Ṛgveda · Maṇḍala 10 · Sūkta 98
Ṛk 10.98.9
Saṃhitā
त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑यं॒त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥
त्वाम् पूर्व ऋषयो गीर्भिर् आयन् त्वाम् अध्वरेषु पुरुहूत विश्वे |
सहस्राण्य् अधिरथान्य् अस्मे आ नो यज्ञं रोहिदश्वोप याहि ||
tvā́m pū́rva ṛ́ṣayo gīrbhírāyantvā́madhvaréṣu puruhūta víśve ǀ
sahásrāṇyádhirathānyasmé ā́ no yajñám rohidaśvópa yāhi ǁ
tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve |
sahasrāṇy adhirathāny asme ā no yajñaṃ rohidaśvopa yāhi ||
Padapāṭha
त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ।
स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्ऽअ॒श्व॒ । उप॑ । या॒हि॒ ॥
त्वाम् । पूर्वे । ऋषयः । गीःऽभिः । आयन् । त्वाम् । अध्वरेषु । पुरुऽहूत । विश्वे ।
सहस्राणि । अधिऽरथानि । अस्मे इति । आ । नः । यज्ञम् । रोहित्ऽअश्व । उप । याहि ॥
tvā́m ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ gīḥ-bhíḥ ǀ āyan ǀ tvā́m ǀ adhvaréṣu ǀ puru-hūta ǀ víśve ǀ
sahásrāṇi ǀ ádhi-rathāni ǀ asmé íti ǀ ā́ ǀ naḥ ǀ yajñám ǀ rohit-aśva ǀ úpa ǀ yāhi ǁ
tvām ǀ pūrve ǀ ṛṣayaḥ ǀ gīḥ-bhiḥ ǀ āyan ǀ tvām ǀ adhvareṣu ǀ puru-hūta ǀ viśve ǀ
sahasrāṇi ǀ adhi-rathāni ǀ asme iti ǀ ā ǀ naḥ ǀ yajñam ǀ rohit-aśva ǀ upa ǀ yāhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.098.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.13.03
- Maṇḍala · Anuvāka · Ṛk
- 10.08.122
- Devatā देवता
- Devās
- Ṛṣi ऋषि
- Devāpi Ārṣṭiṣeṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.