Ṛgveda · Maṇḍala 10

Sūkta 18

Mṛtyu · Dhātṛ · Tvaṣṭṛ · Pitṛmedhas · Yama, Pitṛmedhas · Pitṛmedha Or Prajāpati · Saṃkasuka Yāmāyana · 14 ṛks

Link
Devatā देवता
1-4: Mṛtyu; 5: Dhātṛ; 6: Tvaṣṭṛ; 7-12: Pitṛmedhas; 13: Yama, Pitṛmedhas; 14: Pitṛmedha Or Prajāpati
Ṛṣi ऋषि
Saṃkasuka Yāmāyana
Chandas छन्दस्
Triṣṭubh, Prastārapaṅkti, Jagatī, Anuṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 5, 7-9, 14); triṣṭup (2-4, 6, 12, 13); bhuriktriṣṭup (10); nicṛtpaṅkti (11)

2nd set of styles triṣṭubh (1-10, 12); prastārapaṅkti (11); jagatī (13); anuṣṭubh (14)

  1. Ṛk 1

    परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।
    चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥

    परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् |
    चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ||

    páram mṛtyo ánu párehi pánthām yáste svá ítaro devayā́nāt ǀ
    cákṣuṣmate śṛṇvaté te bravīmi mā́ naḥ prajā́m rīriṣo mótá vīrā́n ǁ

    param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt |
    cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān ||

    पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् ।
    चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥

    परम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् ।
    चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥

    páram ǀ mṛtyo íti ǀ ánu ǀ párā ǀ ihi ǀ pánthām ǀ yáḥ ǀ te ǀ sváḥ ǀ ítaraḥ ǀ deva-yā́nāt ǀ
    cákṣuṣmate ǀ śṛṇvaté ǀ te ǀ bravīmi ǀ mā́ ǀ naḥ ǀ pra-jā́m ǀ ririṣaḥ ǀ mā́ ǀ utá ǀ vīrā́n ǁ

    param ǀ mṛtyo iti ǀ anu ǀ parā ǀ ihi ǀ panthām ǀ yaḥ ǀ te ǀ svaḥ ǀ itaraḥ ǀ deva-yānāt ǀ
    cakṣuṣmate ǀ śṛṇvate ǀ te ǀ bravīmi ǀ mā ǀ naḥ ǀ pra-jām ǀ ririṣaḥ ǀ mā ǀ uta ǀ vīrān ǁ

    10.18.1 Aṣṭaka 7.6.26.1Anuvāka 10.2.15

  2. Ṛk 2

    मृ॒त्योः प॒दं यो॒पयं॑तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।
    आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥

    मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः |
    आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ||

    mṛtyóḥ padám yopáyanto yádáita drā́ghīya ā́yuḥ pratarám dádhānāḥ ǀ
    āpyā́yamānāḥ prajáyā dhánena śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ ǁ

    mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ |
    āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ||

    मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ।
    आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥

    मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ।
    आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥

    mṛtyóḥ ǀ padám ǀ yopáyantaḥ ǀ yát ǀ áita ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ pra-tarám ǀ dádhānāḥ ǀ
    āpyā́yamānāḥ ǀ pra-jáyā ǀ dhánena ǀ śuddhā́ḥ ǀ pūtā́ḥ ǀ bhavata ǀ yajñiyāsaḥ ǁ

    mṛtyoḥ ǀ padam ǀ yopayantaḥ ǀ yat ǀ aita ǀ drāghīyaḥ ǀ āyuḥ ǀ pra-taram ǀ dadhānāḥ ǀ
    āpyāyamānāḥ ǀ pra-jayā ǀ dhanena ǀ śuddhāḥ ǀ pūtāḥ ǀ bhavata ǀ yajñiyāsaḥ ǁ

    10.18.2 Aṣṭaka 7.6.26.2Anuvāka 10.2.16

  3. Ṛk 3

    इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।
    प्रांचो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥

    इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य |
    प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ||

    imé jīvā́ ví mṛtáirā́vavṛtrannábhūdbhadrā́ deváhūtirno adyá ǀ
    prā́ñco agāma nṛtáye hásāya drā́ghīya ā́yuḥ pratarám dádhānāḥ ǁ

    ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya |
    prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ ||

    इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य ।
    प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥

    इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य ।
    प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥

    imé ǀ jīvā́ḥ ǀ ví ǀ mṛtáiḥ ǀ ā́ ǀ avavṛtran ǀ ábhūt ǀ bhadrā́ ǀ devá-hūtiḥ ǀ naḥ ǀ adyá ǀ
    prā́ñcaḥ ǀ agāma ǀ nṛtáye ǀ hásāya ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ pra-tarám ǀ dádhānāḥ ǁ

    ime ǀ jīvāḥ ǀ vi ǀ mṛtaiḥ ǀ ā ǀ avavṛtran ǀ abhūt ǀ bhadrā ǀ deva-hūtiḥ ǀ naḥ ǀ adya ǀ
    prāñcaḥ ǀ agāma ǀ nṛtaye ǀ hasāya ǀ drāghīyaḥ ǀ āyuḥ ǀ pra-taram ǀ dadhānāḥ ǁ

    10.18.3 Aṣṭaka 7.6.26.3Anuvāka 10.2.17

  4. Ṛk 4

    इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तं ।
    श॒तं जी॑वंतु श॒रदः॑ पुरू॒चीरं॒तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

    इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् |
    शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ||

    imám jīvébhyaḥ paridhím dadhāmi máiṣām nú gādáparo árthametám ǀ
    śatám jīvantu śarádaḥ purūcī́rantármṛtyúm dadhatām párvatena ǁ

    imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam |
    śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena ||

    इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् ।
    श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥

    इमम् । जीवेभ्यः । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् ।
    शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥

    imám ǀ jīvébhyaḥ ǀ pari-dhím ǀ dadhāmi ǀ mā́ ǀ eṣām ǀ nú ǀ gāt ǀ áparaḥ ǀ ártham ǀ etám ǀ
    śatám ǀ jīvantu ǀ śarádaḥ ǀ purūcī́ḥ ǀ antáḥ ǀ mṛtyúm ǀ dadhatām ǀ párvatena ǁ

    imam ǀ jīvebhyaḥ ǀ pari-dhim ǀ dadhāmi ǀ mā ǀ eṣām ǀ nu ǀ gāt ǀ aparaḥ ǀ artham ǀ etam ǀ
    śatam ǀ jīvantu ǀ śaradaḥ ǀ purūcīḥ ǀ antaḥ ǀ mṛtyum ǀ dadhatām ǀ parvatena ǁ

    10.18.4 Aṣṭaka 7.6.26.4Anuvāka 10.2.18

  5. Ṛk 5

    यथाहा॑न्यनुपू॒र्वं भवं॑ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यंति॑ सा॒धु ।
    यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषां ॥

    यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु |
    यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ||

    yáthā́hānyanupūrvám bhávanti yátha ṛtáva ṛtúbhiryánti sādhú ǀ
    yáthā ná pū́rvamáparo jáhātyevā́ dhātarā́yūṃṣi kalpayaiṣām ǁ

    yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu |
    yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām ||

    यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तवः॑ । ऋ॒तुऽभिः॑ । यन्ति॑ । सा॒धु ।
    यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒तः॒ । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥

    यथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुऽभिः । यन्ति । साधु ।
    यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥

    yáthā ǀ áhāni ǀ anu-pūrvám ǀ bhávanti ǀ yáthā ǀ ṛtávaḥ ǀ ṛtú-bhiḥ ǀ yánti ǀ sādhú ǀ
    yáthā ǀ ná ǀ pū́rvam ǀ áparaḥ ǀ jáhāti ǀ evá ǀ dhātaḥ ǀ ā́yūṃṣi ǀ kalpaya ǀ eṣā́m ǁ

    yathā ǀ ahāni ǀ anu-pūrvam ǀ bhavanti ǀ yathā ǀ ṛtavaḥ ǀ ṛtu-bhiḥ ǀ yanti ǀ sādhu ǀ
    yathā ǀ na ǀ pūrvam ǀ aparaḥ ǀ jahāti ǀ eva ǀ dhātaḥ ǀ āyūṃṣi ǀ kalpaya ǀ eṣām ǁ

    10.18.5 Aṣṭaka 7.6.26.5Anuvāka 10.2.19

  6. Ṛk 6

    आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ ।
    इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥

    आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ |
    इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ||

    ā́ rohatā́yurjarásam vṛṇānā́ anupūrvám yátamānā yáti ṣṭhá ǀ
    ihá tváṣṭā sujánimā sajóṣā dīrghámā́yuḥ karati jīváse vaḥ ǁ

    ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha |
    iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ ||

