Sūkta 17
- Devatā देवता
- 1: Tvaṣṭṛ, Saraṇyu; 2: Saraṇyu; 3: Agni, Pūṣan; 4: Pūṣan, Savitṛ; 5, 6: Pūṣan; 7-9: Sarasvatī; 10: Apas; 11, 12, 14: Soma; 13: Bṛhaspati, Soma
- Ṛṣi ऋषि
- Devaśravas Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh Or Purastādbṛhatī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 4, 7, 9-11); virāṭtrisṭup (1, 5, 8); triṣṭup (2, 6, 12); kakummatībṛhatī (13); anuṣṭup (14)
2nd set of styles triṣṭubh (1-12); anuṣṭubh or purastādbṛhatī (13); anuṣṭubh (14)
-
Ṛk 1
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।
य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति |
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ||tváṣṭā duhitré vahatúm kṛṇotī́tīdám víśvam bhúvanam sámeti ǀ
yamásya mātā́ paryuhyámānā mahó jāyā́ vívasvato nanāśa ǁtvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti |
yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।
य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति ।
यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥tváṣṭā ǀ duhitré ǀ vahatúm ǀ kṛṇoti ǀ íti ǀ idám ǀ víśvam ǀ bhúvanam ǀ sám ǀ eti ǀ
yamásya ǀ mātā́ ǀ pari-uhyámānā ǀ maháḥ ǀ jāyā́ ǀ vívasvataḥ ǀ nanāśa ǁtvaṣṭā ǀ duhitre ǀ vahatum ǀ kṛṇoti ǀ iti ǀ idam ǀ viśvam ǀ bhuvanam ǀ sam ǀ eti ǀ
yamasya ǀ mātā ǀ pari-uhyamānā ǀ mahaḥ ǀ jāyā ǀ vivasvataḥ ǀ nanāśa ǁ10.17.1 Aṣṭaka 7.6.23.1Anuvāka 10.2.1
-
Ṛk 2
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते |
उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ||ápāgūhannamṛ́tām mártyebhyaḥ kṛtvī́ sávarṇāmadadurvívasvate ǀ
utā́śvínāvabharadyáttádā́sīdájahādu dvā́ mithunā́ saraṇyū́ḥ ǁapāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate |
utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ ||अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।
उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते ।
उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥ápa ǀ agūhan ǀ amṛ́tām ǀ mártyebhyaḥ ǀ kṛtvī́ ǀ sá-varṇām ǀ adaduḥ ǀ vívasvate ǀ
utá ǀ aśvínau ǀ abharat ǀ yát ǀ tát ǀ ā́sīt ǀ ájahāt ǀ ūṃ íti ǀ dvā́ ǀ mithunā́ ǀ saraṇyū́ḥ ǁapa ǀ agūhan ǀ amṛtām ǀ martyebhyaḥ ǀ kṛtvī ǀ sa-varṇām ǀ adaduḥ ǀ vivasvate ǀ
uta ǀ aśvinau ǀ abharat ǀ yat ǀ tat ǀ āsīt ǀ ajahāt ǀ ūṃ iti ǀ dvā ǀ mithunā ǀ saraṇyūḥ ǁ10.17.2 Aṣṭaka 7.6.23.2Anuvāka 10.2.2
-
Ṛk 3
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः |
स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ||pūṣā́ tvetáścyāvayatu prá vidvā́nánaṣṭapaśurbhúvanasya gopā́ḥ ǀ
sá tvaitébhyaḥ pári dadatpitṛ́bhyo’gnírdevébhyaḥ suvidatríyebhyaḥ ǁpūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ |
sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ ||पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।
सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः ।
सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥pūṣā́ ǀ tvā ǀ itáḥ ǀ cyavayatu ǀ prá ǀ vidvā́n ǀ ánaṣṭa-paśuḥ ǀ bhúvanasya ǀ gopā́ḥ ǀ
sáḥ ǀ tvā ǀ etébhyaḥ ǀ pári ǀ dadat ǀ pitṛ́-bhyaḥ ǀ agníḥ ǀ devébhyaḥ ǀ su-vidatríyebhyaḥ ǁpūṣā ǀ tvā ǀ itaḥ ǀ cyavayatu ǀ pra ǀ vidvān ǀ anaṣṭa-paśuḥ ǀ bhuvanasya ǀ gopāḥ ǀ
saḥ ǀ tvā ǀ etebhyaḥ ǀ pari ǀ dadat ǀ pitṛ-bhyaḥ ǀ agniḥ ǀ devebhyaḥ ǀ su-vidatriyebhyaḥ ǁ10.17.3 Aṣṭaka 7.6.23.3Anuvāka 10.2.3
-
Ṛk 4
आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् |
यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ||ā́yurviśvā́yuḥ pári pāsati tvā pūṣā́ tvā pātu prápathe purástāt ǀ
