Ṛgveda · Maṇḍala 10

Sūkta 92

Viśvedevās · Śāryāta Mānava · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Śāryāta Mānava
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles jagatī (2, 5, 8, 10, 11, 15); nicṛjjagatī (1, 6, 12, 14); virāḍjagatī (3, 4, 9, 13); pādanicṛjjgatī (7)

2nd set of styles jagatī

  1. Ṛk 1

    य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुं ।
    शोचं॒छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥

    यज्ञस्य वो रथ्यं विश्पतिं विशां होतारम् अक्तोर् अतिथिं विभावसुम् |
    शोचञ् छुष्कासु हरिणीषु जर्भुरद् वृषा केतुर् यजतो द्याम् अशायत ||

    yajñásya vo rathyám viśpátim viśā́m hótāramaktórátithim vibhā́vasum ǀ
    śócañchúṣkāsu háriṇīṣu járbhuradvṛ́ṣā ketúryajató dyā́maśāyata ǁ

    yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum |
    śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata ||

    य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् ।
    शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥

    यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभाऽवसुम् ।
    शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥

    yajñásya ǀ vaḥ ǀ rathyám ǀ viśpátim ǀ viśā́m ǀ hótāram ǀ aktóḥ ǀ átithim ǀ vibhā́-vasum ǀ
    śócan ǀ śúṣkāsu ǀ háriṇīṣu ǀ járbhurat ǀ vṛ́ṣā ǀ ketúḥ ǀ yajatáḥ ǀ dyā́m ǀ aśāyata ǁ

    yajñasya ǀ vaḥ ǀ rathyam ǀ viśpatim ǀ viśām ǀ hotāram ǀ aktoḥ ǀ atithim ǀ vibhā-vasum ǀ
    śocan ǀ śuṣkāsu ǀ hariṇīṣu ǀ jarbhurat ǀ vṛṣā ǀ ketuḥ ǀ yajataḥ ǀ dyām ǀ aśāyata ǁ

    10.92.1 Aṣṭaka 8.4.23.1Anuvāka 10.8.16

  2. Ṛk 2

    इ॒ममं॑ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नं ।
    अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥

    इमम् अञ्जस्पाम् उभये अकृण्वत धर्माणम् अग्निं विदथस्य साधनम् |
    अक्तुं न यह्वम् उषसः पुरोहितं तनूनपातम् अरुषस्य निंसते ||

    imámañjaspā́mubháye akṛṇvata dharmā́ṇamagním vidáthasya sā́dhanam ǀ
    aktúm ná yahvámuṣásaḥ puróhitam tánūnápātamaruṣásya niṃsate ǁ

    imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam |
    aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate ||

    इ॒मम् । अ॒ञ्जः॒ऽपाम् । उ॒भये॑ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् ।
    अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः॑ । पु॒रःऽहि॑तम् । तनू॒३॒॑ऽनपा॑तम् । अ॒रु॒षस्य॑ । निं॒स॒ते॒ ॥

    इमम् । अञ्जःऽपाम् । उभये । अकृण्वत । धर्माणम् । अग्निम् । विदथस्य । साधनम् ।
    अक्तुम् । न । यह्वम् । उषसः । पुरःऽहितम् । तनूऽनपातम् । अरुषस्य । निंसते ॥

    imám ǀ añjaḥ-pā́m ǀ ubháye ǀ akṛṇvata ǀ dharmā́ṇam ǀ agním ǀ vidáthasya ǀ sā́dhanam ǀ
    aktúm ǀ ná ǀ yahvám ǀ uṣásaḥ ǀ puráḥ-hitam ǀ tanū́-nápātam ǀ aruṣásya ǀ niṃsate ǁ

    imam ǀ añjaḥ-pām ǀ ubhaye ǀ akṛṇvata ǀ dharmāṇam ǀ agnim ǀ vidathasya ǀ sādhanam ǀ
    aktum ǀ na ǀ yahvam ǀ uṣasaḥ ǀ puraḥ-hitam ǀ tanū-napātam ǀ aruṣasya ǀ niṃsate ǁ

