Ṛgveda · Maṇḍala 10

Sūkta 39

Aśvins · Ghoṣā Kākṣīvatī · 14 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Ghoṣā Kākṣīvatī
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (1, 6, 7, 11, 13); jagatī (2, 8, 9, 12); pādanicṛjjgatī (4, 5); virāḍjagatī (3); svarāḍārcījagatī (10); nicṛttriṣṭup (14)

2nd set of styles jagatī (1-13); triṣṭubh (14)

  1. Ṛk 1

    यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता ।
    श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥

    यो वाम् परिज्मा सुवृद् अश्विना रथो दोषाम् उषासो हव्यो हविष्मता |
    शश्वत्तमासस् तम् उ वाम् इदं वयम् पितुर् न नाम सुहवं हवामहे ||

    yó vām párijmā suvṛ́daśvinā rátho doṣā́muṣā́so hávyo havíṣmatā ǀ
    śaśvattamā́sastámu vāmidám vayám pitúrná nā́ma suhávam havāmahe ǁ

    yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā |
    śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe ||

    यः । वा॒म् । परि॑ऽज्मा । सु॒ऽवृत् । अ॒श्वि॒ना॒ । रथः॑ । दो॒षाम् । उ॒षसः॑ । हव्यः॑ । ह॒विष्म॑ता ।
    श॒श्व॒त्ऽत॒मासः॑ । तम् । ऊं॒ इति॑ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम॑ । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ ॥

    यः । वाम् । परिऽज्मा । सुऽवृत् । अश्विना । रथः । दोषाम् । उषसः । हव्यः । हविष्मता ।
    शश्वत्ऽतमासः । तम् । ऊं इति । वाम् । इदम् । वयम् । पितुः । न । नाम । सुऽहवम् । हवामहे ॥

    yáḥ ǀ vām ǀ pári-jmā ǀ su-vṛ́t ǀ aśvinā ǀ ráthaḥ ǀ doṣā́m ǀ uṣásaḥ ǀ hávyaḥ ǀ havíṣmatā ǀ
    śaśvat-tamā́saḥ ǀ tám ǀ ūṃ íti ǀ vām ǀ idám ǀ vayám ǀ pitúḥ ǀ ná ǀ nā́ma ǀ su-hávam ǀ havāmahe ǁ

    yaḥ ǀ vām ǀ pari-jmā ǀ su-vṛt ǀ aśvinā ǀ rathaḥ ǀ doṣām ǀ uṣasaḥ ǀ havyaḥ ǀ haviṣmatā ǀ
    śaśvat-tamāsaḥ ǀ tam ǀ ūṃ iti ǀ vām ǀ idam ǀ vayam ǀ pituḥ ǀ na ǀ nāma ǀ su-havam ǀ havāmahe ǁ

    10.39.1 Aṣṭaka 7.8.15.1Anuvāka 10.3.104

  2. Ṛk 2

    चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि ।
    य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतं ॥

    चोदयतं सूनृताः पिन्वतं धिय उत् पुरन्धीर् ईरयतं तद् उश्मसि |
    यशसम् भागं कृणुतं नो अश्विना सोमं न चारुम् मघवत्सु नस् कृतम् ||

    codáyatam sūnṛ́tāḥ pínvatam dhíya útpúraṃdhīrīrayatam táduśmasi ǀ
    yaśásam bhāgám kṛṇutam no aśvinā sómam ná cā́rum maghávatsu naskṛtam ǁ

    codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīr īrayataṃ tad uśmasi |
    yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam ||

    चो॒दय॑तम् । सू॒नृताः॑ । पिन्व॑तम् । धियः॑ । उत् । पुर॑म्ऽधीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ ।
    य॒शस॑म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम॑म् । न । चारु॑म् । म॒घव॑त्ऽसु । नः॒ । कृ॒त॒म् ॥