    आ । रो॒ह॒त॒ । आयुः॑ । ज॒रस॑म् । वृ॒णा॒नाः । अ॒नु॒ऽपू॒र्वम् । यत॑मानाः । यति॑ । स्थ ।
    इ॒ह । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषाः॑ । दी॒र्घम् । आयुः॑ । क॒र॒ति॒ । जी॒वसे॑ । वः॒ ॥

    आ । रोहत । आयुः । जरसम् । वृणानाः । अनुऽपूर्वम् । यतमानाः । यति । स्थ ।
    इह । त्वष्टा । सुऽजनिमा । सऽजोषाः । दीर्घम् । आयुः । करति । जीवसे । वः ॥

    ā́ ǀ rohata ǀ ā́yuḥ ǀ jarásam ǀ vṛṇānā́ḥ ǀ anu-pūrvám ǀ yátamānāḥ ǀ yáti ǀ sthá ǀ
    ihá ǀ tváṣṭā ǀ su-jánimā ǀ sa-jóṣāḥ ǀ dīrghám ǀ ā́yuḥ ǀ karati ǀ jīváse ǀ vaḥ ǁ

    ā ǀ rohata ǀ āyuḥ ǀ jarasam ǀ vṛṇānāḥ ǀ anu-pūrvam ǀ yatamānāḥ ǀ yati ǀ stha ǀ
    iha ǀ tvaṣṭā ǀ su-janimā ǀ sa-joṣāḥ ǀ dīrgham ǀ āyuḥ ǀ karati ǀ jīvase ǀ vaḥ ǁ

    10.18.6 Aṣṭaka 7.6.27.1Anuvāka 10.2.20

  7. Ṛk 7

    इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒रांज॑नेन स॒र्पिषा॒ सं वि॑शंतु ।
    अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हंतु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

    इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं विशन्तु |
    अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ||

    imā́ nā́rīravidhavā́ḥ supátnīrā́ñjanena sarpíṣā sám viśantu ǀ
    anaśrávo’namīvā́ḥ surátnā ā́ rohantu jánayo yónimágre ǁ

    imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu |
    anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre ||

    इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ ।
    अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥

    इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम् । विशन्तु ।
    अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥

    imā́ḥ ǀ nā́rīḥ ǀ avidhavā́ḥ ǀ su-pátnīḥ ǀ ā-áñjanena ǀ sarpíṣā ǀ sám ǀ viśantu ǀ
    anaśrávaḥ ǀ anamīvā́ḥ ǀ su-rátnāḥ ǀ ā́ ǀ rohantu ǀ jánayaḥ ǀ yónim ǀ ágre ǁ

    imāḥ ǀ nārīḥ ǀ avidhavāḥ ǀ su-patnīḥ ǀ ā-añjanena ǀ sarpiṣā ǀ sam ǀ viśantu ǀ
    anaśravaḥ ǀ anamīvāḥ ǀ su-ratnāḥ ǀ ā ǀ rohantu ǀ janayaḥ ǀ yonim ǀ agre ǁ

    10.18.7 Aṣṭaka 7.6.27.2Anuvāka 10.2.21

  8. Ṛk 8

    उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।
    ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥

    उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि |
    हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ||

    údīrṣva nāryabhí jīvalokám gatā́sumetámúpa śeṣa éhi ǀ
    hastagrābhásya didhiṣóstávedám pátyurjanitvámabhí sám babhūtha ǁ

    ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi |
    hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha ||

    उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ ।
    ह॒स्त॒ऽग्रा॒भस्य॑ । दि॒धि॒षोः । तव॑ । इ॒दम् । पत्युः॑ । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥

    उत् । ईर्ष्व । नारि । अभि । जीवऽलोकम् । गतऽअसुम् । एतम् । उप । शेषे । आ । इहि ।
    हस्तऽग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनिऽत्वम् । अभि । सम् । बभूथ ॥

    út ǀ īrṣva ǀ nāri ǀ abhí ǀ jīva-lokám ǀ gatá-asum ǀ etám ǀ úpa ǀ śeṣe ǀ ā́ ǀ ihi ǀ
    hasta-grābhásya ǀ didhiṣóḥ ǀ táva ǀ idám ǀ pátyuḥ ǀ jani-tvám ǀ abhí ǀ sám ǀ babhūtha ǁ

    ut ǀ īrṣva ǀ nāri ǀ abhi ǀ jīva-lokam ǀ gata-asum ǀ etam ǀ upa ǀ śeṣe ǀ ā ǀ ihi ǀ
    hasta-grābhasya ǀ didhiṣoḥ ǀ tava ǀ idam ǀ patyuḥ ǀ jani-tvam ǀ abhi ǀ sam ǀ babhūtha ǁ

