Ṛgveda · Maṇḍala 10 · Sūkta 102
Ṛk 10.102.9
Saṃhitā
इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं ।
येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥
इमं तम् पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् |
येन जिगाय शतवत् सहस्रं गवाम् मुद्गलः पृतनाज्येषु ||
imám tám paśya vṛṣabhásya yúñjam kā́ṣṭhāyā mádhye drughaṇám śáyānam ǀ
yéna jigā́ya śatávatsahásram gávām múdgalaḥ pṛtanā́jyeṣu ǁ
imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam |
yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu ||
Padapāṭha
इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।
येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥
इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।
येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥
imám ǀ tám ǀ paśya ǀ vṛṣabhásya ǀ yúñjam ǀ kā́ṣṭhāyāḥ ǀ mádhye ǀ dru-ghanám ǀ śáyānam ǀ
yéna ǀ jigā́ya ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pṛtanā́jyeṣu ǁ
imam ǀ tam ǀ paśya ǀ vṛṣabhasya ǀ yuñjam ǀ kāṣṭhāyāḥ ǀ madhye ǀ dru-ghanam ǀ śayānam ǀ
yena ǀ jigāya ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pṛtanājyeṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.102.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.21.03
- Maṇḍala · Anuvāka · Ṛk
- 10.09.033
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Mudgala Bhārmyaśva
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.