Ṛgveda · Maṇḍala 10 · Sūkta 160
Ṛk 10.160.2
Saṃhitā
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यंति ।
इंद्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोमं॑ ॥
तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति |
इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ||
túbhyam sutā́stúbhyamu sótvāsastvā́m gíraḥ śvā́tryā ā́ hvayanti ǀ
índredámadyá sávanam juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ǁ
tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti |
indredam adya savanaṃ juṣāṇo viśvasya vidvāṃ iha pāhi somam ||
Padapāṭha
तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ ।
इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥
तुभ्यम् । सुताः । तुभ्यम् । ऊं इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति ।
इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥
túbhyam ǀ sutā́ḥ ǀ túbhyam ǀ ūṃ íti ǀ sótvāsaḥ ǀ tvā́m ǀ gíraḥ ǀ śvā́tryāḥ ǀ ā́ ǀ hvayanti ǀ
índra ǀ idám ǀ adyá ǀ sávanam ǀ juṣāṇáḥ ǀ víśvasya ǀ vidvā́n ǀ ihá ǀ pāhi ǀ sómam ǁ
tubhyam ǀ sutāḥ ǀ tubhyam ǀ ūṃ iti ǀ sotvāsaḥ ǀ tvām ǀ giraḥ ǀ śvātryāḥ ǀ ā ǀ hvayanti ǀ
indra ǀ idam ǀ adya ǀ savanam ǀ juṣāṇaḥ ǀ viśvasya ǀ vidvān ǀ iha ǀ pāhi ǀ somam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.160.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.18.02
- Maṇḍala · Anuvāka · Ṛk
- 10.12.043
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pūraṇa Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.