Sūkta 102
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Mudgala Bhārmyaśva
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 5, 9); virāṭtrisṭup (7, 8, 10); nicṛdbṛhatī (3, 12); pādnicṛdbṛhatī (1); bhuriktriṣṭup (6); pādanicṛttriṣṭup (11)
2nd set of styles triṣṭubh (2, 4-11); bṛhatī (1, 3, 12)
-
Ṛk 1
प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या ।
अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥प्र ते रथम् मिथूकृतम् इन्द्रो ऽवतु धृष्णुया |
अस्मिन्न् आजौ पुरुहूत श्रवाय्ये धनभक्षेषु नो ऽव ||prá te rátham mithūkṛ́tamíndro’vatu dhṛṣṇuyā́ ǀ
asmínnājáu puruhūta śravā́yye dhanabhakṣéṣu no’va ǁpra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā |
asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va ||प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया ।
अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥प्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया ।
अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥prá ǀ te ǀ rátham ǀ mithu-kṛ́tam ǀ índraḥ ǀ avatu ǀ dhṛṣṇu-yā́ ǀ
asmín ǀ ājáu ǀ puru-hūta ǀ śravā́yye ǀ dhana-bhakṣéṣu ǀ naḥ ǀ ava ǁpra ǀ te ǀ ratham ǀ mithu-kṛtam ǀ indraḥ ǀ avatu ǀ dhṛṣṇu-yā ǀ
asmin ǀ ājau ǀ puru-hūta ǀ śravāyye ǀ dhana-bhakṣeṣu ǀ naḥ ǀ ava ǁ10.102.1 Aṣṭaka 8.5.20.1Anuvāka 10.9.25
-
Ṛk 2
उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्रं॑ ।
र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिंद्रसे॒ना ॥उत् स्म वातो वहति वासो ऽस्या अधिरथं यद् अजयत् सहस्रम् |
रथीर् अभून् मुद्गलानी गविष्टौ भरे कृतं व्य् अचेद् इन्द्रसेना ||útsma vā́to vahati vā́so’syā ádhiratham yádájayatsahásram ǀ
rathī́rabhūnmudgalā́nī gáviṣṭau bháre kṛtám vyácedindrasenā́ ǁut sma vāto vahati vāso 'syā adhirathaṃ yad ajayat sahasram |
rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā ||उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।
र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥उत् । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथम् । यत् । अजयत् । सहस्रम् ।
रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥út ǀ sma ǀ vā́taḥ ǀ vahati ǀ vā́saḥ ǀ asyāḥ ǀ ádhi-ratham ǀ yát ǀ ájayat ǀ sahásram ǀ
rathī́ḥ ǀ abhūt ǀ mudgalā́nī ǀ gó-iṣṭau ǀ bháre ǀ kṛtám ǀ ví ǀ acet ǀ indra-senā́ ǁut ǀ sma ǀ vātaḥ ǀ vahati ǀ vāsaḥ ǀ asyāḥ ǀ adhi-ratham ǀ yat ǀ ajayat ǀ sahasram ǀ
rathīḥ ǀ abhūt ǀ mudgalānī ǀ go-iṣṭau ǀ bhare ǀ kṛtam ǀ vi ǀ acet ǀ indra-senā ǁ10.102.2 Aṣṭaka 8.5.20.2Anuvāka 10.9.26
-
Ṛk 3
अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।
दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धं ॥अन्तर् यच्छ जिघांसतो वज्रम् इन्द्राभिदासतः |
दासस्य वा मघवन्न् आर्यस्य वा सनुतर् यवया वधम् ||antáryaccha jíghāṃsato vájramindrābhidā́sataḥ ǀ
dā́sasya vā maghavannā́ryasya vā sanutáryavayā vadhám ǁantar yaccha jighāṃsato vajram indrābhidāsataḥ |
dāsasya vā maghavann āryasya vā sanutar yavayā vadham ||अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।
दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभिऽदासतः ।
दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥antáḥ ǀ yaccha ǀ jíghāṃsataḥ ǀ vájram ǀ indra ǀ abhi-dā́sataḥ ǀ
dā́sasya ǀ vā ǀ magha-van ǀ ā́ryasya ǀ vā ǀ sanutáḥ ǀ yavaya ǀ vadhám ǁantaḥ ǀ yaccha ǀ jighāṃsataḥ ǀ vajram ǀ indra ǀ abhi-dāsataḥ ǀ