    10.92.2 Aṣṭaka 8.4.23.2Anuvāka 10.8.17

  3. Ṛk 3

    बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
    य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥

    बऌ अस्य नीथा वि पणेश् च मन्महे वया अस्य प्रहुता आसुर् अत्तवे |
    यदा घोरासो अमृतत्वम् आशताद् इज् जनस्य दैव्यस्य चर्किरन् ||

    báḷasya nīthā́ ví paṇéśca manmahe vayā́ asya práhutā āsuráttave ǀ
    yadā́ ghorā́so amṛtatvámā́śatā́díjjánasya dáivyasya carkiran ǁ

    baḷ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave |
    yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran ||

    बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्रऽहु॑ताः । आ॒सुः॒ । अत्त॑वे ।
    य॒दा । घो॒रासः॑ । अ॒मृ॒त॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कि॒र॒न् ॥

    बट् । अस्य । नीथा । वि । पणेः । च । मन्महे । वयाः । अस्य । प्रऽहुताः । आसुः । अत्तवे ।
    यदा । घोरासः । अमृतऽत्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन् ॥

    báṭ ǀ asya ǀ nīthā́ ǀ ví ǀ paṇéḥ ǀ ca ǀ manmahe ǀ vayā́ḥ ǀ asya ǀ prá-hutāḥ ǀ āsuḥ ǀ áttave ǀ
    yadā́ ǀ ghorā́saḥ ǀ amṛta-tvám ǀ ā́śata ǀ ā́t ǀ ít ǀ jánasya ǀ dáivyasya ǀ carkiran ǁ

    baṭ ǀ asya ǀ nīthā ǀ vi ǀ paṇeḥ ǀ ca ǀ manmahe ǀ vayāḥ ǀ asya ǀ pra-hutāḥ ǀ āsuḥ ǀ attave ǀ
    yadā ǀ ghorāsaḥ ǀ amṛta-tvam ǀ āśata ǀ āt ǀ it ǀ janasya ǀ daivyasya ǀ carkiran ǁ

    10.92.3 Aṣṭaka 8.4.23.3Anuvāka 10.8.18

  4. Ṛk 4

    ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑तिः॒ पनी॑यसी ।
    इंद्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ॥

    ऋतस्य हि प्रसितिर् द्यौर् उरु व्यचो नमो मह्य् अरमतिः पनीयसी |
    इन्द्रो मित्रो वरुणः सं चिकित्रिरे ऽथो भगः सविता पूतदक्षसः ||

    ṛtásya hí prásitirdyáururú vyáco námo mahyárámatiḥ pánīyasī ǀ
    índro mitró váruṇaḥ sám cikitriré’tho bhágaḥ savitā́ pūtádakṣasaḥ ǁ

    ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī |
    indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ ||

    ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पनी॑यसी ।
    इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे॒ । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥

    ऋतस्य । हि । प्रऽसितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनीयसी ।
    इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतऽदक्षसः ॥

    ṛtásya ǀ hí ǀ prá-sitiḥ ǀ dyáuḥ ǀ urú ǀ vyácaḥ ǀ námaḥ ǀ mahī́ ǀ arámatiḥ ǀ pánīyasī ǀ
    índraḥ ǀ mitráḥ ǀ váruṇaḥ ǀ sám ǀ cikitrire ǀ átho íti ǀ bhágaḥ ǀ savitā́ ǀ pūtá-dakṣasaḥ ǁ

    ṛtasya ǀ hi ǀ pra-sitiḥ ǀ dyauḥ ǀ uru ǀ vyacaḥ ǀ namaḥ ǀ mahī ǀ aramatiḥ ǀ panīyasī ǀ
    indraḥ ǀ mitraḥ ǀ varuṇaḥ ǀ sam ǀ cikitrire ǀ atho iti ǀ bhagaḥ ǀ savitā ǀ pūta-dakṣasaḥ ǁ