    10.18.8 Aṣṭaka 7.6.27.3Anuvāka 10.2.22

  9. Ṛk 9

    धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।
    अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥

    धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय |
    अत्रैव त्वम् इह वयं सुवीरा विश्वा स्पृधो अभिमातीर् जयेम ||

    dhánurhástādādádāno mṛtásyāsmé kṣatrā́ya várcase bálāya ǀ
    átraivá tvámihá vayám suvī́rā víśvāḥ spṛ́dho abhímātīrjayema ǁ

    dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya |
    atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema ||

    धनुः॑ । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒त्राय॑ । वर्च॑से । बला॑य ।
    अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीराः॑ । विश्वाः॑ । स्पृधः॑ । अ॒भिऽमा॑तीः । ज॒ये॒म॒ ॥

    धनुः । हस्तात् । आऽददानः । मृतस्य । अस्मे इति । क्षत्राय । वर्चसे । बलाय ।
    अत्र । एव । त्वम् । इह । वयम् । सुऽवीराः । विश्वाः । स्पृधः । अभिऽमातीः । जयेम ॥

    dhánuḥ ǀ hástāt ǀ ā-dádānaḥ ǀ mṛtásya ǀ asmé íti ǀ kṣatrā́ya ǀ várcase ǀ bálāya ǀ
    átra ǀ evá ǀ tvám ǀ ihá ǀ vayám ǀ su-vī́rāḥ ǀ víśvāḥ ǀ spṛ́dhaḥ ǀ abhí-mātīḥ ǀ jayema ǁ

    dhanuḥ ǀ hastāt ǀ ā-dadānaḥ ǀ mṛtasya ǀ asme iti ǀ kṣatrāya ǀ varcase ǀ balāya ǀ
    atra ǀ eva ǀ tvam ǀ iha ǀ vayam ǀ su-vīrāḥ ǀ viśvāḥ ǀ spṛdhaḥ ǀ abhi-mātīḥ ǀ jayema ǁ

    10.18.9 Aṣṭaka 7.6.27.4Anuvāka 10.2.23

  10. Ṛk 10

    उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां॑ ।
    ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निर्ऋ॑तेरु॒पस्था॑त् ॥

    उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् |
    ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ||

    úpa sarpa mātáram bhū́mimetā́muruvyácasam pṛthivī́m suśévām ǀ
    ū́rṇamradā yuvatírdákṣiṇāvata eṣā́ tvā pātu nírṛterupásthāt ǁ

    upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām |
    ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt ||

    उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् ।
    ऊर्ण॑ऽम्रदाः । यु॒व॒तिः । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् ॥

    उप । सर्प । मातरम् । भूमिम् । एताम् । उरुऽव्यचसम् । पृथिवीम् । सुऽशेवाम् ।
    ऊर्णऽम्रदाः । युवतिः । दक्षिणाऽवते । एषा । त्वा । पातु । निःऽऋतेः । उपऽस्थात् ॥

    úpa ǀ sarpa ǀ mātáram ǀ bhū́mim ǀ etā́m ǀ uru-vyácasam ǀ pṛthivī́m ǀ su-śévām ǀ
    ū́rṇa-mradāḥ ǀ yuvatíḥ ǀ dákṣiṇā-vate ǀ eṣā́ ǀ tvā ǀ pātu ǀ níḥ-ṛteḥ ǀ upá-sthāt ǁ

    upa ǀ sarpa ǀ mātaram ǀ bhūmim ǀ etām ǀ uru-vyacasam ǀ pṛthivīm ǀ su-śevām ǀ
    ūrṇa-mradāḥ ǀ yuvatiḥ ǀ dakṣiṇā-vate ǀ eṣā ǀ tvā ǀ pātu ǀ niḥ-ṛteḥ ǀ upa-sthāt ǁ

    10.18.10 Aṣṭaka 7.6.27.5Anuvāka 10.2.24

  11. Ṛk 11

    उच्छ्वं॑चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवंच॒ना ।
    मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥

    उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना |
    माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ||

