Sūkta 160
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pūraṇa Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3); virāṭtrisṭup (4, 5); pādanicṛttriṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मुं॑च ।
इंद्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रमं॒तुभ्य॑मि॒मे सु॒तासः॑ ॥तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च |
इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ||tīvrásyābhívayaso asyá pāhi sarvarathā́ ví hárī ihá muñca ǀ
índra mā́ tvā yájamānāso anyé ní rīramantúbhyamimé sutā́saḥ ǁtīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ ||ती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ।
इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥तीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ।
इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥tīvrásya ǀ abhí-vayasaḥ ǀ asyá ǀ pāhi ǀ sarva-rathā́ ǀ ví ǀ hárī íti ǀ ihá ǀ muñca ǀ
índra ǀ mā́ ǀ tvā ǀ yájamānāsaḥ ǀ anyé ǀ ní ǀ rīraman ǀ túbhyam ǀ imé ǀ sutā́saḥ ǁtīvrasya ǀ abhi-vayasaḥ ǀ asya ǀ pāhi ǀ sarva-rathā ǀ vi ǀ harī iti ǀ iha ǀ muñca ǀ
indra ǀ mā ǀ tvā ǀ yajamānāsaḥ ǀ anye ǀ ni ǀ rīraman ǀ tubhyam ǀ ime ǀ sutāsaḥ ǁ10.160.1 Aṣṭaka 8.8.18.1Anuvāka 10.12.42
-
Ṛk 2
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यंति ।
इंद्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोमं॑ ॥तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति |
इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ||túbhyam sutā́stúbhyamu sótvāsastvā́m gíraḥ śvā́tryā ā́ hvayanti ǀ
índredámadyá sávanam juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ǁtubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti |
indredam adya savanaṃ juṣāṇo viśvasya vidvāṃ iha pāhi somam ||तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ ।
इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥तुभ्यम् । सुताः । तुभ्यम् । ऊं इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति ।
इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥túbhyam ǀ sutā́ḥ ǀ túbhyam ǀ ūṃ íti ǀ sótvāsaḥ ǀ tvā́m ǀ gíraḥ ǀ śvā́tryāḥ ǀ ā́ ǀ hvayanti ǀ
índra ǀ idám ǀ adyá ǀ sávanam ǀ juṣāṇáḥ ǀ víśvasya ǀ vidvā́n ǀ ihá ǀ pāhi ǀ sómam ǁtubhyam ǀ sutāḥ ǀ tubhyam ǀ ūṃ iti ǀ sotvāsaḥ ǀ tvām ǀ giraḥ ǀ śvātryāḥ ǀ ā ǀ hvayanti ǀ
indra ǀ idam ǀ adya ǀ savanam ǀ juṣāṇaḥ ǀ viśvasya ǀ vidvān ǀ iha ǀ pāhi ǀ somam ǁ10.160.2 Aṣṭaka 8.8.18.2Anuvāka 10.12.43
-
Ṛk 3
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।
न गा इंद्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति |
न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ||yá uśatā́ mánasā sómamasmai sarvahṛdā́ devákāmaḥ sunóti ǀ
ná gā́ índrastásya párā dadāti praśastámíccā́rumasmai kṛṇoti ǁya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti |
na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti ||यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः । सु॒नोति॑ ।
न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् । चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥यः । उशता । मनसा । सोमम् । अस्मै । सर्वऽहृदा । देवऽकामः । सुनोति ।
न । गाः । इन्द्रः । तस्य । परा । ददाति । प्रऽशस्तम् । इत् । चारुम् । अस्मै । कृणोति ॥yáḥ ǀ uśatā́ ǀ mánasā ǀ sómam ǀ asmai ǀ sarva-hṛdā́ ǀ devá-kāmaḥ ǀ sunóti ǀ
ná ǀ gā́ḥ ǀ índraḥ ǀ tásya ǀ párā ǀ dadāti ǀ pra-śastám ǀ ít ǀ cā́rum ǀ asmai ǀ kṛṇoti ǁyaḥ ǀ uśatā ǀ manasā ǀ somam ǀ asmai ǀ sarva-hṛdā ǀ deva-kāmaḥ ǀ sunoti ǀ
na ǀ gāḥ ǀ indraḥ ǀ tasya ǀ parā ǀ dadāti ǀ pra-śastam ǀ it ǀ cārum ǀ asmai ǀ kṛṇoti ǁ10.160.3 Aṣṭaka 8.8.18.3Anuvāka 10.12.44
-
Ṛk 4
अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोमं॑ ।
निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ हं॒त्यना॑नुदिष्टः ॥अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् |
निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ||ánuspaṣṭo bhavatyeṣó asya yó asmai revā́nná sunóti sómam ǀ
níraratnáu maghávā tám dadhāti brahmadvíṣo hantyánānudiṣṭaḥ ǁanuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam |
nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ ||अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ।
निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥अनुऽस्पष्टः । भवति । एषः । अस्य । यः । अस्मै । रेवान् । न । सुनोति । सोमम् ।
निः । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विषः । हन्ति । अननुऽदिष्टः ॥ánu-spaṣṭaḥ ǀ bhavati ǀ eṣáḥ ǀ asya ǀ yáḥ ǀ asmai ǀ revā́n ǀ ná ǀ sunóti ǀ sómam ǀ
níḥ ǀ aratnáu ǀ maghá-vā ǀ tám ǀ dadhāti ǀ brahma-dvíṣaḥ ǀ hanti ǀ ánanu-diṣṭaḥ ǁanu-spaṣṭaḥ ǀ bhavati ǀ eṣaḥ ǀ asya ǀ yaḥ ǀ asmai ǀ revān ǀ na ǀ sunoti ǀ somam ǀ
niḥ ǀ aratnau ǀ magha-vā ǀ tam ǀ dadhāti ǀ brahma-dviṣaḥ ǀ hanti ǀ ananu-diṣṭaḥ ǁ10.160.4 Aṣṭaka 8.8.18.4Anuvāka 10.12.45
-
Ṛk 5
अ॒श्वा॒यंतो॑ ग॒व्यंतो॑ वा॒जयं॑तो॒ हवा॑महे॒ त्वोप॑गंत॒वा उ॑ ।
आ॒भूषं॑तस्ते सुम॒तौ नवा॑यां व॒यमिं॑द्र त्वा शु॒नं हु॑वेम ॥अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ |
आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ||aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u ǀ
ābhū́ṣantaste sumatáu návāyām vayámindra tvā śunám huvema ǁaśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema ||अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ।
आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥अश्वऽयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ।
आऽभूषन्तः । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥aśva-yántaḥ ǀ gavyántaḥ ǀ vājáyantaḥ ǀ hávāmahe ǀ tvā ǀ úpa-gantavái ǀ ūṃ íti ǀ
ā-bhū́ṣantaḥ ǀ te ǀ su-matáu ǀ návāyām ǀ vayám ǀ indra ǀ tvā ǀ śunám ǀ huvema ǁaśva-yantaḥ ǀ gavyantaḥ ǀ vājayantaḥ ǀ havāmahe ǀ tvā ǀ upa-gantavai ǀ ūṃ iti ǀ
ā-bhūṣantaḥ ǀ te ǀ su-matau ǀ navāyām ǀ vayam ǀ indra ǀ tvā ǀ śunam ǀ huvema ǁ10.160.5 Aṣṭaka 8.8.18.5Anuvāka 10.12.46
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.