    चोदयतम् । सूनृताः । पिन्वतम् । धियः । उत् । पुरम्ऽधीः । ईरयतम् । तत् । उश्मसि ।
    यशसम् । भागम् । कृणुतम् । नः । अश्विना । सोमम् । न । चारुम् । मघवत्ऽसु । नः । कृतम् ॥

    codáyatam ǀ sūnṛ́tāḥ ǀ pínvatam ǀ dhíyaḥ ǀ út ǀ púram-dhīḥ ǀ īrayatam ǀ tát ǀ uśmasi ǀ
    yaśásam ǀ bhāgám ǀ kṛṇutam ǀ naḥ ǀ aśvinā ǀ sómam ǀ ná ǀ cā́rum ǀ maghávat-su ǀ naḥ ǀ kṛtam ǁ

    codayatam ǀ sūnṛtāḥ ǀ pinvatam ǀ dhiyaḥ ǀ ut ǀ puram-dhīḥ ǀ īrayatam ǀ tat ǀ uśmasi ǀ
    yaśasam ǀ bhāgam ǀ kṛṇutam ǀ naḥ ǀ aśvinā ǀ somam ǀ na ǀ cārum ǀ maghavat-su ǀ naḥ ǀ kṛtam ǁ

    10.39.2 Aṣṭaka 7.8.15.2Anuvāka 10.3.105

  3. Ṛk 3

    अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् ।
    अं॒धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥

    अमाजुरश् चिद् भवथो युवम् भगो ऽनाशोश् चिद् अवितारापमस्य चित् |
    अन्धस्य चिन् नासत्या कृशस्य चिद् युवाम् इद् आहुर् भिषजा रुतस्य चित् ||

    amājúraścidbhavatho yuvám bhágo’nāśóścidavitā́rāpamásya cit ǀ
    andhásya cinnāsatyā kṛśásya cidyuvā́mídāhurbhiṣájā rutásya cit ǁ

    amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit |
    andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit ||

    अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् ।
    अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥

    अमाऽजुरः । चित् । भवथः । युवम् । भगः । अनाशोः । चित् । अवितारा । अपमस्य । चित् ।
    अन्धस्य । चित् । नासत्या । कृशस्य । चित् । युवाम् । इत् । आहुः । भिषजा । रुतस्य । चित् ॥

    amā-júraḥ ǀ cit ǀ bhavathaḥ ǀ yuvám ǀ bhágaḥ ǀ anāśóḥ ǀ cit ǀ avitā́rā ǀ apamásya ǀ cit ǀ
    andhásya ǀ cit ǀ nāsatyā ǀ kṛśásya ǀ cit ǀ yuvā́m ǀ ít ǀ āhuḥ ǀ bhiṣájā ǀ rutásya ǀ cit ǁ

    amā-juraḥ ǀ cit ǀ bhavathaḥ ǀ yuvam ǀ bhagaḥ ǀ anāśoḥ ǀ cit ǀ avitārā ǀ apamasya ǀ cit ǀ
    andhasya ǀ cit ǀ nāsatyā ǀ kṛśasya ǀ cit ǀ yuvām ǀ it ǀ āhuḥ ǀ bhiṣajā ǀ rutasya ǀ cit ǁ

    10.39.3 Aṣṭaka 7.8.15.3Anuvāka 10.3.106

  4. Ṛk 4

    यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः ।
    निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥

    युवं च्यवानं सनयं यथा रथम् पुनर् युवानं चरथाय तक्षथुः |
    निष् टौग्र्यम् ऊहथुर् अद्भ्यस् परि विश्वेत् ता वां सवनेषु प्रवाच्या ||

    yuvám cyávānam sanáyam yáthā rátham púnaryúvānam caráthāya takṣathuḥ ǀ
    níṣṭaugryámūhathuradbhyáspári víśvéttā́ vām sávaneṣu pravā́cyā ǁ

    yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ |
    niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā ||

    यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ ।
    निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥

    युवम् । च्यवानम् । सनयम् । यथा । रथम् । पुनः । युवानम् । चरथाय । तक्षथुः ।
    निः । तौग्र्यम् । ऊहथुः । अत्ऽभ्यः । परि । विश्वा । इत् । ता । वाम् । सवनेषु । प्रऽवाच्या ॥

    yuvám ǀ cyávānam ǀ sanáyam ǀ yáthā ǀ rátham ǀ púnaḥ ǀ yúvānam ǀ caráthāya ǀ takṣathuḥ ǀ
    níḥ ǀ taugryám ǀ ūhathuḥ ǀ at-bhyáḥ ǀ pári ǀ víśvā ǀ ít ǀ tā́ ǀ vām ǀ sávaneṣu ǀ pra-vā́cyā ǁ

    yuvam ǀ cyavānam ǀ sanayam ǀ yathā ǀ ratham ǀ punaḥ ǀ yuvānam ǀ carathāya ǀ takṣathuḥ ǀ
    niḥ ǀ taugryam ǀ ūhathuḥ ǀ at-bhyaḥ ǀ pari ǀ viśvā ǀ it ǀ tā ǀ vām ǀ savaneṣu ǀ pra-vācyā ǁ

    10.39.4 Aṣṭaka 7.8.15.4Anuvāka 10.3.107

  5. Ṛk 5

    पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ ।
    ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥

    पुराणा वां वीर्या प्र ब्रवा जने ऽथो हासथुर् भिषजा मयोभुवा |
    ता वां नु नव्याव् अवसे करामहे ऽयं नासत्या श्रद् अरिर् यथा दधत् ||

    purāṇā́ vām vīryā́ prá bravā jáné’tho hāsathurbhiṣájā mayobhúvā ǀ
    tā́ vām nú návyāvávase karāmahe’yám nāsatyā śrádaríryáthā dádhat ǁ

    purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā |
    tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat ||

    पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ ।
    ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥

    पुराणा । वाम् । वीर्या । प्र । ब्रव । जने । अथो इति । ह । आसथुः । भिषजा । मयःऽभुवा ।
    ता । वाम् । नु । नव्यौ । अवसे । करामहे । अयम् । नासत्या । श्रत् । अरिः । यथा । दधत् ॥

    purāṇā́ ǀ vām ǀ vīryā́ ǀ prá ǀ brava ǀ jáne ǀ átho íti ǀ ha ǀ āsathuḥ ǀ bhiṣájā ǀ mayaḥ-bhúvā ǀ
    tā́ ǀ vām ǀ nú ǀ návyau ǀ ávase ǀ karāmahe ǀ ayám ǀ nāsatyā ǀ śrát ǀ aríḥ ǀ yáthā ǀ dádhat ǁ

    purāṇā ǀ vām ǀ vīryā ǀ pra ǀ brava ǀ jane ǀ atho iti ǀ ha ǀ āsathuḥ ǀ bhiṣajā ǀ mayaḥ-bhuvā ǀ
    tā ǀ vām ǀ nu ǀ navyau ǀ avase ǀ karāmahe ǀ ayam ǀ nāsatyā ǀ śrat ǀ ariḥ ǀ yathā ǀ dadhat ǁ

    10.39.5 Aṣṭaka 7.8.15.5Anuvāka 10.3.108

  6. Ṛk 6

    इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतं ।
    अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतं ॥

    इयं वाम् अह्वे शृणुतम् मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् |
    अनापिर् अज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेर् अव स्पृतम् ||

    iyám vāmahve śṛṇutám me aśvinā putrā́yeva pitárā máhyam śikṣatam ǀ
    ánāpirájñā asajātyā́matiḥ purā́ tásyā abhíśasteráva spṛtam ǁ

    iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam |
    anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam ||

    इ॒यम् । वा॒म् । अ॒ह्वे॒ । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् ।
    अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥

    इयम् । वाम् । अह्वे । शृणुतम् । मे । अश्विना । पुत्रायऽइव । पितरा । मह्यम् । शिक्षतम् ।
    अनापिः । अज्ञाः । असजात्या । अमतिः । पुरा । तस्याः । अभिऽशस्तेः । अव । स्पृतम् ॥

    iyám ǀ vām ǀ ahve ǀ śṛṇutám ǀ me ǀ aśvinā ǀ putrā́ya-iva ǀ pitárā ǀ máhyam ǀ śikṣatam ǀ
    ánāpiḥ ǀ ájñāḥ ǀ asajātyā́ ǀ ámatiḥ ǀ purā́ ǀ tásyāḥ ǀ abhí-śasteḥ ǀ áva ǀ spṛtam ǁ

    iyam ǀ vām ǀ ahve ǀ śṛṇutam ǀ me ǀ aśvinā ǀ putrāya-iva ǀ pitarā ǀ mahyam ǀ śikṣatam ǀ
    anāpiḥ ǀ ajñāḥ ǀ asajātyā ǀ amatiḥ ǀ purā ǀ tasyāḥ ǀ abhi-śasteḥ ǀ ava ǀ spṛtam ǁ

    10.39.6 Aṣṭaka 7.8.16.1Anuvāka 10.3.109

  7. Ṛk 7

    यु॒वं रथे॑न विम॒दाय॑ शुं॒ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णां ।
    यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥

    युवं रथेन विमदाय शुन्ध्युवं न्य् ऊहथुः पुरुमित्रस्य योषणाम् |
    युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ||

    yuvám ráthena vimadā́ya śundhyúvam nyū́hathuḥ purumitrásya yóṣaṇām ǀ
    yuvám hávam vadhrimatyā́ agacchatam yuvám súṣutim cakrathuḥ púraṃdhaye ǁ

    yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām |
    yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye ||

    यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णाम् ।
    यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥

    युवम् । रथेन । विऽमदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषणाम् ।
    युवम् । हवम् । वध्रिऽमत्याः । अगच्छतम् । युवम् । सुऽसुतिम् । चक्रथुः । पुरम्ऽधये ॥

    yuvám ǀ ráthena ǀ vi-madā́ya ǀ śundhyúvam ǀ ní ǀ ūhathuḥ ǀ puru-mitrásya ǀ yóṣaṇām ǀ
    yuvám ǀ hávam ǀ vadhri-matyā́ḥ ǀ agacchatam ǀ yuvám ǀ sú-sutim ǀ cakrathuḥ ǀ púram-dhaye ǁ

    yuvam ǀ rathena ǀ vi-madāya ǀ śundhyuvam ǀ ni ǀ ūhathuḥ ǀ puru-mitrasya ǀ yoṣaṇām ǀ
    yuvam ǀ havam ǀ vadhri-matyāḥ ǀ agacchatam ǀ yuvam ǀ su-sutim ǀ cakrathuḥ ǀ puram-dhaye ǁ

    10.39.7 Aṣṭaka 7.8.16.2Anuvāka 10.3.110

  8. Ṛk 8

    यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ ।
    यु॒वं वंद॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥

    युवं विप्रस्य जरणाम् उपेयुषः पुनः कलेर् अकृणुतं युवद् वयः |
    युवं वन्दनम् ऋश्यदाद् उद् ऊपथुर् युवं सद्यो विश्पलाम् एतवे कृथः ||

    yuvám víprasya jaraṇā́mupeyúṣaḥ púnaḥ kalérakṛṇutam yúvadváyaḥ ǀ
    yuvám vándanamṛśyadā́dúdūpathuryuvám sadyó viśpálāmétave kṛthaḥ ǁ

    yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ |
    yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ ||

    यु॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽई॒युषः॑ । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णु॒त॒म् । युव॑त् । वयः॑ ।
    यु॒वम् । वन्द॑नम् । ऋ॒श्य॒ऽदात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला॑म् । एत॑वे । कृ॒थः॒ ॥

