Ṛgveda · Maṇḍala 10 · Sūkta 102
Ṛk 10.102.5
Saṃhitā
न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।
तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥
न्य् अक्रन्दयन्न् उपयन्त एनम् अमेहयन् वृषभम् मध्य आजेः |
तेन सूभर्वं शतवत् सहस्रं गवाम् मुद्गलः प्रधने जिगाय ||
nyákrandayannupayánta enamámehayanvṛṣabhám mádhya ājéḥ ǀ
téna sū́bharvam śatávatsahásram gávām múdgalaḥ pradháne jigāya ǁ
ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ |
tena sūbharvaṃ śatavat sahasraṃ gavām mudgalaḥ pradhane jigāya ||
Padapāṭha
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।
तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।
तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥
ní ǀ akrandayan ǀ upa-yántaḥ ǀ enam ǀ ámehayan ǀ vṛṣabhám ǀ mádhye ǀ ājéḥ ǀ
téna ǀ sū́bharvam ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pra-dháne ǀ jigāya ǁ
ni ǀ akrandayan ǀ upa-yantaḥ ǀ enam ǀ amehayan ǀ vṛṣabham ǀ madhye ǀ ājeḥ ǀ
tena ǀ sūbharvam ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pra-dhane ǀ jigāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.102.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.20.05
- Maṇḍala · Anuvāka · Ṛk
- 10.09.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Mudgala Bhārmyaśva
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.