Sūkta 6
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (4, 5); svarāḍārcītriṣṭup (1); virāṭpaṅkti (2); nicṛtpaṅkti (3); paṅktiḥ (6); pādanicṛttriṣṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।
ज्येष्ठे॑भि॒र्यो भा॒नुभि॑र्ऋषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ |
ज्येष्ठेभिर् यो भानुभिर् ऋषूणाम् पर्येति परिवीतो विभावा ||ayám sá yásya śármannávobhiragnérédhate jaritā́bhíṣṭau ǀ
jyéṣṭhebhiryó bhānúbhirṛṣūṇā́m paryéti párivīto vibhā́vā ǁayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau |
jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā ||अ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ ।
ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥अयम् । सः । यस्य । शर्मन् । अवःऽभिः । अग्नेः । एधते । जरिता । अभिष्टौ ।
ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥ayám ǀ sáḥ ǀ yásya ǀ śárman ǀ ávaḥ-bhiḥ ǀ agnéḥ ǀ édhate ǀ jaritā́ ǀ abhíṣṭau ǀ
jyéṣṭhebhiḥ ǀ yáḥ ǀ bhānú-bhiḥ ǀ ṛṣūṇā́m ǀ pari-éti ǀ pári-vītaḥ ǀ vibhā́-vā ǁayam ǀ saḥ ǀ yasya ǀ śarman ǀ avaḥ-bhiḥ ǀ agneḥ ǀ edhate ǀ jaritā ǀ abhiṣṭau ǀ
jyeṣṭhebhiḥ ǀ yaḥ ǀ bhānu-bhiḥ ǀ ṛṣūṇām ǀ pari-eti ǀ pari-vītaḥ ǀ vibhā-vā ǁ10.6.1 Aṣṭaka 7.6.1.1Anuvāka 10.1.36
-
Ṛk 2
यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑र्ऋ॒तावाज॑स्रः ।
आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः |
आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ||yó bhānúbhirvibhā́vā vibhā́tyagnírdevébhirṛtā́vā́jasraḥ ǀ
ā́ yó vivā́ya sakhyā́ sákhibhyó’parihvṛto átyo ná sáptiḥ ǁyo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ |
ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ ||यः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः ।
आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । अप॑रिऽह्वृतः । अत्यः॑ । न । सप्तिः॑ ॥यः । भानुऽभिः । विभाऽवा । विऽभाति । अग्निः । देवेभिः । ऋतऽवा । अजस्रः ।
आ । यः । विवाय । सख्या । सखिऽभ्यः । अपरिऽह्वृतः । अत्यः । न । सप्तिः ॥yáḥ ǀ bhānú-bhiḥ ǀ vibhā́-vā ǀ vi-bhā́ti ǀ agníḥ ǀ devébhiḥ ǀ ṛtá-vā ǀ ájasraḥ ǀ
ā́ ǀ yáḥ ǀ vivā́ya ǀ sakhyā́ ǀ sákhi-bhyaḥ ǀ ápari-hvṛtaḥ ǀ átyaḥ ǀ ná ǀ sáptiḥ ǁyaḥ ǀ bhānu-bhiḥ ǀ vibhā-vā ǀ vi-bhāti ǀ agniḥ ǀ devebhiḥ ǀ ṛta-vā ǀ ajasraḥ ǀ
ā ǀ yaḥ ǀ vivāya ǀ sakhyā ǀ sakhi-bhyaḥ ǀ apari-hvṛtaḥ ǀ atyaḥ ǀ na ǀ saptiḥ ǁ10.6.2 Aṣṭaka 7.6.1.2Anuvāka 10.1.37
-
Ṛk 3
ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ ।
आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥ईशे यो विश्वस्या देववीतेर् ईशे विश्वायुर् उषसो व्युष्टौ |
आ यस्मिन् मना हवींष्य् अग्नाव् अरिष्टरथ स्कभ्नाति शूषैः ||ī́śe yó víśvasyā devávīterī́śe viśvā́yuruṣáso vyúṣṭau ǀ
ā́ yásminmanā́ havī́ṃṣyagnā́váriṣṭarathaḥ skabhnā́ti śūṣáiḥ ǁīśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau |
ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ ||ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ ।
आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥ईशे । यः । विश्वस्याः । देवऽवीतेः । ईशे । विश्वऽआयुः । उषसः । विऽउष्टौ ।
आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टऽरथः । स्कभ्नाति । शूषैः ॥ī́śe ǀ yáḥ ǀ víśvasyāḥ ǀ devá-vīteḥ ǀ ī́śe ǀ viśvá-āyuḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ
ā́ ǀ yásmin ǀ manā́ ǀ havī́ṃṣi ǀ agnáu ǀ áriṣṭa-rathaḥ ǀ skabhnā́ti ǀ śūṣáiḥ ǁīśe ǀ yaḥ ǀ viśvasyāḥ ǀ deva-vīteḥ ǀ īśe ǀ viśva-āyuḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ
ā ǀ yasmin ǀ manā ǀ havīṃṣi ǀ agnau ǀ ariṣṭa-rathaḥ ǀ skabhnāti ǀ śūṣaiḥ ǁ10.6.3 Aṣṭaka 7.6.1.3Anuvāka 10.1.38
-
Ṛk 4
शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति ।
मं॒द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठः॒ सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥शूषेभिर् वृधो जुषाणो अर्कैर् देवां अच्छा रघुपत्वा जिगाति |
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निर् आ जिघर्ति देवान् ||śūṣébhirvṛdhó juṣāṇó arkáirdevā́m̐ ácchā raghupátvā jigāti ǀ
mandró hótā sá juhvā́ yájiṣṭhaḥ sámmiślo agnírā́ jigharti devā́n ǁśūṣebhir vṛdho juṣāṇo arkair devāṃ acchā raghupatvā jigāti |
mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān ||शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । जि॒गा॒ति॒ ।
म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥शूषेभिः । वृधः । जुषाणः । अर्कैः । देवान् । अच्छ । रघुऽपत्वा । जिगाति ।
मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्ऽमिश्लः । अग्निः । आ । जिघर्ति । देवान् ॥śūṣébhiḥ ǀ vṛdháḥ ǀ juṣāṇáḥ ǀ arkáiḥ ǀ devā́n ǀ áccha ǀ raghu-pátvā ǀ jigāti ǀ
mandráḥ ǀ hótā ǀ sáḥ ǀ juhvā́ ǀ yájiṣṭhaḥ ǀ sám-miślaḥ ǀ agníḥ ǀ ā́ ǀ jigharti ǀ devā́n ǁśūṣebhiḥ ǀ vṛdhaḥ ǀ juṣāṇaḥ ǀ arkaiḥ ǀ devān ǀ accha ǀ raghu-patvā ǀ jigāti ǀ
mandraḥ ǀ hotā ǀ saḥ ǀ juhvā ǀ yajiṣṭhaḥ ǀ sam-miślaḥ ǀ agniḥ ǀ ā ǀ jigharti ǀ devān ǁ10.6.4 Aṣṭaka 7.6.1.4Anuvāka 10.1.39
-
Ṛk 5
तमु॒स्रामिंद्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वं ।
आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णंति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हानां॑ ॥तम् उस्राम् इन्द्रं न रेजमानम् अग्निं गीर्भिर् नमोभिर् आ कृणुध्वम् |
आ यं विप्रासो मतिभिर् गृणन्ति जातवेदसं जुह्वं सहानाम् ||támusrā́míndram ná réjamānamagním gīrbhírnámobhirā́ kṛṇudhvam ǀ
ā́ yám víprāso matíbhirgṛṇánti jātávedasam juhvám sahā́nām ǁtam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam |
ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām ||तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।
आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥तम् । उस्राम् । इन्द्रम् । न । रेजमानम् । अग्निम् । गीःऽभिः । नमःऽभिः । आ । कृणुध्वम् ।
आ । यम् । विप्रासः । मतिऽभिः । गृणन्ति । जातऽवेदसम् । जुह्वम् । सहानाम् ॥tám ǀ usrā́m ǀ índram ǀ ná ǀ réjamānam ǀ agním ǀ gīḥ-bhíḥ ǀ námaḥ-bhiḥ ǀ ā́ ǀ kṛṇudhvam ǀ