dāsasya ǀ vā ǀ magha-van ǀ āryasya ǀ vā ǀ sanutaḥ ǀ yavaya ǀ vadham ǁ10.102.3 Aṣṭaka 8.5.20.3Anuvāka 10.9.27
-
Ṛk 4
उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।
प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥उद्नो ह्रदम् अपिबज् जर्हृषाणः कूटं स्म तृंहद् अभिमातिम् एति |
प्र मुष्कभारः श्रव इच्छमानो ऽजिरम् बाहू अभरत् सिषासन् ||udnó hradámapibajjárhṛṣāṇaḥ kū́ṭam sma tṛṃhádabhímātimeti ǀ
prá muṣkábhāraḥ śráva icchámāno’jirám bāhū́ abharatsíṣāsan ǁudno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti |
pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan ||उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।
प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिऽमातिम् । एति ।
प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥udnáḥ ǀ hradám ǀ apibat ǀ járhṛṣāṇaḥ ǀ kū́ṭam ǀ sma ǀ tṛṃhát ǀ abhí-mātim ǀ eti ǀ
prá ǀ muṣká-bhāraḥ ǀ śrávaḥ ǀ icchámānaḥ ǀ ajirám ǀ bāhū́ íti ǀ abharat ǀ sísāsan ǁudnaḥ ǀ hradam ǀ apibat ǀ jarhṛṣāṇaḥ ǀ kūṭam ǀ sma ǀ tṛṃhat ǀ abhi-mātim ǀ eti ǀ
pra ǀ muṣka-bhāraḥ ǀ śravaḥ ǀ icchamānaḥ ǀ ajiram ǀ bāhū iti ǀ abharat ǀ sisāsan ǁ10.102.4 Aṣṭaka 8.5.20.4Anuvāka 10.9.28
-
Ṛk 5
न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।
तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः |
तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ||nyákrandayannupayánta enamámehayanvṛṣabhám mádhya ājéḥ ǀ
téna sū́bharvam śatávatsahásram gávām múdgalaḥ pradháne jigāya ǁny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ |
tena sūbharvaṃ śatavat sahasraṃ gavām mudgalaḥ pradhane jigāya ||नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।
तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।
तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥ní ǀ akrandayan ǀ upa-yántaḥ ǀ enam ǀ ámehayan ǀ vṛṣabhám ǀ mádhye ǀ ājéḥ ǀ
téna ǀ sū́bharvam ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pra-dháne ǀ jigāya ǁni ǀ akrandayan ǀ upa-yantaḥ ǀ enam ǀ amehayan ǀ vṛṣabham ǀ madhye ǀ ājeḥ ǀ
tena ǀ sūbharvam ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pra-dhane ǀ jigāya ǁ10.102.5 Aṣṭaka 8.5.20.5Anuvāka 10.9.29
-
Ṛk 6
क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।
दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छंति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानीं॑ ॥ककर्दवे वृषभो युक्त आसीद् अवावचीत् सारथिर् अस्य केशी |
दुधेर् युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ||kakárdave vṛṣabhó yuktá āsīdávāvacītsā́rathirasya keśī́ ǀ
dúdheryuktásya drávataḥ sahā́nasa ṛcchánti ṣmā niṣpádo mudgalā́nīm ǁkakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī |
dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm ||क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।
दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥ककर्दवे । वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी ।
दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥kakárdave ǀ vṛṣabháḥ ǀ yuktáḥ ǀ āsīt ǀ ávāvacīt ǀ sā́rathiḥ ǀ asya ǀ keśī́ ǀ
dúdheḥ ǀ yuktásya ǀ drávataḥ ǀ sahá ǀ ánasā ǀ ṛcchánti ǀ sma ǀ niḥ-pádaḥ ǀ mudgalā́nīm ǁkakardave ǀ vṛṣabhaḥ ǀ yuktaḥ ǀ āsīt ǀ avāvacīt ǀ sārathiḥ ǀ asya ǀ keśī ǀ
dudheḥ ǀ yuktasya ǀ dravataḥ ǀ saha ǀ anasā ǀ ṛcchanti ǀ sma ǀ niḥ-padaḥ ǀ mudgalānīm ǁ10.102.6 Aṣṭaka 8.5.20.6Anuvāka 10.9.30
