Sūkta 127
- Devatā देवता
- Rātri Stavaḥ
- Ṛṣi ऋषि
- Kuśika Saubhara Or Rātri Bhāradvājī
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles virāḍgāyatrī (1, 3, 6); gāyatrī (4, 5, 8); gāyatrī (pādanicṛdgāyatrī) (2); nicṛdgāyatrī (7)
2nd set of styles gāyatrī
-
Ṛk 1
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥रात्री व्य् अख्यद् आयती पुरुत्रा देव्य् अक्षभिः |
विश्वा अधि श्रियो ऽधित ||rā́trī vyákhyadāyatī́ purutrā́ devyákṣábhiḥ ǀ
víśvā ádhi śríyo’dhita ǁrātrī vy akhyad āyatī purutrā devy akṣabhiḥ |
viśvā adhi śriyo 'dhita ||रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥रात्री । वि । अख्यत् । आऽयती । पुरुऽत्रा । देवी । अक्षऽभिः ।
विश्वाः । अधि । श्रियः । अधित ॥rā́trī ǀ ví ǀ akhyat ǀ ā-yatī́ ǀ puru-trā́ ǀ devī́ ǀ akṣá-bhiḥ ǀ
víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ adhita ǁrātrī ǀ vi ǀ akhyat ǀ ā-yatī ǀ puru-trā ǀ devī ǀ akṣa-bhiḥ ǀ
viśvāḥ ǀ adhi ǀ śriyaḥ ǀ adhita ǁ10.127.1 Aṣṭaka 8.7.14.1Anuvāka 10.10.130
-
Ṛk 2
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥ओर्व् अप्रा अमर्त्या निवतो देव्य् उद्वतः |
ज्योतिषा बाधते तमः ||órváprā ámartyā niváto devyúdvátaḥ ǀ
jyótiṣā bādhate támaḥ ǁorv aprā amartyā nivato devy udvataḥ |
jyotiṣā bādhate tamaḥ ||आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।
ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥आ । उरु । अप्राः । अमर्त्या । निऽवतः । देवी । उत्ऽवतः ।
ज्योतिषा । बाधते । तमः ॥ā́ ǀ urú ǀ aprāḥ ǀ ámartyā ǀ ni-vátaḥ ǀ devī́ ǀ ut-vátaḥ ǀ
jyótiṣā ǀ bādhate ǀ támaḥ ǁā ǀ uru ǀ aprāḥ ǀ amartyā ǀ ni-vataḥ ǀ devī ǀ ut-vataḥ ǀ
jyotiṣā ǀ bādhate ǀ tamaḥ ǁ10.127.2 Aṣṭaka 8.7.14.2Anuvāka 10.10.131
-
Ṛk 3
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥निर् उ स्वसारम् अस्कृतोषसं देव्य् आयती |
अपेद् उ हासते तमः ||níru svásāramaskṛtoṣásam devyā́yatī́ ǀ
ápédu hāsate támaḥ ǁnir u svasāram askṛtoṣasaṃ devy āyatī |
aped u hāsate tamaḥ ||निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।
अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥निः । ऊं इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती ।
अप । इत् । ऊं इति । हासते । तमः ॥níḥ ǀ ūṃ íti ǀ svásāram ǀ akṛta ǀ uṣásam ǀ devī́ ǀ ā-yatī́ ǀ
ápa ǀ ít ǀ ūṃ íti ǀ hāsate ǀ támaḥ ǁniḥ ǀ ūṃ iti ǀ svasāram ǀ akṛta ǀ uṣasam ǀ devī ǀ ā-yatī ǀ
apa ǀ it ǀ ūṃ iti ǀ hāsate ǀ tamaḥ ǁ10.127.3 Aṣṭaka 8.7.14.3Anuvāka 10.10.132
-
Ṛk 4
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वयः॑ ॥सा नो अद्य यस्या वयं नि ते यामन्न् अविक्ष्महि |
वृक्षे न वसतिं वयः ||sā́ no adyá yásyā vayám ní te yā́mannávikṣmahi ǀ
vṛkṣé ná vasatím váyaḥ ǁsā no adya yasyā vayaṃ ni te yāmann avikṣmahi |
vṛkṣe na vasatiṃ vayaḥ ||सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।
वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि ।
वृक्षे । न । वसतिम् । वयः ॥sā́ ǀ naḥ ǀ adyá ǀ yásyāḥ ǀ vayám ǀ ní ǀ te ǀ yā́man ǀ ávikṣmahi ǀ