ā́ ǀ yám ǀ víprāsaḥ ǀ matí-bhiḥ ǀ gṛṇánti ǀ jātá-vedasam ǀ juhvám ǀ sahā́nām ǁtam ǀ usrām ǀ indram ǀ na ǀ rejamānam ǀ agnim ǀ gīḥ-bhiḥ ǀ namaḥ-bhiḥ ǀ ā ǀ kṛṇudhvam ǀ
ā ǀ yam ǀ viprāsaḥ ǀ mati-bhiḥ ǀ gṛṇanti ǀ jāta-vedasam ǀ juhvam ǀ sahānām ǁ10.6.5 Aṣṭaka 7.6.1.5Anuvāka 10.1.40
-
Ṛk 6
सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती॑वंत॒ एवैः॑ ।
अ॒स्मे ऊ॒तीरिंद्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥सं यस्मिन् विश्वा वसूनि जग्मुर् वाजे नाश्वाः सप्तीवन्त एवैः |
अस्मे ऊतीर् इन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ||sám yásminvíśvā vásūni jagmúrvā́je nā́śvāḥ sáptīvanta évaiḥ ǀ
asmé ūtī́ríndravātatamā arvācīnā́ agna ā́ kṛṇuṣva ǁsaṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ |
asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva ||सम् । यस्मि॑न् । विश्वा॑ । वसू॑नि । ज॒ग्मुः । वाजे॑ । न । अश्वाः॑ । सप्ति॑ऽवन्तः । एवैः॑ ।
अ॒स्मे इति॑ । ऊ॒तीः । इन्द्र॑वातऽतमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥सम् । यस्मिन् । विश्वा । वसूनि । जग्मुः । वाजे । न । अश्वाः । सप्तिऽवन्तः । एवैः ।
अस्मे इति । ऊतीः । इन्द्रवातऽतमाः । अर्वाचीनाः । अग्ने । आ । कृणुष्व ॥sám ǀ yásmin ǀ víśvā ǀ vásūni ǀ jagmúḥ ǀ vā́je ǀ ná ǀ áśvāḥ ǀ sápti-vantaḥ ǀ évaiḥ ǀ
asmé íti ǀ ūtī́ḥ ǀ índravāta-tamāḥ ǀ arvācīnā́ḥ ǀ agne ǀ ā́ ǀ kṛṇuṣva ǁsam ǀ yasmin ǀ viśvā ǀ vasūni ǀ jagmuḥ ǀ vāje ǀ na ǀ aśvāḥ ǀ sapti-vantaḥ ǀ evaiḥ ǀ
asme iti ǀ ūtīḥ ǀ indravāta-tamāḥ ǀ arvācīnāḥ ǀ agne ǀ ā ǀ kṛṇuṣva ǁ10.6.6 Aṣṭaka 7.6.1.6Anuvāka 10.1.41
-
Ṛk 7
अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ ।
तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धंत प्रथ॒मास॒ ऊमाः॑ ॥अधा ह्य् अग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ |
तं ते देवासो अनु केतम् आयन्न् अधावर्धन्त प्रथमास ऊमाः ||ádhā hyágne mahnā́ niṣádyā sadyó jajñānó hávyo babhū́tha ǀ
tám te devā́so ánu kétamāyannádhāvardhanta prathamā́sa ū́māḥ ǁadhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ ||अध॑ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒ऽसद्य॑ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भूथ॑ ।
तम् । ते॒ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् । अध॑ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः॑ । ऊमाः॑ ॥अध । हि । अग्ने । मह्ना । निऽसद्य । सद्यः । जज्ञानः । हव्यः । बभूथ ।
तम् । ते । देवासः । अनु । केतम् । आयन् । अध । अवर्धन्त । प्रथमासः । ऊमाः ॥ádha ǀ hí ǀ agne ǀ mahnā́ ǀ ni-sádya ǀ sadyáḥ ǀ jajñānáḥ ǀ hávyaḥ ǀ babhū́tha ǀ
tám ǀ te ǀ devā́saḥ ǀ ánu ǀ kétam ǀ āyan ǀ ádha ǀ avardhanta ǀ prathamā́saḥ ǀ ū́māḥ ǁadha ǀ hi ǀ agne ǀ mahnā ǀ ni-sadya ǀ sadyaḥ ǀ jajñānaḥ ǀ havyaḥ ǀ babhūtha ǀ
tam ǀ te ǀ devāsaḥ ǀ anu ǀ ketam ǀ āyan ǀ adha ǀ avardhanta ǀ prathamāsaḥ ǀ ūmāḥ ǁ10.6.7 Aṣṭaka 7.6.1.7Anuvāka 10.1.42
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.