Ṛgveda · Maṇḍala 10 · Sūkta 114
Ṛk 10.114.9
Saṃhitā
कश्छंद॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।
कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इंद्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥
कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद |
कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ||
káśchándasām yógamā́ veda dhī́raḥ kó dhíṣṇyām práti vā́cam papāda ǀ
kámṛtvíjāmaṣṭamám śū́ramāhurhárī índrasya ní cikāya káḥ svit ǁ
kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit ||
Padapāṭha
कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ ।
कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥
कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद ।
कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥
káḥ ǀ chándasām ǀ yógam ǀ ā́ ǀ veda ǀ dhī́raḥ ǀ káḥ ǀ dhíṣṇyām ǀ práti ǀ vā́cam ǀ papāda ǀ
kám ǀ ṛtvíjām ǀ aṣṭamám ǀ śū́ram ǀ āhuḥ ǀ hárī íti ǀ índrasya ǀ ní ǀ cikāya ǀ káḥ ǀ svit ǁ
kaḥ ǀ chandasām ǀ yogam ǀ ā ǀ veda ǀ dhīraḥ ǀ kaḥ ǀ dhiṣṇyām ǀ prati ǀ vācam ǀ papāda ǀ
kam ǀ ṛtvijām ǀ aṣṭamam ǀ śūram ǀ āhuḥ ǀ harī iti ǀ indrasya ǀ ni ǀ cikāya ǀ kaḥ ǀ svit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.114.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.17.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.019
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Sadhri Vairūpa Or Gharma Tāpasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.