    युवम् । विप्रस्य । जरणाम् । उपऽईयुषः । पुनरिति । कलेः । अकृणुतम् । युवत् । वयः ।
    युवम् । वन्दनम् । ऋश्यऽदात् । उत् । ऊपथुः । युवम् । सद्यः । विश्पलाम् । एतवे । कृथः ॥

    yuvám ǀ víprasya ǀ jaraṇā́m ǀ upa-īyúṣaḥ ǀ púnaríti ǀ kaléḥ ǀ akṛṇutam ǀ yúvat ǀ váyaḥ ǀ
    yuvám ǀ vándanam ǀ ṛśya-dā́t ǀ út ǀ ūpathuḥ ǀ yuvám ǀ sadyáḥ ǀ viśpálām ǀ étave ǀ kṛthaḥ ǁ

    yuvam ǀ viprasya ǀ jaraṇām ǀ upa-īyuṣaḥ ǀ punariti ǀ kaleḥ ǀ akṛṇutam ǀ yuvat ǀ vayaḥ ǀ
    yuvam ǀ vandanam ǀ ṛśya-dāt ǀ ut ǀ ūpathuḥ ǀ yuvam ǀ sadyaḥ ǀ viśpalām ǀ etave ǀ kṛthaḥ ǁ

    10.39.8 Aṣṭaka 7.8.16.3Anuvāka 10.3.111

  9. Ṛk 9

    यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना ।
    यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वंतं चक्रथुः स॒प्तव॑ध्रये ॥

    युवं ह रेभं वृषणा गुहा हितम् उद् ऐरयतम् ममृवांसम् अश्विना |
    युवम् ऋबीसम् उत तप्तम् अत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ||

    yuvám ha rebhám vṛṣaṇā gúhā hitámúdairayatam mamṛvā́ṃsamaśvinā ǀ
    yuvámṛbī́samutá taptámátraya ómanvantam cakrathuḥ saptávadhraye ǁ

    yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā |
    yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye ||

    यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा॑ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒ऽवांस॑म् । अ॒श्वि॒ना॒ ।
    यु॒वम् । ऋ॒बीस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्ऽवन्तम् । च॒क्र॒थुः॒ । स॒प्तऽव॑ध्रये ॥

    युवम् । ह । रेभम् । वृषणा । गुहा । हितम् । उत् । ऐरयतम् । ममृऽवांसम् । अश्विना ।
    युवम् । ऋबीसम् । उत । तप्तम् । अत्रये । ओमन्ऽवन्तम् । चक्रथुः । सप्तऽवध्रये ॥

    yuvám ǀ ha ǀ rebhám ǀ vṛṣaṇā ǀ gúhā ǀ hitám ǀ út ǀ airayatam ǀ mamṛ-vā́ṃsam ǀ aśvinā ǀ
    yuvám ǀ ṛbī́sam ǀ utá ǀ taptám ǀ átraye ǀ óman-vantam ǀ cakrathuḥ ǀ saptá-vadhraye ǁ

    yuvam ǀ ha ǀ rebham ǀ vṛṣaṇā ǀ guhā ǀ hitam ǀ ut ǀ airayatam ǀ mamṛ-vāṃsam ǀ aśvinā ǀ
    yuvam ǀ ṛbīsam ǀ uta ǀ taptam ǀ atraye ǀ oman-vantam ǀ cakrathuḥ ǀ sapta-vadhraye ǁ

    10.39.9 Aṣṭaka 7.8.16.4Anuvāka 10.3.112

  10. Ṛk 10

    यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिनं॑ ।
    च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुवं॑ ॥

    युवं श्वेतम् पेदवे ऽश्विनाश्वं नवभिर् वाजैर् नवती च वाजिनम् |
    चर्कृत्यं ददथुर् द्रावयत्सखम् भगं न नृभ्यो हव्यम् मयोभुवम् ||

    yuvám śvetám pedáve’śvinā́śvam navábhirvā́jairnavatī́ ca vājínam ǀ
    carkṛ́tyam dadathurdrāvayátsakham bhágam ná nṛ́bhyo hávyam mayobhúvam ǁ

    yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam |
    carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam ||

    यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् ।
    च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥

    युवम् । श्वेतम् । पेदवे । अश्विना । अश्वम् । नवऽभिः । वाजैः । नवती । च । वाजिनम् ।
    चर्कृत्यम् । ददथुः । द्रवयत्ऽसखम् । भगम् । न । नृऽभ्यः । हव्यम् । मयःऽभुवम् ॥

    yuvám ǀ śvetám ǀ pedáve ǀ aśvinā ǀ áśvam ǀ navá-bhiḥ ǀ vā́jaiḥ ǀ navatī́ ǀ ca ǀ vājínam ǀ
    carkṛ́tyam ǀ dadathuḥ ǀ dravayát-sakham ǀ bhágam ǀ ná ǀ nṛ́-bhyaḥ ǀ hávyam ǀ mayaḥ-bhúvam ǁ

    yuvam ǀ śvetam ǀ pedave ǀ aśvinā ǀ aśvam ǀ nava-bhiḥ ǀ vājaiḥ ǀ navatī ǀ ca ǀ vājinam ǀ
    carkṛtyam ǀ dadathuḥ ǀ dravayat-sakham ǀ bhagam ǀ na ǀ nṛ-bhyaḥ ǀ havyam ǀ mayaḥ-bhuvam ǁ

    10.39.10 Aṣṭaka 7.8.16.5Anuvāka 10.3.113

  11. Ṛk 11

    न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यं ।
    यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥

    न तं राजानाव् अदिते कुतश् चन नांहो अश्नोति दुरितं नकिर् भयम् |
    यम् अश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ||

    ná tám rājānāvadite kútaścaná nā́ṃho aśnoti duritám nákirbhayám ǀ
    yámaśvinā suhavā rudravartanī purorathám kṛṇutháḥ pátnyā sahá ǁ

    na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam |
    yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha ||

    न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः॑ । च॒न । न । अंहः॑ । अ॒श्नो॒ति॒ । दुः॒ऽइ॒तम् । नकिः॑ । भ॒यम् ।
    यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । पु॒रः॒ऽर॒थम् । कृ॒णु॒थः । पत्न्या॑ । स॒ह ॥

    न । तम् । राजानौ । अदिते । कुतः । चन । न । अंहः । अश्नोति । दुःऽइतम् । नकिः । भयम् ।
    यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । पुरःऽरथम् । कृणुथः । पत्न्या । सह ॥

    ná ǀ tám ǀ rājānau ǀ adite ǀ kútaḥ ǀ caná ǀ ná ǀ áṃhaḥ ǀ aśnoti ǀ duḥ-itám ǀ nákiḥ ǀ bhayám ǀ
    yám ǀ aśvinā ǀ su-havā ǀ rudravartanī íti rudra-vartanī ǀ puraḥ-rathám ǀ kṛṇutháḥ ǀ pátnyā ǀ sahá ǁ

    na ǀ tam ǀ rājānau ǀ adite ǀ kutaḥ ǀ cana ǀ na ǀ aṃhaḥ ǀ aśnoti ǀ duḥ-itam ǀ nakiḥ ǀ bhayam ǀ
    yam ǀ aśvinā ǀ su-havā ǀ rudravartanī iti rudra-vartanī ǀ puraḥ-ratham ǀ kṛṇuthaḥ ǀ patnyā ǀ saha ǁ

    10.39.11 Aṣṭaka 7.8.17.1Anuvāka 10.3.114

  12. Ṛk 12

    आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना ।
    यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥

    आ तेन यातम् मनसो जवीयसा रथं यं वाम् ऋभवश् चक्रुर् अश्विना |
    यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ||

