Sūkta 128
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vihavya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (2, 5, 8); virāṭtrisṭup (1, 3); nicṛttriṣṭup (4, 6); bhuriktriṣṭup (7); pādanicṛjjgatī (9)
2nd set of styles triṣṭubh (1-8); jagatī (9)
-
Ṛk 1
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेंधा॑नास्त॒न्वं॑ पुषेम ।
मह्यं॑ नमंतां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम |
मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ||mámāgne várco vihavéṣvastu vayám tvéndhānāstanvám puṣema ǀ
máhyam namantām pradíśaścátasrastváyā́dhyakṣeṇa pṛ́tanā jayema ǁmamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema |
mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema ||मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ ।
मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥मम । अग्ने । वर्चः । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम ।
मह्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः । त्वया । अधिऽअक्षेण । पृतनाः । जयेम ॥máma ǀ agne ǀ várcaḥ ǀ vi-havéṣu ǀ astu ǀ vayám ǀ tvā ǀ índhānāḥ ǀ tanvám ǀ puṣema ǀ
máhyam ǀ namantām ǀ pra-díśaḥ ǀ cátasraḥ ǀ tváyā ǀ ádhi-akṣeṇa ǀ pṛ́tanāḥ ǀ jayema ǁmama ǀ agne ǀ varcaḥ ǀ vi-haveṣu ǀ astu ǀ vayam ǀ tvā ǀ indhānāḥ ǀ tanvam ǀ puṣema ǀ
mahyam ǀ namantām ǀ pra-diśaḥ ǀ catasraḥ ǀ tvayā ǀ adhi-akṣeṇa ǀ pṛtanāḥ ǀ jayema ǁ10.128.1 Aṣṭaka 8.7.15.1Anuvāka 10.10.138
-
Ṛk 2
मम॑ दे॒वा वि॑ह॒वे सं॑तु॒ सर्व॒ इंद्र॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममां॒तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः |
ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ||máma devā́ vihavé santu sárva índravanto marúto víṣṇuragníḥ ǀ
mámāntárikṣamurúlokamastu máhyam vā́taḥ pavatām kā́me asmín ǁmama devā vihave santu sarva indravanto maruto viṣṇur agniḥ |
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin ||मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ।
मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥मम । देवाः । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्तः । मरुतः । विष्णुः । अग्निः ।
मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥máma ǀ devā́ḥ ǀ vi-havé ǀ santu ǀ sárve ǀ índra-vantaḥ ǀ marútaḥ ǀ víṣṇuḥ ǀ agníḥ ǀ
máma ǀ antárikṣam ǀ urú-lokam ǀ astu ǀ máhyam ǀ vā́taḥ ǀ pavatām ǀ kā́me ǀ asmín ǁmama ǀ devāḥ ǀ vi-have ǀ santu ǀ sarve ǀ indra-vantaḥ ǀ marutaḥ ǀ viṣṇuḥ ǀ agniḥ ǀ
mama ǀ antarikṣam ǀ uru-lokam ǀ astu ǀ mahyam ǀ vātaḥ ǀ pavatām ǀ kāme ǀ asmin ǁ10.128.2 Aṣṭaka 8.7.15.2Anuvāka 10.10.139
-
Ṛk 3
मयि॑ दे॒वा द्रवि॑ण॒मा य॑जंतां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रो वनुषंत॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः |
दैव्या होतारो वनुषन्त पूर्वे ऽरिष्टाः स्याम तन्वा सुवीराः ||máyi devā́ dráviṇamā́ yajantām máyyāśī́rastu máyi deváhūtiḥ ǀ
dáivyā hótāro vanuṣanta pū́rvé’riṣṭāḥ syāma tanvā́ suvī́rāḥ ǁmayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ |
daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ ||मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः ।
दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म॒ । त॒न्वा॑ । सु॒ऽवीराः॑ ॥मयि । देवाः । द्रविणम् । आ । यजन्ताम् । मयि । आऽशीः । अस्तु । मयि । देवऽहूतिः ।
दैव्याः । होतारः । वनुषन्त । पूर्वे । अरिष्टाः । स्याम । तन्वा । सुऽवीराः ॥máyi ǀ devā́ḥ ǀ dráviṇam ǀ ā́ ǀ yajantām ǀ máyi ǀ ā-śī́ḥ ǀ astu ǀ máyi ǀ devá-hūtiḥ ǀ
dáivyāḥ ǀ hótāraḥ ǀ vanuṣanta ǀ pū́rve ǀ áriṣṭāḥ ǀ syāma ǀ tanvā́ ǀ su-vī́rāḥ ǁmayi ǀ devāḥ ǀ draviṇam ǀ ā ǀ yajantām ǀ mayi ǀ ā-śīḥ ǀ astu ǀ mayi ǀ deva-hūtiḥ ǀ