    úcchvañcasva pṛthivi mā́ ní bādhathāḥ sūpāyanā́smai bhava sūpavañcanā́ ǀ
    mātā́ putrám yáthā sicā́bhyénam bhūma ūrṇuhi ǁ

    uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā |
    mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi ||

    उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । बा॒ध॒थाः॒ । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒व॒ञ्च॒ना ।
    मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥

    उत् । श्वञ्चस्व । पृथिवि । मा । नि । बाधथाः । सुऽउपायना । अस्मै । भव । सुऽउपवञ्चना ।
    माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥

    út ǀ śvañcasva ǀ pṛthivi ǀ mā́ ǀ ní ǀ bādhathāḥ ǀ su-upāyanā́ ǀ asmai ǀ bhava ǀ su-upavañcanā́ ǀ
    mātā́ ǀ putrám ǀ yáthā ǀ sicā́ ǀ abhí ǀ enam ǀ bhūme ǀ ūrṇuhi ǁ

    ut ǀ śvañcasva ǀ pṛthivi ǀ mā ǀ ni ǀ bādhathāḥ ǀ su-upāyanā ǀ asmai ǀ bhava ǀ su-upavañcanā ǀ
    mātā ǀ putram ǀ yathā ǀ sicā ǀ abhi ǀ enam ǀ bhūme ǀ ūrṇuhi ǁ

    10.18.11 Aṣṭaka 7.6.28.1Anuvāka 10.2.25

  12. Ṛk 12

    उ॒च्छ्वंच॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रयं॑तां ।
    ते गृ॒हासो॑ घृत॒श्चुतो॑ भवंतु वि॒श्वाहा॑स्मै शर॒णाः सं॒त्वत्र॑ ॥

    उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् |
    ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ||

    ucchváñcamānā pṛthivī́ sú tiṣṭhatu sahásram míta úpa hí śráyantām ǀ
    té gṛhā́so ghṛtaścúto bhavantu viśvā́hāsmai śaraṇā́ḥ santvátra ǁ

    ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām |
    te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra ||

    उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् ।
    ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥

    उत्ऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् ।
    ते । गृहासः । घृतऽश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥

    ut-śváñcamānā ǀ pṛthivī́ ǀ sú ǀ tiṣṭhatu ǀ sahásram ǀ mítaḥ ǀ úpa ǀ hí ǀ śráyantām ǀ
    té ǀ gṛhā́saḥ ǀ ghṛta-ścútaḥ ǀ bhavantu ǀ viśvā́hā ǀ asmai ǀ śaraṇā́ḥ ǀ santu ǀ átra ǁ

    ut-śvañcamānā ǀ pṛthivī ǀ su ǀ tiṣṭhatu ǀ sahasram ǀ mitaḥ ǀ upa ǀ hi ǀ śrayantām ǀ
    te ǀ gṛhāsaḥ ǀ ghṛta-ścutaḥ ǀ bhavantu ǀ viśvāhā ǀ asmai ǀ śaraṇāḥ ǀ santu ǀ atra ǁ

    10.18.12 Aṣṭaka 7.6.28.2Anuvāka 10.2.26

  13. Ṛk 13

    उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षं ।
    ए॒तां स्थूणां॑ पि॒तरो॑ धारयंतु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥

    उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् |
    एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ||

    útte stabhnāmi pṛthivī́m tvátpárīmám logám nidádhanmó ahám riṣam ǀ
    etā́m sthū́ṇām pitáro dhārayantu té’trā yamáḥ sā́danā te minotu ǁ

    ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam |
    etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu ||

    उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् ।
    ए॒ताम् । स्थूणा॑म् । पि॒तरः॑ । धा॒र॒य॒न्तु॒ । ते॒ । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒नो॒तु॒ ॥

    उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निऽदधत् । मो इति । अहम् । रिषम् ।
    एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु ॥

    út ǀ te ǀ stabhnāmi ǀ pṛthivī́m ǀ tvát ǀ pári ǀ imám ǀ logám ǀ ni-dádhat ǀ mó íti ǀ ahám ǀ riṣam ǀ
    etā́m ǀ sthū́ṇām ǀ pitáraḥ ǀ dhārayantu ǀ te ǀ átra ǀ yamáḥ ǀ sádanā ǀ te ǀ minotu ǁ

    ut ǀ te ǀ stabhnāmi ǀ pṛthivīm ǀ tvat ǀ pari ǀ imam ǀ logam ǀ ni-dadhat ǀ mo iti ǀ aham ǀ riṣam ǀ
    etām ǀ sthūṇām ǀ pitaraḥ ǀ dhārayantu ǀ te ǀ atra ǀ yamaḥ ǀ sadanā ǀ te ǀ minotu ǁ

