Sūkta 165
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kapota Nairṛta
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3); svarāṭtriṣṭup (1); bhuriktriṣṭup (4); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छंदू॒तो निर्ऋ॑त्या इ॒दमा॑ज॒गाम॑ ।
तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥देवाः कपोत इषितो यद् इच्छन् दूतो निरृत्या इदम् आजगाम |
तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ||dévāḥ kapóta iṣitó yádicchándūtó nírṛtyā idámājagā́ma ǀ
tásmā arcāma kṛṇávāma níṣkṛtim śám no astu dvipáde śám cátuṣpade ǁdevāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma |
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade ||देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ ।
तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगाम ।
तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥dévāḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ yát ǀ icchán ǀ dūtáḥ ǀ níḥ-ṛtyāḥ ǀ idám ǀ ā-jagā́ma ǀ
tásmai ǀ arcāma ǀ kṛṇávāma ǀ níḥ-kṛtim ǀ śám ǀ naḥ ǀ astu ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁdevāḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ yat ǀ icchan ǀ dūtaḥ ǀ niḥ-ṛtyāḥ ǀ idam ǀ ā-jagāma ǀ
tasmai ǀ arcāma ǀ kṛṇavāma ǀ niḥ-kṛtim ǀ śam ǀ naḥ ǀ astu ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ10.165.1 Aṣṭaka 8.8.23.1Anuvāka 10.12.69
-
Ṛk 2
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।
अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु |
अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ||śiváḥ kapóta iṣitó no astvanāgā́ devāḥ śakunó gṛhéṣu ǀ
agnírhí vípro juṣátām havírnaḥ pári hetíḥ pakṣíṇī no vṛṇaktu ǁśivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu |
agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ ।
अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु ।
अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥śiváḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ naḥ ǀ astu ǀ anāgā́ḥ ǀ devāḥ ǀ śakunáḥ ǀ gṛhéṣu ǀ
agníḥ ǀ hí ǀ vípraḥ ǀ juṣátām ǀ havíḥ ǀ naḥ ǀ pári ǀ hetíḥ ǀ pakṣíṇī ǀ naḥ ǀ vṛṇaktu ǁśivaḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ naḥ ǀ astu ǀ anāgāḥ ǀ devāḥ ǀ śakunaḥ ǀ gṛheṣu ǀ
agniḥ ǀ hi ǀ vipraḥ ǀ juṣatām ǀ haviḥ ǀ naḥ ǀ pari ǀ hetiḥ ǀ pakṣiṇī ǀ naḥ ǀ vṛṇaktu ǁ10.165.2 Aṣṭaka 8.8.23.2Anuvāka 10.12.70
-
Ṛk 3
हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने॑ ।
शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो॑ हिंसीदि॒ह दे॑वाः क॒पोतः॑ ॥हेतिः पक्षिणी न दभात्य् अस्मान् आष्ट्र्याम् पदं कृणुते अग्निधाने |
शं नो गोभ्यश् च पुरुषेभ्यश् चास्तु मा नो हिंसीद् इह देवाः कपोतः ||hetíḥ pakṣíṇī ná dabhātyasmā́nāṣṭryā́m padám kṛṇute agnidhā́ne ǀ
śám no góbhyaśca púruṣebhyaścāstu mā́ no hiṃsīdihá devāḥ kapótaḥ ǁhetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne |
śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ ||हे॒तिः । प॒क्षिणी॑ । न । द॒भा॒ति॒ । अ॒स्मान् । आ॒ष्ट्र्याम् । प॒दम् । कृ॒णु॒ते॒ । अ॒ग्नि॒ऽधाने॑ ।