daivyāḥ ǀ hotāraḥ ǀ vanuṣanta ǀ pūrve ǀ ariṣṭāḥ ǀ syāma ǀ tanvā ǀ su-vīrāḥ ǁ10.128.3 Aṣṭaka 8.7.15.3Anuvāka 10.10.140
-
Ṛk 4
मह्यं॑ यजंतु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु |
एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ||máhyam yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu ǀ
éno mā́ ní gām katamáccanā́hám víśve devāso ádhi vocatā naḥ ǁmahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ ||मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ।
एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥मह्यम् । यजन्तु । मम । यानि । हव्या । आऽकूतिः । सत्या । मनसः । मे । अस्तु ।
एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥máhyam ǀ yajantu ǀ máma ǀ yā́ni ǀ havyā́ ǀ ā́-kūtiḥ ǀ satyā́ ǀ mánasaḥ ǀ me ǀ astu ǀ
énaḥ ǀ mā́ ǀ ní ǀ gām ǀ katamát ǀ caná ǀ ahám ǀ víśve ǀ devāsaḥ ǀ ádhi ǀ vocata ǀ naḥ ǁmahyam ǀ yajantu ǀ mama ǀ yāni ǀ havyā ǀ ā-kūtiḥ ǀ satyā ǀ manasaḥ ǀ me ǀ astu ǀ
enaḥ ǀ mā ǀ ni ǀ gām ǀ katamat ǀ cana ǀ aham ǀ viśve ǀ devāsaḥ ǀ adhi ǀ vocata ǀ naḥ ǁ10.128.4 Aṣṭaka 8.7.15.4Anuvāka 10.10.141
-
Ṛk 5
देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वं ।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥देवीः षऌ उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् |
मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ||dévīḥ ṣaḷurvīrurú naḥ kṛṇota víśve devāsa ihá vīrayadhvam ǀ
mā́ hāsmahi prajáyā mā́ tanū́bhirmā́ radhāma dviṣaté soma rājan ǁdevīḥ ṣaḷ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam |
mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan ||देवीः॑ । ष॒ट् । उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒ध्व॒म् ।
मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥देवीः । षट् । उर्वीः । उरु । नः । कृणोत । विश्वे । देवासः । इह । वीरयध्वम् ।
मा । हास्महि । प्रऽजया । मा । तनूभिः । मा । रधाम । द्विषते । सोम । राजन् ॥dévīḥ ǀ ṣaṭ ǀ urvīḥ ǀ urú ǀ naḥ ǀ kṛṇota ǀ víśve ǀ devāsaḥ ǀ ihá ǀ vīrayadhvam ǀ
mā́ ǀ hāsmahi ǀ pra-jáyā ǀ mā́ ǀ tanū́bhiḥ ǀ mā́ ǀ radhāma ǀ dviṣaté ǀ soma ǀ rājan ǁdevīḥ ǀ ṣaṭ ǀ urvīḥ ǀ uru ǀ naḥ ǀ kṛṇota ǀ viśve ǀ devāsaḥ ǀ iha ǀ vīrayadhvam ǀ
mā ǀ hāsmahi ǀ pra-jayā ǀ mā ǀ tanūbhiḥ ǀ mā ǀ radhāma ǀ dviṣate ǀ soma ǀ rājan ǁ10.128.5 Aṣṭaka 8.7.15.5Anuvāka 10.10.142
-
Ṛk 6
अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वं ।
प्र॒त्यंचो॑ यंतु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥अग्ने मन्युम् प्रतिनुदन् परेषाम् अदब्धो गोपाः परि पाहि नस् त्वम् |
प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधां वि नेशत् ||ágne manyúm pratinudánpáreṣāmádabdho gopā́ḥ pári pāhi nastvám ǀ
pratyáñco yantu nigútaḥ púnasté’máiṣām cittám prabúdhām ví neśat ǁagne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam |
pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat ||अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् ।
प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥अग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । अदब्धः । गोपाः । परि । पाहि । नः । त्वम् ।
प्रत्यञ्चः । यन्तु । निऽगुतः । पुनरिति । ते । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥ágne ǀ manyúm ǀ prati-nudán ǀ páreṣām ǀ ádabdhaḥ ǀ gopā́ḥ ǀ pári ǀ pāhi ǀ naḥ ǀ tvám ǀ
pratyáñcaḥ ǀ yantu ǀ ni-gútaḥ ǀ púnaríti ǀ té ǀ amā́ ǀ eṣām ǀ cittám ǀ pra-búdhām ǀ ví ǀ neśat ǁagne ǀ manyum ǀ prati-nudan ǀ pareṣām ǀ adabdhaḥ ǀ gopāḥ ǀ pari ǀ pāhi ǀ naḥ ǀ tvam ǀ
pratyañcaḥ ǀ yantu ǀ ni-gutaḥ ǀ punariti ǀ te ǀ amā ǀ eṣām ǀ cittam ǀ pra-budhām ǀ vi ǀ neśat ǁ10.128.6 Aṣṭaka 8.7.16.1Anuvāka 10.10.143
-
Ṛk 7
धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हं ।