    10.92.4 Aṣṭaka 8.4.23.4Anuvāka 10.8.19

  5. Ṛk 5

    प्र रु॒द्रेण॑ य॒यिना॑ यंति॒ सिंध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
    येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥

    प्र रुद्रेण ययिना यन्ति सिन्धवस् तिरो महीम् अरमतिं दधन्विरे |
    येभिः परिज्मा परियन्न् उरु ज्रयो वि रोरुवज् जठरे विश्वम् उक्षते ||

    prá rudréṇa yayínā yanti síndhavastiró mahī́marámatim dadhanvire ǀ
    yébhiḥ párijmā pariyánnurú jráyo ví róruvajjaṭháre víśvamukṣáte ǁ

    pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire |
    yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate ||

    प्र । रु॒द्रेण॑ । य॒यिना॑ । य॒न्ति॒ । सिन्ध॑वः । ति॒रः । म॒हीम् । अ॒रम॑तिम् । द॒ध॒न्वि॒रे॒ ।
    येभिः॑ । परि॑ऽज्मा । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । वि । रोरु॑वत् । ज॒ठरे॑ । विश्व॑म् । उ॒क्षते॑ ॥

    प्र । रुद्रेण । ययिना । यन्ति । सिन्धवः । तिरः । महीम् । अरमतिम् । दधन्विरे ।
    येभिः । परिऽज्मा । परिऽयन् । उरु । ज्रयः । वि । रोरुवत् । जठरे । विश्वम् । उक्षते ॥

    prá ǀ rudréṇa ǀ yayínā ǀ yanti ǀ síndhavaḥ ǀ tiráḥ ǀ mahī́m ǀ arámatim ǀ dadhanvire ǀ
    yébhiḥ ǀ pári-jmā ǀ pari-yán ǀ urú ǀ jráyaḥ ǀ ví ǀ róruvat ǀ jaṭháre ǀ víśvam ǀ ukṣáte ǁ

    pra ǀ rudreṇa ǀ yayinā ǀ yanti ǀ sindhavaḥ ǀ tiraḥ ǀ mahīm ǀ aramatim ǀ dadhanvire ǀ
    yebhiḥ ǀ pari-jmā ǀ pari-yan ǀ uru ǀ jrayaḥ ǀ vi ǀ roruvat ǀ jaṭhare ǀ viśvam ǀ ukṣate ǁ

    10.92.5 Aṣṭaka 8.4.23.5Anuvāka 10.8.20

  6. Ṛk 6

    क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
    तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेंद्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥

    क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीऌअयः |
    तेभिश् चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिर् अर्वशेभिर् अर्वशः ||

    krāṇā́ rudrā́ marúto viśvákṛṣṭayo diváḥ śyenā́so ásurasya nīḷáyaḥ ǀ
    tébhiścaṣṭe váruṇo mitró aryaméndro devébhirarvaśébhirárvaśaḥ ǁ

    krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḷayaḥ |
    tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ ||

    क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ ।
    तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः॑ । अर्व॑शः ॥

    क्राणाः । रुद्राः । मरुतः । विश्वऽकृष्टयः । दिवः । श्येनासः । असुरस्य । नीळयः ।
    तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः ॥

    krāṇā́ḥ ǀ rudrā́ḥ ǀ marútaḥ ǀ viśvá-kṛṣṭayaḥ ǀ diváḥ ǀ śyenā́saḥ ǀ ásurasya ǀ nīḷáyaḥ ǀ
    tébhiḥ ǀ caṣṭe ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ índraḥ ǀ devébhiḥ ǀ arvaśébhiḥ ǀ árvaśaḥ ǁ

    krāṇāḥ ǀ rudrāḥ ǀ marutaḥ ǀ viśva-kṛṣṭayaḥ ǀ divaḥ ǀ śyenāsaḥ ǀ asurasya ǀ nīḷayaḥ ǀ
    tebhiḥ ǀ caṣṭe ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ indraḥ ǀ devebhiḥ ǀ arvaśebhiḥ ǀ arvaśaḥ ǁ