शम् । नः॒ । गोभ्यः॑ । च॒ । पुरु॑षेभ्यः । च॒ । अ॒स्तु॒ । मा । नः॒ । हिं॒सी॒त् । इ॒ह । दे॒वाः॒ । क॒पोतः॑ ॥हेतिः । पक्षिणी । न । दभाति । अस्मान् । आष्ट्र्याम् । पदम् । कृणुते । अग्निऽधाने ।
शम् । नः । गोभ्यः । च । पुरुषेभ्यः । च । अस्तु । मा । नः । हिंसीत् । इह । देवाः । कपोतः ॥hetíḥ ǀ pakṣíṇī ǀ ná ǀ dabhāti ǀ asmā́n ǀ āṣṭryā́m ǀ padám ǀ kṛṇute ǀ agni-dhā́ne ǀ
śám ǀ naḥ ǀ góbhyaḥ ǀ ca ǀ púruṣebhyaḥ ǀ ca ǀ astu ǀ mā́ ǀ naḥ ǀ hiṃsīt ǀ ihá ǀ devāḥ ǀ kapótaḥ ǁhetiḥ ǀ pakṣiṇī ǀ na ǀ dabhāti ǀ asmān ǀ āṣṭryām ǀ padam ǀ kṛṇute ǀ agni-dhāne ǀ
śam ǀ naḥ ǀ gobhyaḥ ǀ ca ǀ puruṣebhyaḥ ǀ ca ǀ astu ǀ mā ǀ naḥ ǀ hiṃsīt ǀ iha ǀ devāḥ ǀ kapotaḥ ǁ10.165.3 Aṣṭaka 8.8.23.3Anuvāka 10.12.71
-
Ṛk 4
यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ।
यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥यद् उलूको वदति मोघम् एतद् यत् कपोतः पदम् अग्नौ कृणोति |
यस्य दूतः प्रहित एष एतत् तस्मै यमाय नमो अस्तु मृत्यवे ||yádúlūko vádati moghámetádyátkapótaḥ padámagnáu kṛṇóti ǀ
yásya dūtáḥ práhita eṣá etáttásmai yamā́ya námo astu mṛtyáve ǁyad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti |
yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave ||यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ।
यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति ।
यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥yát ǀ úlūkaḥ ǀ vádati ǀ moghám ǀ etát ǀ yát ǀ kapótaḥ ǀ padám ǀ agnáu ǀ kṛṇóti ǀ
yásya ǀ dūtáḥ ǀ prá-hitaḥ ǀ eṣáḥ ǀ etát ǀ tásmai ǀ yamā́ya ǀ námaḥ ǀ astu ǀ mṛtyáve ǁyat ǀ ulūkaḥ ǀ vadati ǀ mogham ǀ etat ǀ yat ǀ kapotaḥ ǀ padam ǀ agnau ǀ kṛṇoti ǀ
yasya ǀ dūtaḥ ǀ pra-hitaḥ ǀ eṣaḥ ǀ etat ǀ tasmai ǀ yamāya ǀ namaḥ ǀ astu ǀ mṛtyave ǁ10.165.4 Aṣṭaka 8.8.23.4Anuvāka 10.12.72
-
Ṛk 5
ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मदं॑तः॒ परि॒ गां न॑यध्वं ।
सं॒यो॒पयं॑तो दुरि॒तानि॒ विश्वा॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ॥ऋचा कपोतं नुदत प्रणोदम् इषम् मदन्तः परि गां नयध्वम् |
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जम् प्र पतात् पतिष्ठः ||ṛcā́ kapótam nudata praṇódamíṣam mádantaḥ pári gā́m nayadhvam ǀ
saṃyopáyanto duritā́ni víśvā hitvā́ na ū́rjam prá patātpátiṣṭhaḥ ǁṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam |
saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ ||ऋ॒चा । क॒पोत॑म् । नु॒द॒त॒ । प्र॒ऽनोद॑म् । इष॑म् । मद॑न्तः । परि॑ । गाम् । न॒य॒ध्व॒म् ।
स॒म्ऽयो॒पय॑न्तः । दुः॒ऽइ॒तानि॑ । विश्वा॑ । हि॒त्वा । नः॒ । ऊर्ज॑म् । प्र । प॒ता॒त् । पति॑ष्ठः ॥ऋचा । कपोतम् । नुदत । प्रऽनोदम् । इषम् । मदन्तः । परि । गाम् । नयध्वम् ।
सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥ṛcā́ ǀ kapótam ǀ nudata ǀ pra-nódam ǀ íṣam ǀ mádantaḥ ǀ pári ǀ gā́m ǀ nayadhvam ǀ
sam-yopáyantaḥ ǀ duḥ-itā́ni ǀ víśvā ǀ hitvā́ ǀ naḥ ǀ ū́rjam ǀ prá ǀ patāt ǀ pátiṣṭhaḥ ǁṛcā ǀ kapotam ǀ nudata ǀ pra-nodam ǀ iṣam ǀ madantaḥ ǀ pari ǀ gām ǀ nayadhvam ǀ
sam-yopayantaḥ ǀ duḥ-itāni ǀ viśvā ǀ hitvā ǀ naḥ ǀ ūrjam ǀ pra ǀ patāt ǀ patiṣṭhaḥ ǁ10.165.5 Aṣṭaka 8.8.23.5Anuvāka 10.12.73
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.