Ṛgveda · Maṇḍala 10 · Sūkta 114
Ṛk 10.114.2
Saṃhitā
ति॒स्रो दे॒ष्ट्राय॒ निर्ऋ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नंति॒ वह्न॑यः ।
तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः |
तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ||
tisró deṣṭrā́ya nírṛtīrúpāsate dīrghaśrúto ví hí jānánti váhnayaḥ ǀ
tā́sām ní cikyuḥ kaváyo nidā́nam páreṣu yā́ gúhyeṣu vratéṣu ǁ
tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ |
tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu ||
Padapāṭha
ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः ।
तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥
तिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः ।
तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥
tisráḥ ǀ deṣṭrā́ya ǀ níḥ-ṛtīḥ ǀ úpa ǀ āsate ǀ dīrgha-śrútaḥ ǀ ví ǀ hí ǀ jānánti ǀ váhnayaḥ ǀ
tā́sām ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ ni-dā́nam ǀ páreṣu ǀ yā́ḥ ǀ gúhyeṣu ǀ vratéṣu ǁ
tisraḥ ǀ deṣṭrāya ǀ niḥ-ṛtīḥ ǀ upa ǀ āsate ǀ dīrgha-śrutaḥ ǀ vi ǀ hi ǀ jānanti ǀ vahnayaḥ ǀ
tāsām ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ ni-dānam ǀ pareṣu ǀ yāḥ ǀ guhyeṣu ǀ vrateṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.114.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.16.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.012
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadhri Vairūpa Or Gharma Tāpasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.