Ṛgveda · Maṇḍala 10 · Sūkta 128
Ṛk 10.128.4
Saṃhitā
मह्यं॑ यजंतु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु |
एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता नः ||
máhyam yajantu máma yā́ni havyā́kūtiḥ satyā́ mánaso me astu ǀ
éno mā́ ní gām katamáccanā́hám víśve devāso ádhi vocatā naḥ ǁ
mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu |
eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ ||
Padapāṭha
मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ।
एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥
मह्यम् । यजन्तु । मम । यानि । हव्या । आऽकूतिः । सत्या । मनसः । मे । अस्तु ।
एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥
máhyam ǀ yajantu ǀ máma ǀ yā́ni ǀ havyā́ ǀ ā́-kūtiḥ ǀ satyā́ ǀ mánasaḥ ǀ me ǀ astu ǀ
énaḥ ǀ mā́ ǀ ní ǀ gām ǀ katamát ǀ caná ǀ ahám ǀ víśve ǀ devāsaḥ ǀ ádhi ǀ vocata ǀ naḥ ǁ
mahyam ǀ yajantu ǀ mama ǀ yāni ǀ havyā ǀ ā-kūtiḥ ǀ satyā ǀ manasaḥ ǀ me ǀ astu ǀ
enaḥ ǀ mā ǀ ni ǀ gām ǀ katamat ǀ cana ǀ aham ǀ viśve ǀ devāsaḥ ǀ adhi ǀ vocata ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.128.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.15.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.141
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vihavya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.