    10.92.6 Aṣṭaka 8.4.24.1Anuvāka 10.8.21

  7. Ṛk 7

    इंद्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
    प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ॥

    इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश् च पौंस्ये |
    प्र ये न्व् अस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ||

    índre bhújam śaśamānā́sa āśata sū́ro dṛ́śīke vṛ́ṣaṇaśca páuṃsye ǀ
    prá yé nvásyārháṇā tatakṣiré yújam vájram nṛṣádaneṣu kārávaḥ ǁ

    indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye |
    pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ ||

    इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।
    प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥

    इन्द्रे । भुजम् । शशमानासः । आशत । सूरः । दृशीके । वृषणः । च । पौंस्ये ।
    प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृऽसदनेषु । कारवः ॥

    índre ǀ bhújam ǀ śaśamānā́saḥ ǀ āśata ǀ sū́raḥ ǀ dṛ́śīke ǀ vṛ́ṣaṇaḥ ǀ ca ǀ páuṃsye ǀ
    prá ǀ yé ǀ nú ǀ asya ǀ arháṇā ǀ tatakṣiré ǀ yújam ǀ vájram ǀ nṛ-sádaneṣu ǀ kārávaḥ ǁ

    indre ǀ bhujam ǀ śaśamānāsaḥ ǀ āśata ǀ sūraḥ ǀ dṛśīke ǀ vṛṣaṇaḥ ǀ ca ǀ pauṃsye ǀ
    pra ǀ ye ǀ nu ǀ asya ǀ arhaṇā ǀ tatakṣire ǀ yujam ǀ vajram ǀ nṛ-sadaneṣu ǀ kāravaḥ ǁ

    10.92.7 Aṣṭaka 8.4.24.2Anuvāka 10.8.22

  8. Ṛk 8

    सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिंद्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
    भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥

    सूरश् चिद् आ हरितो अस्य रीरमद् इन्द्राद् आ कश् चिद् भयते तवीयसः |
    भीमस्य वृष्णो जठराद् अभिश्वसो दिवे-दिवे सहुरि स्तन्न् अबाधितः ||

    sū́raścidā́ haríto asya rīramadíndrādā́ káścidbhayate távīyasaḥ ǀ
    bhīmásya vṛ́ṣṇo jaṭhárādabhiśváso divédive sáhuriḥ stannábādhitaḥ ǁ

    sūraś cid ā harito asya rīramad indrād ā kaś cid bhayate tavīyasaḥ |
    bhīmasya vṛṣṇo jaṭharād abhiśvaso dive-dive sahuri stann abādhitaḥ ||

    सूरः॑ । चि॒त् । आ । ह॒रितः॑ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा॑त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी॑यसः ।
    भी॒मस्य॑ । वृष्णः॑ । ज॒ठरा॑त् । अ॒भि॒ऽश्वसः॑ । दि॒वेऽदि॑वे । सहु॑रिः । स्त॒न् । अबा॑धितः ॥

    सूरः । चित् । आ । हरितः । अस्य । रीरमत् । इन्द्रात् । आ । कः । चित् । भयते । तवीयसः ।
    भीमस्य । वृष्णः । जठरात् । अभिऽश्वसः । दिवेऽदिवे । सहुरिः । स्तन् । अबाधितः ॥

    sū́raḥ ǀ cit ǀ ā́ ǀ harítaḥ ǀ asya ǀ rīramat ǀ índrāt ǀ ā́ ǀ káḥ ǀ cit ǀ bhayate ǀ távīyasaḥ ǀ
    bhīmásya ǀ vṛ́ṣṇaḥ ǀ jaṭhárāt ǀ abhi-śvásaḥ ǀ divé-dive ǀ sáhuriḥ ǀ stan ǀ ábādhitaḥ ǁ

    sūraḥ ǀ cit ǀ ā ǀ haritaḥ ǀ asya ǀ rīramat ǀ indrāt ǀ ā ǀ kaḥ ǀ cit ǀ bhayate ǀ tavīyasaḥ ǀ
    bhīmasya ǀ vṛṣṇaḥ ǀ jaṭharāt ǀ abhi-śvasaḥ ǀ dive-dive ǀ sahuriḥ ǀ stan ǀ abādhitaḥ ǁ

