Ṛgveda · Maṇḍala 10 · Sūkta 165
Ṛk 10.165.2
Saṃhitā
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ ।
अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
शिवः कपोत इषितो नो अस्त्व् अनागा देवाः शकुनो गृहेषु |
अग्निर् हि विप्रो जुषतां हविर् नः परि हेतिः पक्षिणी नो वृणक्तु ||
śiváḥ kapóta iṣitó no astvanāgā́ devāḥ śakunó gṛhéṣu ǀ
agnírhí vípro juṣátām havírnaḥ pári hetíḥ pakṣíṇī no vṛṇaktu ǁ
śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu |
agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||
Padapāṭha
शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ ।
अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥
शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु ।
अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥
śiváḥ ǀ kapótaḥ ǀ iṣitáḥ ǀ naḥ ǀ astu ǀ anāgā́ḥ ǀ devāḥ ǀ śakunáḥ ǀ gṛhéṣu ǀ
agníḥ ǀ hí ǀ vípraḥ ǀ juṣátām ǀ havíḥ ǀ naḥ ǀ pári ǀ hetíḥ ǀ pakṣíṇī ǀ naḥ ǀ vṛṇaktu ǁ
śivaḥ ǀ kapotaḥ ǀ iṣitaḥ ǀ naḥ ǀ astu ǀ anāgāḥ ǀ devāḥ ǀ śakunaḥ ǀ gṛheṣu ǀ
agniḥ ǀ hi ǀ vipraḥ ǀ juṣatām ǀ haviḥ ǀ naḥ ǀ pari ǀ hetiḥ ǀ pakṣiṇī ǀ naḥ ǀ vṛṇaktu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.165.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.23.02
- Maṇḍala · Anuvāka · Ṛk
- 10.12.070
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kapota Nairṛta
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.