yátrā́sate sukṛ́to yátra té yayústátra tvā deváḥ savitā́ dadhātu ǁāyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt |
yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu ||आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।
यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥आयुः । विश्वऽआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ।
यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥ā́yuḥ ǀ viśvá-āyuḥ ǀ pári ǀ pāsati ǀ tvā ǀ pūṣā́ ǀ tvā ǀ pātu ǀ prá-pathe ǀ purástāt ǀ
yátra ǀ ā́sate ǀ su-kṛ́taḥ ǀ yátra ǀ té ǀ yayúḥ ǀ tátra ǀ tvā ǀ deváḥ ǀ savitā́ ǀ dadhātu ǁāyuḥ ǀ viśva-āyuḥ ǀ pari ǀ pāsati ǀ tvā ǀ pūṣā ǀ tvā ǀ pātu ǀ pra-pathe ǀ purastāt ǀ
yatra ǀ āsate ǀ su-kṛtaḥ ǀ yatra ǀ te ǀ yayuḥ ǀ tatra ǀ tvā ǀ devaḥ ǀ savitā ǀ dadhātu ǁ10.17.4 Aṣṭaka 7.6.23.4Anuvāka 10.2.4
-
Ṛk 5
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् |
स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ||pūṣémā́ ā́śā ánu veda sárvāḥ só asmā́m̐ ábhayatamena neṣat ǀ
svastidā́ ā́ghṛṇiḥ sárvavīró’prayucchanpurá etu prajānán ǁpūṣemā āśā anu veda sarvāḥ so asmāṃ abhayatamena neṣat |
svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan ||पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।
स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयऽतमेन । नेषत् ।
स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥pūṣā́ ǀ imā́ḥ ǀ ā́śāḥ ǀ ánu ǀ veda ǀ sárvāḥ ǀ sáḥ ǀ asmā́n ǀ ábhaya-tamena ǀ neṣat ǀ
svasti-dā́ḥ ǀ ā́ghṛṇiḥ ǀ sárva-vīraḥ ǀ ápra-yucchan ǀ puráḥ ǀ etu ǀ pra-jānán ǁpūṣā ǀ imāḥ ǀ āśāḥ ǀ anu ǀ veda ǀ sarvāḥ ǀ saḥ ǀ asmān ǀ abhaya-tamena ǀ neṣat ǀ
svasti-dāḥ ǀ āghṛṇiḥ ǀ sarva-vīraḥ ǀ apra-yucchan ǀ puraḥ ǀ etu ǀ pra-jānan ǁ10.17.5 Aṣṭaka 7.6.23.5Anuvāka 10.2.5
-
Ṛk 6
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः |
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ||prápathe pathā́majaniṣṭa pūṣā́ prápathe diváḥ prápathe pṛthivyā́ḥ ǀ
ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajānán ǁprapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |
ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।
उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥प्रऽपथे । पथाम् । अजनिष्ट । पूषा । प्रऽपथे । दिवः । प्रऽपथे । पृथिव्याः ।
उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥prá-pathe ǀ pathā́m ǀ ajaniṣṭa ǀ pūṣā́ ǀ prá-pathe ǀ diváḥ ǀ prá-pathe ǀ pṛthivyā́ḥ ǀ
ubhé íti ǀ abhí ǀ priyátame íti priyá-tame ǀ sadhásthe íti sadhá-sthe ǀ ā́ ǀ ca ǀ párā ǀ ca ǀ carati ǀ pra-jānán ǁpra-pathe ǀ pathām ǀ ajaniṣṭa ǀ pūṣā ǀ pra-pathe ǀ divaḥ ǀ pra-pathe ǀ pṛthivyāḥ ǀ
ubhe iti ǀ abhi ǀ priyatame iti priya-tame ǀ sadhasthe iti sadha-sthe ǀ ā ǀ ca ǀ parā ǀ ca ǀ carati ǀ pra-jānan ǁ10.17.6 Aṣṭaka 7.6.24.1Anuvāka 10.2.6
-
Ṛk 7
सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
सर॑स्वतीं सु॒कृतो॑ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने |
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ||sárasvatīm devayánto havante sárasvatīmadhvaré tāyámāne ǀ
sárasvatīm sukṛ́to ahvayanta sárasvatī dāśúṣe vā́ryam dāt ǁsarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne |
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।
सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने ।
सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥sárasvatīm ǀ deva-yántaḥ ǀ havante ǀ sárasvatīm ǀ adhvaré ǀ tāyámāne ǀ
sárasvatīm ǀ su-kṛ́taḥ ǀ ahvayanta ǀ sárasvatī ǀ dāśúṣe ǀ vā́ryam ǀ dāt ǁsarasvatīm ǀ deva-yantaḥ ǀ havante ǀ sarasvatīm ǀ adhvare ǀ tāyamāne ǀ