-
Ṛk 7
उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।
इंद्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥उत प्रधिम् उद् अहन्न् अस्य विद्वान् उपायुनग् वंसगम् अत्र शिक्षन् |
इन्द्र उद् आवत् पतिम् अघ्न्यानाम् अरंहत पद्याभिः ककुद्मान् ||utá pradhímúdahannasya vidvā́núpāyunagváṃsagamátra śíkṣan ǀ
índra údāvatpátimághnyānāmáraṃhata pádyābhiḥ kakúdmān ǁuta pradhim ud ahann asya vidvān upāyunag vaṃsagam atra śikṣan |
indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān ||उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।
इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥उत । प्रऽधिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् ।
इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥utá ǀ pra-dhím ǀ út ǀ ahan ǀ asya ǀ vidvā́n ǀ úpa ǀ ayunak ǀ váṃsagam ǀ átra ǀ śíkṣan ǀ
índraḥ ǀ út ǀ āvat ǀ pátim ǀ ághnyānām ǀ áraṃhata ǀ pádyābhiḥ ǀ kakút-mān ǁuta ǀ pra-dhim ǀ ut ǀ ahan ǀ asya ǀ vidvān ǀ upa ǀ ayunak ǀ vaṃsagam ǀ atra ǀ śikṣan ǀ
indraḥ ǀ ut ǀ āvat ǀ patim ǀ aghnyānām ǀ araṃhata ǀ padyābhiḥ ǀ kakut-mān ǁ10.102.7 Aṣṭaka 8.5.21.1Anuvāka 10.9.31
-
Ṛk 8
शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः ।
नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥शुनम् अष्ट्राव्य् अचरत् कपर्दी वरत्रायां दार्व् आनह्यमानः |
नृम्णानि कृण्वन् बहवे जनाय गाः पस्पशानस् तविषीर् अधत्त ||śunámaṣṭrāvyácaratkapardī́ varatrā́yām dā́rvānáhyamānaḥ ǀ
nṛmṇā́ni kṛṇvánbaháve jánāya gā́ḥ paspaśānástáviṣīradhatta ǁśunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ |
nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta ||शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया॑म् । दारु॑ । आ॒ऽनह्य॑मानः ।
नृ॒म्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥शुनम् । अष्ट्राऽवी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आऽनह्यमानः ।
नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥śunám ǀ aṣṭrā-vī́ ǀ acarat ǀ kapardī́ ǀ varatrā́yām ǀ dā́ru ǀ ā-náhyamānaḥ ǀ
nṛmṇā́ni ǀ kṛṇván ǀ baháve ǀ jánāya ǀ gā́ḥ ǀ paspaśānáḥ ǀ táviṣīḥ ǀ adhatta ǁśunam ǀ aṣṭrā-vī ǀ acarat ǀ kapardī ǀ varatrāyām ǀ dāru ǀ ā-nahyamānaḥ ǀ
nṛmṇāni ǀ kṛṇvan ǀ bahave ǀ janāya ǀ gāḥ ǀ paspaśānaḥ ǀ taviṣīḥ ǀ adhatta ǁ10.102.8 Aṣṭaka 8.5.21.2Anuvāka 10.9.32
-
Ṛk 9
इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं ।
येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥इमं तम् पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् |
येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ||imám tám paśya vṛṣabhásya yúñjam kā́ṣṭhāyā mádhye drughaṇám śáyānam ǀ
yéna jigā́ya śatávatsahásram gávām múdgalaḥ pṛtanā́jyeṣu ǁimaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam |
yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu ||इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।
येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।
येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥imám ǀ tám ǀ paśya ǀ vṛṣabhásya ǀ yúñjam ǀ kā́ṣṭhāyāḥ ǀ mádhye ǀ dru-ghanám ǀ śáyānam ǀ
yéna ǀ jigā́ya ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pṛtanā́jyeṣu ǁimam ǀ tam ǀ paśya ǀ vṛṣabhasya ǀ yuñjam ǀ kāṣṭhāyāḥ ǀ madhye ǀ dru-ghanam ǀ śayānam ǀ