    10.92.8 Aṣṭaka 8.4.24.3Anuvāka 10.8.23

  9. Ṛk 9

    स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
    येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥

    स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन |
    येभिः शिवः स्ववां एवयावभिर् दिवः सिषक्ति स्वयशा निकामभिः ||

    stómam vo adyá rudrā́ya śíkvase kṣayádvīrāya námasā didiṣṭana ǀ
    yébhiḥ śiváḥ svávām̐ evayā́vabhirdiváḥ síṣakti sváyaśā níkāmabhiḥ ǁ

    stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana |
    yebhiḥ śivaḥ svavāṃ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ ||

    स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ ।
    येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥

    स्तोमम् । वः । अद्य । रुद्राय । शिक्वसे । क्षयत्ऽवीराय । नमसा । दिदिष्टन ।
    येभिः । शिवः । स्वऽवान् । एवयावऽभिः । दिवः । सिसक्ति । स्वऽयशाः । निकामऽभिः ॥

    stómam ǀ vaḥ ǀ adyá ǀ rudrā́ya ǀ śíkvase ǀ kṣayát-vīrāya ǀ námasā ǀ didiṣṭana ǀ
    yébhiḥ ǀ śiváḥ ǀ svá-vān ǀ evayā́va-bhiḥ ǀ diváḥ ǀ sísakti ǀ svá-yaśāḥ ǀ níkāma-bhiḥ ǁ

    stomam ǀ vaḥ ǀ adya ǀ rudrāya ǀ śikvase ǀ kṣayat-vīrāya ǀ namasā ǀ didiṣṭana ǀ
    yebhiḥ ǀ śivaḥ ǀ sva-vān ǀ evayāva-bhiḥ ǀ divaḥ ǀ sisakti ǀ sva-yaśāḥ ǀ nikāma-bhiḥ ǁ

    10.92.9 Aṣṭaka 8.4.24.4Anuvāka 10.8.24

  10. Ṛk 10

    ते हि प्र॒जाया॒ अभ॑रंत॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
    य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ॥

    ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर् वृषभः सोमजामयः |
    यज्ञैर् अथर्वा प्रथमो वि धारयद् देवा दक्षैर् भृगवः सं चिकित्रिरे ||

    té hí prajā́yā ábharanta ví śrávo bṛ́haspátirvṛṣabháḥ sómajāmayaḥ ǀ
    yajñáirátharvā prathamó ví dhārayaddevā́ dákṣairbhṛ́gavaḥ sám cikitrire ǁ

    te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ |
    yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire ||

    ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः ।
    य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥

    ते । हि । प्रऽजायाः । अभरन्त । वि । श्रवः । बृहस्पतिः । वृषभः । सोमऽजामयः ।
    यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे ॥

    té ǀ hí ǀ pra-jā́yāḥ ǀ ábharanta ǀ ví ǀ śrávaḥ ǀ bṛ́haspátiḥ ǀ vṛṣabháḥ ǀ sóma-jāmayaḥ ǀ
    yajñáiḥ ǀ átharvā ǀ prathamáḥ ǀ ví ǀ dhārayat ǀ devā́ḥ ǀ dákṣaiḥ ǀ bhṛ́gavaḥ ǀ sám ǀ cikitrire ǁ

    te ǀ hi ǀ pra-jāyāḥ ǀ abharanta ǀ vi ǀ śravaḥ ǀ bṛhaspatiḥ ǀ vṛṣabhaḥ ǀ soma-jāmayaḥ ǀ
    yajñaiḥ ǀ atharvā ǀ prathamaḥ ǀ vi ǀ dhārayat ǀ devāḥ ǀ dakṣaiḥ ǀ bhṛgavaḥ ǀ sam ǀ cikitrire ǁ

    10.92.10 Aṣṭaka 8.4.24.5Anuvāka 10.8.25

  11. Ṛk 11

    ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रंगो य॒मोऽदि॑तिः ।
    दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥

    ते हि द्यावापृथिवी भूरिरेतसा नराशंसश् चतुरङ्गो यमो ऽदितिः |
    देवस् त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुर् अर्हिरे ||

    té hí dyā́vāpṛthivī́ bhū́riretasā nárāśáṃsaścáturaṅgo yamó’ditiḥ ǀ
    devástváṣṭā draviṇodā́ ṛbhukṣáṇaḥ prá rodasī́ marúto víṣṇurarhire ǁ

    te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ |
    devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire ||

    ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः ।
    दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥

    ते । हि । द्यावापृथिवी इति । भूरिऽरेतसा । नराशंसः । चतुःऽअङ्गः । यमः । अदितिः ।
    देवः । त्वष्टा । द्रविणःऽदाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे ॥

    té ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ bhū́ri-retasā ǀ nárāśáṃsaḥ ǀ cátuḥ-aṅgaḥ ǀ yamáḥ ǀ áditiḥ ǀ
    deváḥ ǀ tváṣṭā ǀ draviṇaḥ-dā́ḥ ǀ ṛbhukṣáṇaḥ ǀ prá ǀ rodasī́ íti ǀ marútaḥ ǀ víṣṇuḥ ǀ arhire ǁ

    te ǀ hi ǀ dyāvāpṛthivī iti ǀ bhūri-retasā ǀ narāśaṃsaḥ ǀ catuḥ-aṅgaḥ ǀ yamaḥ ǀ aditiḥ ǀ
    devaḥ ǀ tvaṣṭā ǀ draviṇaḥ-dāḥ ǀ ṛbhukṣaṇaḥ ǀ pra ǀ rodasī iti ǀ marutaḥ ǀ viṣṇuḥ ǀ arhire ǁ

    10.92.11 Aṣṭaka 8.4.25.1Anuvāka 10.8.26

  12. Ṛk 12

    उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ।
    सूर्या॒मासा॑ वि॒चरं॑ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतं ॥

    उत स्य न उशिजाम् उर्विया कविर् अहिः शृणोतु बुध्न्यो हवीमनि |
    सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ||

    utá syá na uśíjāmurviyā́ kavíráhiḥ śṛṇotu budhnyó hávīmani ǀ
    sū́ryāmā́sā vicárantā divikṣítā dhiyā́ śamīnahuṣī asyá bodhatam ǁ

    uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani |
    sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ||

    उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ।
    सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥

    उत । स्यः । नः । उशिजाम् । उर्विया । कविः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ।
    सूर्यामासा । विऽचरन्ता । दिविऽक्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम् ॥

    utá ǀ syáḥ ǀ naḥ ǀ uśíjām ǀ urviyā́ ǀ kavíḥ ǀ áhiḥ ǀ śṛṇotu ǀ budhnyáḥ ǀ hávīmani ǀ
    sū́ryāmā́sā ǀ vi-cárantā ǀ divi-kṣítā ǀ dhiyā́ ǀ śamīnahuṣī íti ǀ asyá ǀ bodhatam ǁ

    uta ǀ syaḥ ǀ naḥ ǀ uśijām ǀ urviyā ǀ kaviḥ ǀ ahiḥ ǀ śṛṇotu ǀ budhnyaḥ ǀ havīmani ǀ
    sūryāmāsā ǀ vi-carantā ǀ divi-kṣitā ǀ dhiyā ǀ śamīnahuṣī iti ǀ asya ǀ bodhatam ǁ

    10.92.12 Aṣṭaka 8.4.25.2Anuvāka 10.8.27

  13. Ṛk 13

    प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
    आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतं ॥

    प्र नः पूषा चरथं विश्वदेव्यो ऽपां नपाद् अवतु वायुर् इष्टये |
    आत्मानं वस्यो अभि वातम् अर्चत तद् अश्विना सुहवा यामनि श्रुतम् ||

    prá naḥ pūṣā́ carátham viśvádevyo’pā́m nápādavatu vāyúriṣṭáye ǀ
    ātmā́nam vásyo abhí vā́tamarcata tádaśvinā suhavā yā́mani śrutam ǁ

    pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye |
    ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam ||

