Sūkta 114
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadhri Vairūpa Or Gharma Tāpasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (1, 5, 7); bhuriktriṣṭup (2, 3, 6); nicṛttriṣṭup (8, 9); jagatī (4); pādanicṛttriṣṭup (10)
2nd set of styles triṣṭubh (1-3, 5-10); jagatī (4)
-
Ṛk 1
घ॒र्मा समं॑ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।
दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कं ॥घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम |
दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ||gharmā́ sámantā trivṛ́tam vyā́patustáyorjúṣṭim mātaríśvā jagāma ǀ
diváspáyo dídhiṣāṇā aveṣanvidúrdevā́ḥ sahásāmānamarkám ǁgharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma |
divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam ||घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ ।
दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥घर्मा । सम्ऽअन्ता । त्रिऽवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम ।
दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥gharmā́ ǀ sám-antā ǀ tri-vṛ́tam ǀ ví ǀ āpatuḥ ǀ táyoḥ ǀ júṣṭim ǀ mātaríśvā ǀ jagāma ǀ
diváḥ ǀ páyaḥ ǀ dídhiṣāṇāḥ ǀ aveṣan ǀ vidúḥ ǀ devā́ḥ ǀ sahá-sāmānam ǀ arkám ǁgharmā ǀ sam-antā ǀ tri-vṛtam ǀ vi ǀ āpatuḥ ǀ tayoḥ ǀ juṣṭim ǀ mātariśvā ǀ jagāma ǀ
divaḥ ǀ payaḥ ǀ didhiṣāṇāḥ ǀ aveṣan ǀ viduḥ ǀ devāḥ ǀ saha-sāmānam ǀ arkam ǁ10.114.1 Aṣṭaka 8.6.16.1Anuvāka 10.10.11
-
Ṛk 2
ति॒स्रो दे॒ष्ट्राय॒ निर्ऋ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नंति॒ वह्न॑यः ।
तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः |
तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ||tisró deṣṭrā́ya nírṛtīrúpāsate dīrghaśrúto ví hí jānánti váhnayaḥ ǀ
tā́sām ní cikyuḥ kaváyo nidā́nam páreṣu yā́ gúhyeṣu vratéṣu ǁtisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ |
tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu ||ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः ।
तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥तिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः ।
तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥tisráḥ ǀ deṣṭrā́ya ǀ níḥ-ṛtīḥ ǀ úpa ǀ āsate ǀ dīrgha-śrútaḥ ǀ ví ǀ hí ǀ jānánti ǀ váhnayaḥ ǀ
tā́sām ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ ni-dā́nam ǀ páreṣu ǀ yā́ḥ ǀ gúhyeṣu ǀ vratéṣu ǁtisraḥ ǀ deṣṭrāya ǀ niḥ-ṛtīḥ ǀ upa ǀ āsate ǀ dīrgha-śrutaḥ ǀ vi ǀ hi ǀ jānanti ǀ vahnayaḥ ǀ
tāsām ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ ni-dānam ǀ pareṣu ǀ yāḥ ǀ guhyeṣu ǀ vrateṣu ǁ10.114.2 Aṣṭaka 8.6.16.2Anuvāka 10.10.12
-
Ṛk 3
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेयं॑ ॥चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते |
तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ||cátuṣkapardā yuvatíḥ supéśā ghṛtápratīkā vayúnāni vaste ǀ
tásyām suparṇā́ vṛ́ṣaṇā ní ṣedaturyátra devā́ dadhiré bhāgadhéyam ǁcatuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste |
tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam ||चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ ।
तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते ।
तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥cátuḥ-kapardā ǀ yuvatíḥ ǀ su-péśāḥ ǀ ghṛtá-pratīkā ǀ vayúnāni ǀ vaste ǀ
tásyām ǀ su-parṇā́ ǀ vṛ́ṣaṇā ǀ ní ǀ sedatuḥ ǀ yátra ǀ devā́ḥ ǀ dadhiré ǀ bhāga-dhéyam ǁcatuḥ-kapardā ǀ yuvatiḥ ǀ su-peśāḥ ǀ ghṛta-pratīkā ǀ vayunāni ǀ vaste ǀ
tasyām ǀ su-parṇā ǀ vṛṣaṇā ǀ ni ǀ sedatuḥ ǀ yatra ǀ devāḥ ǀ dadhire ǀ bhāga-dheyam ǁ10.114.3 Aṣṭaka 8.6.16.3Anuvāka 10.10.13
-
Ṛk 4
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे ।
तं पाके॑न॒ मन॑सापश्य॒मंति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तरं॑ ॥एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे |
तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेऌहि स उ रेऌहि मातरम् ||ékaḥ suparṇáḥ sá samudrámā́ viveśa sá idám víśvam bhúvanam ví caṣṭe ǀ