    ā́ téna yātam mánaso jávīyasā rátham yám vāmṛbhávaścakrúraśvinā ǀ
    yásya yóge duhitā́ jā́yate divá ubhé áhanī sudíne vivásvataḥ ǁ

    ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā |
    yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ||

    आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ ।
    यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥

    आ । तेन । यातम् । मनसः । जवीयसा । रथम् । यम् । वाम् । ऋभवः । चक्रुः । अश्विना ।
    यस्य । योगे । दुहिता । जायते । दिवः । उभे इति । अहनी इति । सुदिने इति सुऽदिने । विवस्वतः ॥

    ā́ ǀ téna ǀ yātam ǀ mánasaḥ ǀ jávīyasā ǀ rátham ǀ yám ǀ vām ǀ ṛbhávaḥ ǀ cakrúḥ ǀ aśvinā ǀ
    yásya ǀ yóge ǀ duhitā́ ǀ jā́yate ǀ diváḥ ǀ ubhé íti ǀ áhanī íti ǀ sudíne íti su-díne ǀ vivásvataḥ ǁ

    ā ǀ tena ǀ yātam ǀ manasaḥ ǀ javīyasā ǀ ratham ǀ yam ǀ vām ǀ ṛbhavaḥ ǀ cakruḥ ǀ aśvinā ǀ
    yasya ǀ yoge ǀ duhitā ǀ jāyate ǀ divaḥ ǀ ubhe iti ǀ ahanī iti ǀ sudine iti su-dine ǀ vivasvataḥ ǁ

    10.39.12 Aṣṭaka 7.8.17.2Anuvāka 10.3.115

  13. Ṛk 13

    ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना ।
    वृक॑स्य चि॒द्वर्ति॑कामं॒तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुंचतं ॥

    ता वर्तिर् यातं जयुषा वि पर्वतम् अपिन्वतं शयवे धेनुम् अश्विना |
    वृकस्य चिद् वर्तिकाम् अन्तर् आस्याद् युवं शचीभिर् ग्रसिताम् अमुञ्चतम् ||

    tā́ vartíryātam jayúṣā ví párvatamápinvatam śayáve dhenúmaśvinā ǀ
    vṛ́kasya cidvártikāmantárāsyā́dyuvám śácībhirgrasitā́mamuñcatam ǁ

    tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā |
    vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam ||

    ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ ।
    वृक॑स्य । चि॒त् । वर्ति॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥

    ता । वर्तिः । यातम् । जयुषा । वि । पर्वतम् । अपिन्वतम् । शयवे । धेनुम् । अश्विना ।
    वृकस्य । चित् । वर्तिकाम् । अन्तः । आस्यात् । युवम् । शचीभिः । ग्रसिताम् । अमुञ्चतम् ॥

    tā́ ǀ vartíḥ ǀ yātam ǀ jayúṣā ǀ ví ǀ párvatam ǀ ápinvatam ǀ śayáve ǀ dhenúm ǀ aśvinā ǀ
    vṛ́kasya ǀ cit ǀ vártikām ǀ antáḥ ǀ āsyā́t ǀ yuvám ǀ śácībhiḥ ǀ grasitā́m ǀ amuñcatam ǁ

    tā ǀ vartiḥ ǀ yātam ǀ jayuṣā ǀ vi ǀ parvatam ǀ apinvatam ǀ śayave ǀ dhenum ǀ aśvinā ǀ
    vṛkasya ǀ cit ǀ vartikām ǀ antaḥ ǀ āsyāt ǀ yuvam ǀ śacībhiḥ ǀ grasitām ǀ amuñcatam ǁ

    10.39.13 Aṣṭaka 7.8.17.3Anuvāka 10.3.116

  14. Ṛk 14

    ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथं॑ ।
    न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥

    एतं वां स्तोमम् अश्विनाव् अकर्मातक्षाम भृगवो न रथम् |
    न्य् अमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ||

    etám vām stómamaśvināvakarmā́takṣāma bhṛ́gavo ná rátham ǀ
    nyámṛkṣāma yóṣaṇām ná márye nítyam ná sūnúm tánayam dádhānāḥ ǁ

    etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham |
    ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ ||

    ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् ।
    नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥

    एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अतक्षाम । भृगवः । न । रथम् ।
    नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥

    etám ǀ vām ǀ stómam ǀ aśvinau ǀ akarma ǀ átakṣāma ǀ bhṛ́gavaḥ ǀ ná ǀ rátham ǀ
    ní ǀ amṛkṣāma ǀ yóṣaṇām ǀ ná ǀ márye ǀ nítyam ǀ ná ǀ sūnúm ǀ tánayam ǀ dádhānāḥ ǁ

    etam ǀ vām ǀ stomam ǀ aśvinau ǀ akarma ǀ atakṣāma ǀ bhṛgavaḥ ǀ na ǀ ratham ǀ
    ni ǀ amṛkṣāma ǀ yoṣaṇām ǀ na ǀ marye ǀ nityam ǀ na ǀ sūnum ǀ tanayam ǀ dadhānāḥ ǁ

    10.39.14 Aṣṭaka 7.8.17.4Anuvāka 10.3.117

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.39 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

As ’twere the name of father, easy to invoke, we all assembled here invoke this Car of yours, Aśvins, your swiftly-rolling circumambient Car which he who worships must invoke at eve and dawn.

Ṛk 2

Awake all pleasant strains and let the hymns flow forth: raise up abundant fulness: this is our desire. Aśvins, bestow on us a glorious heritage, and give our princes treasure fair as Soma is.

Ṛk 3

Ye are the bliss of her who groweth old at home, and helpers of the slow although he linger last. Men call you too, Nāsatyas, healers of the blind, the thin and feeble, and the man with broken bones.

Ṛk 4

Ye made Cyavāna, weak and worn with length of days, young again, like a car, that he had power to move. Ye lifted up the son of Tugra from the floods. At our libations must all these your acts be praised.

Ṛk 5

We will declare among the folk your ancient deeds heroic; yea, ye were Physicians bringing health. You, you who must be lauded, will we bring for aid, so that this foe of ours, O Aśvins, may believe.

Ṛk 6

Listen to me, O Aśvins; I have cried to you. Give me-your aid as sire and mother aid their son. Poor, without kin or friend or ties of blood am I. Save me before it be too late, from this my curse.

Ṛk 7

Ye, mounted on your chariot brought to Vimada the comely maid of Purumitra as a bride. Ye, came unto the calling of the weakling's dame, and granted noble offspring to the happy wife.

Ṛk 8

Ye gave a ain the vigour of his youthful life to tge sage Kali when old age was coming nigh. Ye rescued Vandana and raised him from the pit, and in a moment gave Viśpalā power to move.

Ṛk 9

Ye Aśvins Twain, endowed with manly strength, brought forth Reblia when hidden in the cave and well-nigh dead, Freed Saptavadliri, and for Atri caused the pit heated with fire to be a pleasant resting-place.

Ṛk 10

On Pedu ye bestowed, Aśvins, a courser white, mighty with nine-and-ninety varied gifts of strength, A horse to be renowned, who bore his friend at speed, joy-giving, Bhaga-like to be invoked of men.

Ṛk 11

From no side, ye Two Kings whom none may check or stay, doth grief, distress, or danger come u on the man Whom, Aśvins swift to hear, borne on your glowing path, ye with your Consort make the foremost in the race.

Ṛk 12

Come on that Chariot which the Ṛbhus wrought for you, the Chariot, Aśvins, that is speedier than thought, At harnessing whereof Heaven's Daughter springs to birth, and from Vivasvān come auspicious Night and Day.

Ṛk 13

Come, Conquerors of the sundered mountain, to our home, Aśvins who made the cow stream milk for Śayu's sake, Ye who delivered even from the wolf's deep throat and set again at liberty the swallowed quail.