsi ǀ sedha ǀ
    asmā́t ǀ samudrā́t ǀ bṛhatáḥ ǀ diváḥ ǀ naḥ ǀ apā́m ǀ bhūmā́nam ǀ úpa ǀ naḥ ǀ sṛja ǀ ihá ǁ

    agne ǀ bādhasva ǀ vi ǀ mṛdhaḥ ǀ vi ǀ duḥ-gahā ǀ apa ǀ amīvām ǀ apa ǀ rakṣāṃsi ǀ sedha ǀ
    asmāt ǀ samudrāt ǀ bṛhataḥ ǀ divaḥ ǀ naḥ ǀ apām ǀ bhūmānam ǀ upa ǀ naḥ ǀ sṛja ǀ iha ǁ

    10.98.12 Aṣṭaka 8.5.13.6Anuvāka 10.8.125

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.98 · Devās

Interpretations

Ralph T. H. Griffith

Ṛk 1

COME, be thou Mitra, Varuṇa, or Pūṣan, come, O Bṛhaspati, to mine oblation: With Maruts, Vasus, or Ādityas, make thou Parjanya pour for Santanu his rain-drops.

Ṛk 2

The God, intelligent, the speedy envoy whom thou hast sent hath come to me, Devapi: Address thyself to me and turn thee hither within thy lips will I put brilliant language.

Ṛk 3

Within my mouth, Bṛhaspati, deposit speech lucid, vigorous, and free from weakness, Thereby to win for Santanu the rain-fall. The meath-rich drop from heaven hath passed within it.

Ṛk 4

Let the sweet drops descend on us, O Indra: give us enough to lade a thousand wagons. Sit to thy Hotar task; pay worship duly, and serve the Gods, Devapi, with oblation.

Ṛk 5

Knowing the God's good-will, Devapi, Ṛṣi, the son of Rstisena, sate as Hotar. He hath brought down from heaven's most lofty summit the ocean of the rain, celestial waters.

Ṛk 6

Gathered together in that highest ocean, the waters stood by deities obstructed. They burried down set free by Arstisena, in gaping clefts, urged onward by Devapi.

Ṛk 7

When as chief priest for Santanu, Devapi, chosen for Hotar's duty, prayed beseeching, Graciously pleased Bṛhaspati vouchsafed him a voice that reached the Gods and won the waters.

Ṛk 8

O Agni whom Devapi Arstisena, the mortal man, hath kindled in his glory, Joying in him with all the Gods together, urge on the sender of the rain, Parjanya.

Ṛk 9

All ancient Ṛṣis with their songs approached thee, even thee, O Much-invoked, at sacrifices. We have provided wagon-loads in thousands: come to the solemn rite, Lord of Red Horses.

Ṛk 10

The wagon-loads, the nine-and-ninety thousand, these have been offered up to thee, O Agni. Hero, with these increase thy many bodies, and, stimulated, send us rain from heaven.

Ṛk 11

Give thou these ninety thousand loads, O Agni, to Indra, to the Bull, to be his portion. Knowing the paths which Deities duly travel, set mid the Gods in heaven Aulana also.