Ṛgveda · Maṇḍala 10 · Sūkta 17
Ṛk 10.17.11
Saṃhitā
द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
द्रप्सश् चस्कन्द प्रथमां अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः |
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ||
drapsáścaskanda prathamā́m̐ ánu dyū́nimám ca yónimánu yáśca pū́rvaḥ ǀ
samānám yónimánu saṃcárantam drapsám juhomyánu saptá hótrāḥ ǁ
drapsaś caskanda prathamāṃ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ |
samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ ||
Padapāṭha
द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।
स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥
द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥
drapsáḥ ǀ caskanda ǀ prathamā́n ǀ ánu ǀ dyū́n ǀ imám ǀ ca ǀ yónim ǀ ánu ǀ yáḥ ǀ ca ǀ pū́rvaḥ ǀ
samānám ǀ yónim ǀ ánu ǀ sam-cárantam ǀ drapsám ǀ juhomi ǀ ánu ǀ saptá ǀ hótrāḥ ǁ
drapsaḥ ǀ caskanda ǀ prathamān ǀ anu ǀ dyūn ǀ imam ǀ ca ǀ yonim ǀ anu ǀ yaḥ ǀ ca ǀ pūrvaḥ ǀ
samānam ǀ yonim ǀ anu ǀ sam-carantam ǀ drapsam ǀ juhomi ǀ anu ǀ sapta ǀ hotrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.017.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.25.01
- Maṇḍala · Anuvāka · Ṛk
- 10.02.011
- Devatā देवता
- 1: Tvaṣṭṛ, Saraṇyu; 2: Saraṇyu; 3: Agni, Pūṣan; 4: Pūṣan, Savitṛ; 5, 6: Pūṣan; 7-9: Sarasvatī; 10: Apas; 11, 12, 14: Soma; 13: Bṛhaspati, Soma
- Ṛṣi ऋषि
- Devaśravas Yāmāyana
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh Or Purastādbṛhatī, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.