yena ǀ jigāya ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pṛtanājyeṣu ǁ10.102.9 Aṣṭaka 8.5.21.3Anuvāka 10.9.33
-
Ṛk 10
आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं युं॒जंति॒ तम्वा स्था॑पयंति ।
नास्मै॒ तृणं॒ नोद॒कमा भ॑रं॒त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥आरे अघा को न्व् इत्था ददर्श यं युञ्जन्ति तम् व् आ स्थापयन्ति |
नास्मै तृणं नोदकम् आ भरन्त्य् उत्तरो धुरो वहति प्रदेदिशत् ||āré aghā́ kó nvítthā́ dadarśa yám yuñjánti támvā́ sthāpayanti ǀ
nā́smai tṛ́ṇam nódakámā́ bharantyúttaro dhuró vahati pradédiśat ǁāre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti |
nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat ||आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।
न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊं इति । आ । स्थापयन्ति ।
न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥āré ǀ aghā́ ǀ káḥ ǀ nú ǀ itthā́ ǀ dadarśa ǀ yám ǀ yuñjánti ǀ tám ǀ ūṃ íti ǀ ā́ ǀ sthāpayanti ǀ
ná ǀ asmai ǀ tṛ́ṇam ǀ ná ǀ udakám ǀ ā́ ǀ bharanti ǀ út-taraḥ ǀ dhuráḥ ǀ vahati ǀ pra-dédiśat ǁāre ǀ aghā ǀ kaḥ ǀ nu ǀ itthā ǀ dadarśa ǀ yam ǀ yuñjanti ǀ tam ǀ ūṃ iti ǀ ā ǀ sthāpayanti ǀ
na ǀ asmai ǀ tṛṇam ǀ na ǀ udakam ǀ ā ǀ bharanti ǀ ut-taraḥ ǀ dhuraḥ ǀ vahati ǀ pra-dediśat ǁ10.102.10 Aṣṭaka 8.5.21.4Anuvāka 10.9.34
-
Ṛk 11
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् ।
ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥परिवृक्तेव पतिविद्यम् आनट् पीप्याना कूचक्रेणेव सिञ्चन् |
एषैष्या चिद् रथ्या जयेम सुमङ्गलं सिनवद् अस्तु सातम् ||parivṛktéva pativídyamānaṭ pī́pyānā kū́cakreṇeva siñcán ǀ
eṣaiṣyā́ cidrathyā́ jayema sumaṅgálam sínavadastu sātám ǁparivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan |
eṣaiṣyā cid rathyā jayema sumaṅgalaṃ sinavad astu sātam ||प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।
ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।
एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥parivṛktā́-iva ǀ pati-vídyam ǀ ānaṭ ǀ pī́pyānā ǀ kū́cakreṇa-iva ǀ siñcán ǀ
eṣa-eṣyā́ ǀ cit ǀ rathyā́ ǀ jayema ǀ su-maṅgálam ǀ sína-vat ǀ astu ǀ sātám ǁparivṛktā-iva ǀ pati-vidyam ǀ ānaṭ ǀ pīpyānā ǀ kūcakreṇa-iva ǀ siñcan ǀ
eṣa-eṣyā ǀ cit ǀ rathyā ǀ jayema ǀ su-maṅgalam ǀ sina-vat ǀ astu ǀ sātam ǁ10.102.11 Aṣṭaka 8.5.21.5Anuvāka 10.9.35
-
Ṛk 12
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिंद्रासि॒ चक्षु॑षः ।
वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥त्वं विश्वस्य जगतश् चक्षुर् इन्द्रासि चक्षुषः |
वृषा यद् आजिं वृषणा सिषाससि चोदयन् वध्रिणा युजा ||tvám víśvasya jágataścákṣurindrāsi cákṣuṣaḥ ǀ
vṛ́ṣā yádājím vṛ́ṣaṇā síṣāsasi codáyanvádhriṇā yujā́ ǁtvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ |
vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā ||त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।
वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः ।
वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥tvám ǀ víśvasya ǀ jágataḥ ǀ cákṣuḥ ǀ indra ǀ asi ǀ cákṣuṣaḥ ǀ
vṛ́ṣā ǀ yát ǀ ājím ǀ vṛ́ṣaṇā ǀ sísāsasi ǀ codáyan ǀ vádhriṇā ǀ yujā́ ǁtvam ǀ viśvasya ǀ jagataḥ ǀ cakṣuḥ ǀ indra ǀ asi ǀ cakṣuṣaḥ ǀ
vṛṣā ǀ yat ǀ ājim ǀ vṛṣaṇā ǀ sisāsasi ǀ codayan ǀ vadhriṇā ǀ yujā ǁ10.102.12 Aṣṭaka 8.5.21.6Anuvāka 10.9.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.