tám pā́kena mánasāpaśyamántitastám mātā́ reḷhi sá u reḷhi mātáram ǁekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe |
tam pākena manasāpaśyam antitas tam mātā reḷhi sa u reḷhi mātaram ||एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ ।
तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥एकः । सुऽपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे ।
तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊं इति । रेळ्हि । मातरम् ॥ékaḥ ǀ su-parṇáḥ ǀ sáḥ ǀ samudrám ǀ ā́ ǀ viveśa ǀ sáḥ ǀ idám ǀ víśvam ǀ bhúvanam ǀ ví ǀ caṣṭe ǀ
tám ǀ pā́kena ǀ mánasā ǀ apaśyam ǀ ántitaḥ ǀ tám ǀ mātā́ ǀ reḷhi ǀ sáḥ ǀ ūṃ íti ǀ reḷhi ǀ mātáram ǁekaḥ ǀ su-parṇaḥ ǀ saḥ ǀ samudram ǀ ā ǀ viveśa ǀ saḥ ǀ idam ǀ viśvam ǀ bhuvanam ǀ vi ǀ caṣṭe ǀ
tam ǀ pākena ǀ manasā ǀ apaśyam ǀ antitaḥ ǀ tam ǀ mātā ǀ reḷhi ǀ saḥ ǀ ūṃ iti ǀ reḷhi ǀ mātaram ǁ10.114.4 Aṣṭaka 8.6.16.4Anuvāka 10.10.14
-
Ṛk 5
सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ संतं॑ बहु॒धा क॑ल्पयंति ।
छंदां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति |
छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ||suparṇám víprāḥ kaváyo vácobhirékam sántam bahudhā́ kalpayanti ǀ
chándāṃsi ca dádhato adhvaréṣu gráhāntsómasya mimate dvā́daśa ǁsuparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti |
chandāṃsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa ||सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।
छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥सुऽपर्णम् । विप्रा । कवयः । वचःऽभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति ।
छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥su-parṇám ǀ víprā ǀ kaváyaḥ ǀ vácaḥ-bhiḥ ǀ ékam ǀ sántam ǀ bahudhā́ ǀ kalpayanti ǀ
chándāṃsi ǀ ca ǀ dádhataḥ ǀ adhvaréṣu ǀ gráhān ǀ sómasya ǀ mimate ǀ dvā́daśa ǁsu-parṇam ǀ viprā ǀ kavayaḥ ǀ vacaḥ-bhiḥ ǀ ekam ǀ santam ǀ bahudhā ǀ kalpayanti ǀ
chandāṃsi ǀ ca ǀ dadhataḥ ǀ adhvareṣu ǀ grahān ǀ somasya ǀ mimate ǀ dvādaśa ǁ10.114.5 Aṣṭaka 8.6.16.5Anuvāka 10.10.15
-
Ṛk 6
ष॒ट्त्रिं॒शांश्च॑ च॒तुरः॑ क॒ल्पयं॑त॒श्छंदां॑सि च॒ दध॑त आद्वाद॒शं ।
य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयंति ॥षट्त्रिंशांश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् |
यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ||ṣaṭtriṃśā́ṃśca catúraḥ kalpáyantaśchándāṃsi ca dádhata ādvādaśám ǀ
yajñám vimā́ya kaváyo manīṣá ṛksāmā́bhyām prá rátham vartayanti ǁṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam |
yajñaṃ vimāya kavayo manīṣa ṛksāmābhyām pra rathaṃ vartayanti ||ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् ।
य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥षट्ऽत्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आऽद्वादशम् ।
यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥ṣaṭ-triṃśā́n ǀ ca ǀ catúraḥ ǀ kalpáyantaḥ ǀ chándāṃsi ǀ ca ǀ dádhataḥ ǀ ā-dvādaśám ǀ
yajñám ǀ vi-mā́ya ǀ kaváyaḥ ǀ manīṣā́ ǀ ṛk-sāmā́bhyām ǀ prá ǀ rátham ǀ vartayanti ǁṣaṭ-triṃśān ǀ ca ǀ caturaḥ ǀ kalpayantaḥ ǀ chandāṃsi ǀ ca ǀ dadhataḥ ǀ ā-dvādaśam ǀ
yajñam ǀ vi-māya ǀ kavayaḥ ǀ manīṣā ǀ ṛk-sāmābhyām ǀ pra ǀ ratham ǀ vartayanti ǁ10.114.6 Aṣṭaka 8.6.17.1Anuvāka 10.10.16
-
Ṛk 7
चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यंति स॒प्त ।
आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिबं॑ते सु॒तस्य॑ ॥चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त |
आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ||cáturdaśānyé mahimā́no asya tám dhī́rā vācā́ prá ṇayanti saptá ǀ
ā́pnānam tīrthám ká ihá prá vocadyéna pathā́ prapíbante sutásya ǁcaturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayanti sapta |
āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya ||चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।
आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥चतुःऽदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त ।
आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥cátuḥ-daśa ǀ anyé ǀ mahimā́naḥ ǀ asya ǀ tám ǀ dhī́rāḥ ǀ vācā́ ǀ prá ǀ nayanti ǀ saptá ǀ
ā́pnānam ǀ tīrthám ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ yéna ǀ pathā́ ǀ pra-píbante ǀ sutásya ǁcatuḥ-daśa ǀ anye ǀ mahimānaḥ ǀ asya ǀ tam ǀ dhīrāḥ ǀ vācā ǀ pra ǀ nayanti ǀ sapta ǀ
āpnānam ǀ tīrtham ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ yena ǀ pathā ǀ pra-pibante ǀ sutasya ǁ10.114.7 Aṣṭaka 8.6.17.2Anuvāka 10.10.17
-
Ṛk 8
स॒ह॒स्र॒धा पं॑चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।
स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् |
सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ||sahasradhā́ pañcadaśā́nyukthā́ yā́vaddyā́vāpṛthivī́ tā́vadíttát ǀ
sahasradhā́ mahimā́naḥ sahásram yā́vadbráhma víṣṭhitam tā́vatī vā́k ǁsahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat |
sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk ||स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् ।
स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥सहस्रधा । पञ्चऽदशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् ।
सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥sahasradhā́ ǀ pañca-daśā́ni ǀ ukthā́ ǀ yā́vat ǀ dyā́vāpṛthivī́ íti ǀ tā́vat ǀ ít ǀ tát ǀ
sahasradhā́ ǀ mahimā́naḥ ǀ sahásram ǀ yā́vat ǀ bráhma ǀ ví-sthitam ǀ tā́vatī ǀ vā́k ǁsahasradhā ǀ pañca-daśāni ǀ ukthā ǀ yāvat ǀ dyāvāpṛthivī iti ǀ tāvat ǀ it ǀ tat ǀ
sahasradhā ǀ mahimānaḥ ǀ sahasram ǀ yāvat ǀ brahma ǀ vi-sthitam ǀ tāvatī ǀ vāk ǁ10.114.8 Aṣṭaka 8.6.17.3Anuvāka 10.10.18
-
Ṛk 9
कश्छंद॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।
कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इंद्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद |
कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ||káśchándasām yógamā́ veda dhī́raḥ kó dhíṣṇyām práti vā́cam papāda ǀ
kámṛtvíjāmaṣṭamám śū́ramāhurhárī índrasya ní cikāya káḥ svit ǁkaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit ||कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ ।
कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद ।
कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥káḥ ǀ chándasām ǀ yógam ǀ ā́ ǀ veda ǀ dhī́raḥ ǀ káḥ ǀ dhíṣṇyām ǀ práti ǀ vā́cam ǀ papāda ǀ
kám ǀ ṛtvíjām ǀ aṣṭamám ǀ śū́ram ǀ āhuḥ ǀ hárī íti ǀ índrasya ǀ ní ǀ cikāya ǀ káḥ ǀ svit ǁkaḥ ǀ chandasām ǀ yogam ǀ ā ǀ veda ǀ dhīraḥ ǀ kaḥ ǀ dhiṣṇyām ǀ prati ǀ vācam ǀ papāda ǀ
kam ǀ ṛtvijām ǀ aṣṭamam ǀ śūram ǀ āhuḥ ǀ harī iti ǀ indrasya ǀ ni ǀ cikāya ǀ kaḥ ǀ svit ǁ10.114.9 Aṣṭaka 8.6.17.4Anuvāka 10.10.19
-
Ṛk 10
भूम्या॒ अंतं॒ पर्येके॑ चरंति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।
श्रम॑स्य दा॒यं वि भ॑जंत्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः |
श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ||bhū́myā ántam páryéke caranti ráthasya dhūrṣú yuktā́so asthuḥ ǀ
śrámasya dāyám ví bhajantyebhyo yadā́ yamó bhávati harmyé hitáḥ ǁbhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ |
śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ ||भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ ।
श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःऽसु । युक्तासः । अस्थुः ।
श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥bhū́myāḥ ǀ ántam ǀ pári ǀ éke ǀ caranti ǀ ráthasya ǀ dhūḥ-sú ǀ yuktā́saḥ ǀ asthuḥ ǀ
śrámasya ǀ dāyám ǀ ví ǀ bhajanti ǀ ebhyaḥ ǀ yadā́ ǀ yamáḥ ǀ bhávati ǀ harmyé ǀ hitáḥ ǁbhūmyāḥ ǀ antam ǀ pari ǀ eke ǀ caranti ǀ rathasya ǀ dhūḥ-su ǀ yuktāsaḥ ǀ asthuḥ ǀ
śramasya ǀ dāyam ǀ vi ǀ bhajanti ǀ ebhyaḥ ǀ yadā ǀ yamaḥ ǀ bhavati ǀ harmye ǀ hitaḥ ǁ10.114.10 Aṣṭaka 8.6.17.5Anuvāka 10.10.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.