Ṛgveda · Maṇḍala 10 · Sūkta 128
Ṛk 10.128.2
Saṃhitā
मम॑ दे॒वा वि॑ह॒वे सं॑तु॒ सर्व॒ इंद्र॑वंतो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममां॒तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः |
ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ||
máma devā́ vihavé santu sárva índravanto marúto víṣṇuragníḥ ǀ
mámāntárikṣamurúlokamastu máhyam vā́taḥ pavatām kā́me asmín ǁ
mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ |
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin ||
Padapāṭha
मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ।
मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥
मम । देवाः । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्तः । मरुतः । विष्णुः । अग्निः ।
मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥
máma ǀ devā́ḥ ǀ vi-havé ǀ santu ǀ sárve ǀ índra-vantaḥ ǀ marútaḥ ǀ víṣṇuḥ ǀ agníḥ ǀ
máma ǀ antárikṣam ǀ urú-lokam ǀ astu ǀ máhyam ǀ vā́taḥ ǀ pavatām ǀ kā́me ǀ asmín ǁ
mama ǀ devāḥ ǀ vi-have ǀ santu ǀ sarve ǀ indra-vantaḥ ǀ marutaḥ ǀ viṣṇuḥ ǀ agniḥ ǀ
mama ǀ antarikṣam ǀ uru-lokam ǀ astu ǀ mahyam ǀ vātaḥ ǀ pavatām ǀ kāme ǀ asmin ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.128.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.15.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.139
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vihavya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.