    10.18.13 Aṣṭaka 7.6.28.3Anuvāka 10.2.27

  14. Ṛk 14

    प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः ।
    प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥

    प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः |
    प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ||

    pratīcī́ne mā́máhanī́ṣvāḥ parṇámivā́ dadhuḥ ǀ
    pratī́cīm jagrabhā vā́camáśvam raśanáyā yathā ǁ

    pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ |
    pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā ||

    प्र॒ती॒चीने॑ । माम् । अह॑नि । इष्वाः॑ । प॒र्णम्ऽइ॑व । आ । द॒धुः॒ ।
    प्र॒तीची॑म् । ज॒ग्र॒भ॒ । वाच॑म् । अश्व॑म् । र॒श॒नया॑ । य॒था॒ ॥

    प्रतीचीने । माम् । अहनि । इष्वाः । पर्णम्ऽइव । आ । दधुः ।
    प्रतीचीम् । जग्रभ । वाचम् । अश्वम् । रशनया । यथा ॥

    pratīcī́ne ǀ mā́m ǀ áhani ǀ íṣvāḥ ǀ parṇám-iva ǀ ā́ ǀ dadhuḥ ǀ
    pratī́cīm ǀ jagrabha ǀ vā́cam ǀ áśvam ǀ raśanáyā ǀ yathā ǁ

    pratīcīne ǀ mām ǀ ahani ǀ iṣvāḥ ǀ parṇam-iva ǀ ā ǀ dadhuḥ ǀ
    pratīcīm ǀ jagrabha ǀ vācam ǀ aśvam ǀ raśanayā ǀ yathā ǁ

    10.18.14 Aṣṭaka 7.6.28.4Anuvāka 10.2.28

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.18 · Mṛtyu · Dhātṛ · Tvaṣṭṛ · Pitṛmedhas · Yama, Pitṛmedhas · Pitṛmedha Or Prajāpati

Interpretations

Ralph T. H. Griffith

Ṛk 1

Go hence, O Death, pursue thy special pathway apart from that which Gods are wont to travel. To thee I say it who hast eyes and hearest: Touch not our offspring, injure not our heroes.

Ṛk 2

As ye have come effacing Mrtyu's footstep, to further times prolonging your existence, May ye be rich in children and possessions. cleansed, purified, and meet for sacrificing.

Ṛk 3

Divided from the dead are these, the living: now be our calling on the Gods successful. We have gone forth for dancing and for laughter, tofurther times prolonging our existence.

Ṛk 4

Here I erect this rampart for the living; let none of these, none other, reach this limit. May they survive a hundred lengthened autumns, and may they bury Death beneath this mountain.

Ṛk 5

As the days follow days in close succession, as with the seasons duly come the seasons, As each successor fails not his foregoer, so form the lives of these, O great Ordainer.

Ṛk 6

Live your full lives ap! find old age delightful, all of you striving one behind the other. May Tvaṣṭar, maker of fair things, be gracious and lengthen out the days of your existence.

Ṛk 7

Let these unwidowed dames with noble husbands adorn themselves with fragrant balm and unguent. Decked with fair jewels, tearless, free from sorrow, first let the dames go up to where he lieth.

Ṛk 8

Rise, come unto the world of life, O woman: come, he is lifeless by whose side thou liest. Wifehood with this thy husband was thy portion, who took thy hand and wooed thee as a lover.

Ṛk 9

From his dead hand I take the bow be carried, that it may be our power and might and glory. There art thou, there; and here with noble heroes may we o’ercome all hosts that fight against us.

Ṛk 10

Betake thee to the Iap of Earth the Mother, of Earth far-spreading, very kind and gracious. Young Dame, wool-soft unto the guerdongiver, may she preserve thee from Destruction's bosom.

Ṛk 11

Heave thyself, Earth, nor press thee downward heavily: afford him easy access, gently tending him. Cover him, as a mother wraps her skirt about her child, O Earth.

Ṛk 12

Now let the heaving earth be free from motion: yea,—let a thousand clods remain above him. Be they to him a home distilling fatness, here let them ever be his place of refuge.

Ṛk 13

I stay the earth from thee, while over thee I place this piece of earth. May I be free from injury. Here let the Fathers keep this pillar firm for thee, and there let Yama make thee an abiding-place.