sarasvatīm ǀ su-kṛtaḥ ǀ ahvayanta ǀ sarasvatī ǀ dāśuṣe ǀ vāryam ǀ dāt ǁ10.17.7 Aṣṭaka 7.6.24.2Anuvāka 10.2.7
-
Ṛk 8
सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं॑ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती |
आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ||sárasvati yā́ sarátham yayā́tha svadhā́bhirdevi pitṛ́bhirmádantī ǀ
āsádyāsmínbarhíṣi mādayasvānamīvā́ íṣa ā́ dhehyasmé ǁsarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī |
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme ||सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।
आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती ।
आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥sárasvati ǀ yā́ ǀ sa-rátham ǀ yayā́tha ǀ svadhā́bhiḥ ǀ devi ǀ pitṛ́-bhiḥ ǀ mádantī ǀ
ā-sádya ǀ asmín ǀ barhíṣi ǀ mādayasva ǀ anamīvā́ḥ ǀ íṣaḥ ǀ ā́ ǀ dhehi ǀ asmé íti ǁsarasvati ǀ yā ǀ sa-ratham ǀ yayātha ǀ svadhābhiḥ ǀ devi ǀ pitṛ-bhiḥ ǀ madantī ǀ
ā-sadya ǀ asmin ǀ barhiṣi ǀ mādayasva ǀ anamīvāḥ ǀ iṣaḥ ǀ ā ǀ dhehi ǀ asme iti ǁ10.17.8 Aṣṭaka 7.6.24.3Anuvāka 10.2.8
-
Ṛk 9
सर॑स्वतीं॒ यां पि॒तरो॒ हवं॑ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः |
सहस्रार्घम् इऌओ अत्र भागं रायस् पोषं यजमानेषु धेहि ||sárasvatīm yā́m pitáro hávante dakṣiṇā́ yajñámabhinákṣamāṇāḥ ǀ
sahasrārghámiḷó átra bhāgám rāyáspóṣam yájamāneṣu dhehi ǁsarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ |
sahasrārgham iḷo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi ||सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।
स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः ।
सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥sárasvatīm ǀ yā́m ǀ pitáraḥ ǀ hávante ǀ dakṣiṇā́ ǀ yajñám ǀ abhi-nákṣamāṇāḥ ǀ
sahasra-arghám ǀ iḷáḥ ǀ átra ǀ bhāgám ǀ rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhehi ǁsarasvatīm ǀ yām ǀ pitaraḥ ǀ havante ǀ dakṣiṇā ǀ yajñam ǀ abhi-nakṣamāṇāḥ ǀ
sahasra-argham ǀ iḷaḥ ǀ atra ǀ bhāgam ǀ rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhehi ǁ10.17.9 Aṣṭaka 7.6.24.4Anuvāka 10.2.9
-
Ṛk 10
आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु ।
विश्वं॒ हि रि॒प्रं प्र॒वहं॑ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु |
विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ||ā́po asmā́nmātáraḥ śundhayantu ghṛténa no ghṛtapváḥ punantu ǀ
víśvam hí riprám praváhanti devī́rúdídābhyaḥ śúcirā́ pūtá emi ǁāpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi ||आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।
विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतऽप्वः । पुनन्तु ।
विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥ā́paḥ ǀ asmā́n ǀ mātáraḥ ǀ śundhayantu ǀ ghṛténa ǀ naḥ ǀ ghṛta-pváḥ ǀ punantu ǀ
víśvam ǀ hí ǀ riprám ǀ pra-váhanti ǀ devī́ḥ ǀ út ǀ ít ǀ ābhyaḥ ǀ śúciḥ ǀ ā́ ǀ pūtáḥ ǀ emi ǁāpaḥ ǀ asmān ǀ mātaraḥ ǀ śundhayantu ǀ ghṛtena ǀ naḥ ǀ ghṛta-pvaḥ ǀ punantu ǀ
viśvam ǀ hi ǀ ripram ǀ pra-vahanti ǀ devīḥ ǀ ut ǀ it ǀ ābhyaḥ ǀ śuciḥ ǀ ā ǀ pūtaḥ ǀ emi ǁ10.17.10 Aṣṭaka 7.6.24.5Anuvāka 10.2.10
-
Ṛk 11
द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः |
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ||drapsáścaskanda prathamā́m̐ ánu dyū́nimám ca yónimánu yáśca pū́rvaḥ ǀ
samānám yónimánu saṃcárantam drapsám juhomyánu saptá hótrāḥ ǁdrapsaś caskanda prathamāṃ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ |
samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ ||द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।
स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥drapsáḥ ǀ caskanda ǀ prathamā́n ǀ ánu ǀ dyū́n ǀ imám ǀ ca ǀ yónim ǀ ánu ǀ yáḥ ǀ ca ǀ pū́rvaḥ ǀ
samānám ǀ yónim ǀ ánu ǀ sam-cárantam ǀ drapsám ǀ juhomi ǀ ánu ǀ saptá ǀ hótrāḥ ǁdrapsaḥ ǀ caskanda ǀ prathamān ǀ anu ǀ dyūn ǀ imam ǀ ca ǀ yonim ǀ anu ǀ yaḥ ǀ ca ǀ pūrvaḥ ǀ
samānam ǀ yonim ǀ anu ǀ sam-carantam ǀ drapsam ǀ juhomi ǀ anu ǀ sapta ǀ hotrāḥ ǁ10.17.11 Aṣṭaka 7.6.25.1Anuvāka 10.2.11
-
Ṛk 12
यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥यस् ते द्रप्स स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् |
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ||yáste drapsáḥ skándati yáste aṃśúrbāhúcyuto dhiṣáṇāyā upásthāt ǀ
adhvaryórvā pári vā yáḥ pavítrāttám te juhomi mánasā váṣaṭkṛtam ǁyas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt |
adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam ||यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।
अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।
अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥yáḥ ǀ te ǀ drapsáḥ ǀ skándati ǀ yáḥ ǀ te ǀ aṃśúḥ ǀ bāhú-cyutaḥ ǀ dhiṣáṇāyāḥ ǀ upá-sthāt ǀ
adhvaryóḥ ǀ vā ǀ pári ǀ vā ǀ yáḥ ǀ pavítrāt ǀ tám ǀ te ǀ juhomi ǀ mánasā ǀ váṣaṭ-kṛtam ǁyaḥ ǀ te ǀ drapsaḥ ǀ skandati ǀ yaḥ ǀ te ǀ aṃśuḥ ǀ bāhu-cyutaḥ ǀ dhiṣaṇāyāḥ ǀ upa-sthāt ǀ
adhvaryoḥ ǀ vā ǀ pari ǀ vā ǀ yaḥ ǀ pavitrāt ǀ tam ǀ te ǀ juhomi ǀ manasā ǀ vaṣaṭ-kṛtam ǁ10.17.12 Aṣṭaka 7.6.25.2Anuvāka 10.2.12
-
Ṛk 13
यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।
अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सिं॑चतु॒ राध॑से ॥यस् ते द्रप्स स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा |
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ||yáste drapsáḥ skannó yáste aṃśúraváśca yáḥ paráḥ srucā́ ǀ
ayám devó bṛ́haspátiḥ sám tám siñcatu rā́dhase ǁyas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā |
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।
अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा ।
अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥yáḥ ǀ te ǀ drapsáḥ ǀ skannáḥ ǀ yáḥ ǀ te ǀ aṃśúḥ ǀ aváḥ ǀ ca ǀ yáḥ ǀ paráḥ ǀ srucā́ ǀ
ayám ǀ deváḥ ǀ bṛ́haspátiḥ ǀ sám ǀ tám ǀ siñcatu ǀ rā́dhase ǁyaḥ ǀ te ǀ drapsaḥ ǀ skannaḥ ǀ yaḥ ǀ te ǀ aṃśuḥ ǀ avaḥ ǀ ca ǀ yaḥ ǀ paraḥ ǀ srucā ǀ
ayam ǀ devaḥ ǀ bṛhaspatiḥ ǀ sam ǀ tam ǀ siñcatu ǀ rādhase ǁ10.17.13 Aṣṭaka 7.6.25.3Anuvāka 10.2.13
-
Ṛk 14
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।
अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शुं॑धत ॥पयस्वतीर् ओषधयः पयस्वन् मामकं वचः |
अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ||páyasvatīróṣadhayaḥ páyasvanmāmakám vácaḥ ǀ
apā́m páyasvadítpáyasténa mā sahá śundhata ǁpayasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ |
apām payasvad it payas tena mā saha śundhata ||पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।
अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः ।
अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥páyasvatīḥ ǀ óṣadhayaḥ ǀ páyasvat ǀ māmakám ǀ vácaḥ ǀ
apā́m ǀ páyasvat ǀ ít ǀ páyaḥ ǀ téna ǀ mā ǀ sahá ǀ śundhata ǁpayasvatīḥ ǀ oṣadhayaḥ ǀ payasvat ǀ māmakam ǀ vacaḥ ǀ
apām ǀ payasvat ǀ it ǀ payaḥ ǀ tena ǀ mā ǀ saha ǀ śundhata ǁ10.17.14 Aṣṭaka 7.6.25.4Anuvāka 10.2.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.