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पां॑तु॒ यज॑मानं न्य॒र्थात् ॥धाता धातॄणाम् भुवनस्य यस् पतिर् देवं त्रातारम् अभिमातिषाहम् |
इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ||dhātā́ dhātṝṇā́m bhúvanasya yáspátirdevám trātā́ramabhimātiṣāhám ǀ
imám yajñámaśvínobhā́ bṛ́haspátirdevā́ḥ pāntu yájamānam nyarthā́t ǁdhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham |
imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt ||धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् ।
इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥धाता । धातॄणाम् । भुवनस्य । यः । पतिः । देवम् । त्रातारम् । अभिमातिऽसहम् ।
इमम् । यज्ञम् । अश्विना । उभा । बृहस्पतिः । देवाः । पान्तु । यजमानम् । निऽअर्थात् ॥dhātā́ ǀ dhātṝṇā́m ǀ bhúvanasya ǀ yáḥ ǀ pátiḥ ǀ devám ǀ trātā́ram ǀ abhimāti-sahám ǀ
imám ǀ yajñám ǀ aśvínā ǀ ubhā́ ǀ bṛ́haspátiḥ ǀ devā́ḥ ǀ pāntu ǀ yájamānam ǀ ni-arthā́t ǁdhātā ǀ dhātṝṇām ǀ bhuvanasya ǀ yaḥ ǀ patiḥ ǀ devam ǀ trātāram ǀ abhimāti-saham ǀ
imam ǀ yajñam ǀ aśvinā ǀ ubhā ǀ bṛhaspatiḥ ǀ devāḥ ǀ pāntu ǀ yajamānam ǀ ni-arthāt ǁ10.128.7 Aṣṭaka 8.7.16.2Anuvāka 10.10.144
-
Ṛk 8
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येंद्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥उरुव्यचा नो महिषः शर्म यंसद् अस्मिन् हवे पुरुहूतः पुरुक्षुः |
स नः प्रजायै हर्यश्व मृऌअयेन्द्र मा नो रीरिषो मा परा दाः ||uruvyácā no mahiṣáḥ śárma yaṃsadasmínháve puruhūtáḥ purukṣúḥ ǀ
sá naḥ prajā́yai haryaśva mṛḷayéndra mā́ no rīriṣo mā́ párā dāḥ ǁuruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ |
sa naḥ prajāyai haryaśva mṛḷayendra mā no rīriṣo mā parā dāḥ ||उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः ।
सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥उरुऽव्यचाः । नः । महिषः । शर्म । यंसत् । अस्मिन् । हवे । पुरुऽहूतः । पुरुऽक्षुः ।
सः । नः । प्रऽजायै । हरिऽअश्व । मृळय । इन्द्र । मा । नः । रिरिषः । मा । परा । दाः ॥uru-vyácāḥ ǀ naḥ ǀ mahiṣáḥ ǀ śárma ǀ yaṃsat ǀ asmín ǀ háve ǀ puru-hūtáḥ ǀ puru-kṣúḥ ǀ
sáḥ ǀ naḥ ǀ pra-jā́yai ǀ hari-aśva ǀ mṛḷaya ǀ índra ǀ mā́ ǀ naḥ ǀ ririṣaḥ ǀ mā́ ǀ párā ǀ dāḥ ǁuru-vyacāḥ ǀ naḥ ǀ mahiṣaḥ ǀ śarma ǀ yaṃsat ǀ asmin ǀ have ǀ puru-hūtaḥ ǀ puru-kṣuḥ ǀ
saḥ ǀ naḥ ǀ pra-jāyai ǀ hari-aśva ǀ mṛḷaya ǀ indra ǀ mā ǀ naḥ ǀ ririṣaḥ ǀ mā ǀ parā ǀ dāḥ ǁ10.128.8 Aṣṭaka 8.7.16.3Anuvāka 10.10.145
-
Ṛk 9
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वंत्विंद्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् |
वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ||yé naḥ sapátnā ápa té bhavantvindrāgníbhyāmáva bādhāmahe tā́n ǀ
vásavo rudrā́ ādityā́ uparispṛ́śam mográm céttāramadhirājámakran ǁye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān |
vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran ||ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् ।
वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥ये । नः । सऽपत्नाः । अप । ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । तान् ।
वसवः । रुद्राः । आदित्याः । उपरिऽस्पृशम् । मा । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रन् ॥yé ǀ naḥ ǀ sa-pátnāḥ ǀ ápa ǀ té ǀ bhavantu ǀ indrāgní-bhyām ǀ áva ǀ bādhāmahe ǀ tā́n ǀ
vásavaḥ ǀ rudrā́ḥ ǀ ādityā́ḥ ǀ upari-spṛ́śam ǀ mā ǀ ugrám ǀ céttāram ǀ adhi-rājám ǀ akran ǁye ǀ naḥ ǀ sa-patnāḥ ǀ apa ǀ te ǀ bhavantu ǀ indrāgni-bhyām ǀ ava ǀ bādhāmahe ǀ tān ǀ
vasavaḥ ǀ rudrāḥ ǀ ādityāḥ ǀ upari-spṛśam ǀ mā ǀ ugram ǀ cettāram ǀ adhi-rājam ǀ akran ǁ10.128.9 Aṣṭaka 8.7.16.4Anuvāka 10.10.146
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.