    प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ ।
    आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥

    प्र । नः । पूषा । चरथम् । विश्वऽदेव्यः । अपाम् । नपात् । अवतु । वायुः । इष्टये ।
    आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सुऽहवा । यामनि । श्रुतम् ॥

    prá ǀ naḥ ǀ pūṣā́ ǀ carátham ǀ viśvá-devyaḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ vāyúḥ ǀ iṣṭáye ǀ
    ātmā́nam ǀ vásyaḥ ǀ abhí ǀ vā́tam ǀ arcata ǀ tát ǀ aśvinā ǀ su-havā ǀ yā́mani ǀ śrutam ǁ

    pra ǀ naḥ ǀ pūṣā ǀ caratham ǀ viśva-devyaḥ ǀ apām ǀ napāt ǀ avatu ǀ vāyuḥ ǀ iṣṭaye ǀ
    ātmānam ǀ vasyaḥ ǀ abhi ǀ vātam ǀ arcata ǀ tat ǀ aśvinā ǀ su-havā ǀ yāmani ǀ śrutam ǁ

    10.92.13 Aṣṭaka 8.4.25.3Anuvāka 10.8.28

  14. Ṛk 14

    वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
    ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पतिं॑ ॥

    विशाम् आसाम् अभयानाम् अधिक्षितं गीर्भिर् उ स्वयशसं गृणीमसि |
    ग्नाभिर् विश्वाभिर् अदितिम् अनर्वणम् अक्तोर् युवानं नृमणा अधा पतिम् ||

    viśā́māsā́mábhayānāmadhikṣítam gīrbhíru sváyaśasam gṛṇīmasi ǀ
    gnā́bhirvíśvābhiráditimanarváṇamaktóryúvānam nṛmáṇā ádhā pátim ǁ

    viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi |
    gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim ||

    वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊं॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ ।
    ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥

    विशाम् । आसाम् । अभयानाम् । अधिऽक्षितम् । गीःऽभिः । ऊं इति । स्वऽयशसम् । गृणीमसि ।
    ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृऽमनाः । अध । पतिम् ॥

    viśā́m ǀ āsā́m ǀ ábhayānām ǀ adhi-kṣítam ǀ gīḥ-bhíḥ ǀ ūṃ íti ǀ svá-yaśasam ǀ gṛṇīmasi ǀ
    gnā́bhiḥ ǀ víśvābhiḥ ǀ áditim ǀ anarváṇam ǀ aktóḥ ǀ yúvānam ǀ nṛ-mánāḥ ǀ ádha ǀ pátim ǁ

    viśām ǀ āsām ǀ abhayānām ǀ adhi-kṣitam ǀ gīḥ-bhiḥ ǀ ūṃ iti ǀ sva-yaśasam ǀ gṛṇīmasi ǀ
    gnābhiḥ ǀ viśvābhiḥ ǀ aditim ǀ anarvaṇam ǀ aktoḥ ǀ yuvānam ǀ nṛ-manāḥ ǀ adha ǀ patim ǁ

    10.92.14 Aṣṭaka 8.4.25.4Anuvāka 10.8.29

  15. Ṛk 15

    रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अंगि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रं ।
    येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

    रेभद् अत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुर् अध्वरम् |
    येभिर् विहाया अभवद् विचक्षणः पाथः सुमेकं स्वधितिर् वनन्वति ||

    rébhadátra janúṣā pū́rvo áṅgirā grā́vāṇa ūrdhvā́ abhí cakṣuradhvarám ǀ
    yébhirvíhāyā ábhavadvicakṣaṇáḥ pā́thaḥ sumékam svádhitirvánanvati ǁ

    rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram |
    yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati ||

    रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।
    येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥

    रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् ।
    येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥

    rébhat ǀ átra ǀ janúṣā ǀ pū́rvaḥ ǀ áṅgirāḥ ǀ grā́vāṇaḥ ǀ ūrdhvā́ḥ ǀ abhí ǀ cakṣuḥ ǀ adhvarám ǀ
    yébhiḥ ǀ ví-hāyāḥ ǀ ábhavat ǀ vi-cakṣaṇáḥ ǀ pā́thaḥ ǀ su-mékam ǀ svá-dhitiḥ ǀ vánan-vati ǁ

    rebhat ǀ atra ǀ januṣā ǀ pūrvaḥ ǀ aṅgirāḥ ǀ grāvāṇaḥ ǀ ūrdhvāḥ ǀ abhi ǀ cakṣuḥ ǀ adhvaram ǀ
    yebhiḥ ǀ vi-hāyāḥ ǀ abhavat ǀ vi-cakṣaṇaḥ ǀ pāthaḥ ǀ su-mekam ǀ sva-dhitiḥ ǀ vanan-vati ǁ

    10.92.15 Aṣṭaka 8.4.25.5Anuvāka 10.8.30

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.92 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

I PRAISE your Charioteer of sacrifice, the Lord of men, Priest of the tribes, refulgent, Guest of night. Blazing amid dry plants, snatching amid the green, the Strong, the Holy Herald hath attained to heaven.

Ṛk 2

Him, Agni, Gods and men have made their chief support, who drinks the fatness and completes the sacrifice. With kisses they caress the Grandson of the Red, like the swift ray of light, the Household Priest of Dawn.

Ṛk 3

Yea, we discriminate his and the niggard's ways: his branches evermore are sent forth to consume. When his terrific flames have reached the Immortal's world, then men remember and extol the Heavenly Folk.

Ṛk 4

For then the net of Law, Dyaus, and the wide expanse, Earth, Worship, and Devotion meet for highest praise, Varuṇa, Indra, Mitra were of one accord, and Savitar and Bhaga, Lords of holy might.

Ṛk 5

Onward, with ever-roaming Rudra, speed the floods: over Aramati the Mighty have they run. With them Parijman, moving round his vast domain, loud bellowing, bedews all things that are within.

Ṛk 6

Straightway the Rudras, Maruts visiting all men, Falcons of Dyaus, home-dwellers with the Asura,— Varuṇa, Mitra, Aryaman look on with these, and the swift-moving Indra with swift-moving Gods.

Ṛk 7

With Indra have they found enjoyment, they who toil, in the light's beauty, in the very Strong One's strength; The singers who in men's assemblies forged for him, according to his due, his friend the thunderbolt.

Ṛk 8

Even the Sun's Bay Coursers hath lie held in check: each one fears Indra as the mightiest of all. Unhindered, from the air's vault thunders day by day the loud triumphant breathing of the fearful Bull.

Ṛk 9

With humble adoration show this day your song of praise to mighty Rudra, Ruler of the brave: With whom, the Eager Ones, going their ordered course, he comes from heaven Self-bright, auspicious, strong to guard.

Ṛk 10

For these have spread abroad the fame of human kind, the Bull Bṛhaspati and Soma's brotherhood. Atharvan first by sacrifices made men sure: through skill the Bhṛgus were esteemed of all as Gods.

Ṛk 11

For these, the Earth and Heaven with their abundant seed, four-bodied Narāśaṁsa, Yama, Aditi, God Tvaṣṭar Wealth-bestower, the Ṛbhukṣaṇas, Rodasī, Maruts, Viṣṇu, claim and merit praise.

Ṛk 12

And may he too give car, the Sage, from far away, the Dragon of the Deep, to this our yearning call. Ye Sun and Moon who dwell in heaven and move in turn, and with your thought, O Earth and Sky, observe this well.

Ṛk 13

Dear to all Gods, may Pūṣan guard the ways we go, the Waters’ child and Vāyu help us to success. Sing lauds for your great bliss to Wind, the breath of all: ye Aśvins prompt to hear, hear this upon your way.

Ṛk 14

With hymns of praise we sing him who is throned as Lord over these fearless tribes, the Self-resplendent One. We praise Night's youthful Lord benevolent to men, the foeless One, the free, with all celestial Dames.