vṛkṣé ǀ ná ǀ vasatím ǀ váyaḥ ǁsā ǀ naḥ ǀ adya ǀ yasyāḥ ǀ vayam ǀ ni ǀ te ǀ yāman ǀ avikṣmahi ǀ
vṛkṣe ǀ na ǀ vasatim ǀ vayaḥ ǁ10.127.4 Aṣṭaka 8.7.14.4Anuvāka 10.10.133
-
Ṛk 5
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वंतो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः |
नि श्येनासश् चिद् अर्थिनः ||ní grā́māso avikṣata ní padvánto ní pakṣíṇaḥ ǀ
ní śyenā́saścidarthínaḥ ǁni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ |
ni śyenāsaś cid arthinaḥ ||नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।
नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥नि । ग्रामासः । अविक्षत । नि । पत्ऽवन्तः । नि । पक्षिणः ।
नि । श्येनासः । चित् । अर्थिनः ॥ní ǀ grā́māsaḥ ǀ avikṣata ǀ ní ǀ pat-vántaḥ ǀ ní ǀ pakṣíṇaḥ ǀ
ní ǀ śyenā́saḥ ǀ cit ǀ arthínaḥ ǁni ǀ grāmāsaḥ ǀ avikṣata ǀ ni ǀ pat-vantaḥ ǀ ni ǀ pakṣiṇaḥ ǀ
ni ǀ śyenāsaḥ ǀ cit ǀ arthinaḥ ǁ10.127.5 Aṣṭaka 8.7.14.5Anuvāka 10.10.134
-
Ṛk 6
या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥यावया वृक्यं वृकं यवय स्तेनम् ऊर्म्ये |
अथा नः सुतरा भव ||yāváyā vṛkyám vṛ́kam yaváya stenámūrmye ǀ
áthā naḥ sutárā bhava ǁyāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye |
athā naḥ sutarā bhava ||य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये ।
अथ । नः । सुऽतरा । भव ॥yaváya ǀ vṛkyám ǀ vṛ́kam ǀ yaváya ǀ stenám ǀ ūrmye ǀ
átha ǀ naḥ ǀ su-tárā ǀ bhava ǁyavaya ǀ vṛkyam ǀ vṛkam ǀ yavaya ǀ stenam ǀ ūrmye ǀ
atha ǀ naḥ ǀ su-tarā ǀ bhava ǁ10.127.6 Aṣṭaka 8.7.14.6Anuvāka 10.10.135
-
Ṛk 7
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥उप मा पेपिशत् तमः कृष्णं व्यक्तम् अस्थित |
उष ऋणेव यातय ||úpa mā pépiśattámaḥ kṛṣṇám vyáktamasthita ǀ
úṣa ṛṇéva yātaya ǁupa mā pepiśat tamaḥ kṛṣṇaṃ vyaktam asthita |
uṣa ṛṇeva yātaya ||उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।
उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥उप । मा । पेपिशत् । तमः । कृष्णम् । विऽअक्तम् । अस्थित ।
उषः । ऋणाऽइव । यातय ॥úpa ǀ mā ǀ pépiśat ǀ támaḥ ǀ kṛṣṇám ǀ ví-aktam ǀ asthita ǀ
úṣaḥ ǀ ṛṇā́-iva ǀ yātaya ǁupa ǀ mā ǀ pepiśat ǀ tamaḥ ǀ kṛṣṇam ǀ vi-aktam ǀ asthita ǀ
uṣaḥ ǀ ṛṇā-iva ǀ yātaya ǁ10.127.7 Aṣṭaka 8.7.14.7Anuvāka 10.10.136
-
Ṛk 8
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥उप ते गा इवाकरं वृणीष्व दुहितर् दिवः |
रात्रि स्तोमं न जिग्युषे ||úpa te gā́ ivā́karam vṛṇīṣvá duhitardivaḥ ǀ
rā́tri stómam ná jigyúṣe ǁupa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ |
rātri stomaṃ na jigyuṣe ||उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।
रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥उप । ते । गाःऽइव । आ । अकरम् । वृणीष्व । दुहितः । दिवः ।
रात्रि । स्तोमम् । न । जिग्युषे ॥úpa ǀ te ǀ gā́ḥ-iva ǀ ā́ ǀ akaram ǀ vṛṇīṣvá ǀ duhitaḥ ǀ divaḥ ǀ
rā́tri ǀ stómam ǀ ná ǀ jigyúṣe ǁupa ǀ te ǀ gāḥ-iva ǀ ā ǀ akaram ǀ vṛṇīṣva ǀ duhitaḥ ǀ divaḥ ǀ
rātri ǀ stomam ǀ na ǀ jigyuṣe ǁ10.127.8 Aṣṭaka 8.7.14.8Anuvāka 10.10.137
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.