Sūkta 171
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Iṭa Bhārgava
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles virāḍgāyatrī (2, 4); nicṛdgāyatrī (1); gāyatrī (pādanicṛdgāyatrī) (3)
2nd set of styles gāyatrī
-
Ṛk 1
त्वं त्यमि॒टतो॒ रथ॒मिंद्र॒ प्रावः॑ सु॒ताव॑तः ।
अशृ॑णोः सो॒मिनो॒ हवं॑ ॥त्वं त्यम् इटतो रथम् इन्द्र प्रावः सुतावतः |
अशृणोः सोमिनो हवम् ||tvám tyámiṭáto ráthamíndra prā́vaḥ sutā́vataḥ ǀ
áśṛṇoḥ somíno hávam ǁtvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ |
aśṛṇoḥ somino havam ||त्वम् । त्यम् । इ॒टतः॑ । रथ॑म् । इन्द्र॑ । प्र । आ॒वः॒ । सु॒तऽव॑तः ।
अशृ॑णोः । सो॒मिनः॑ । हव॑म् ॥त्वम् । त्यम् । इटतः । रथम् । इन्द्र । प्र । आवः । सुतऽवतः ।
अशृणोः । सोमिनः । हवम् ॥tvám ǀ tyám ǀ iṭátaḥ ǀ rátham ǀ índra ǀ prá ǀ āvaḥ ǀ sutá-vataḥ ǀ
áśṛṇoḥ ǀ somínaḥ ǀ hávam ǁtvam ǀ tyam ǀ iṭataḥ ǀ ratham ǀ indra ǀ pra ǀ āvaḥ ǀ suta-vataḥ ǀ
aśṛṇoḥ ǀ sominaḥ ǀ havam ǁ10.171.1 Aṣṭaka 8.8.29.1Anuvāka 10.12.95
-
Ṛk 2
त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः ।
अग॑च्छः सो॒मिनो॑ गृ॒हं ॥त्वम् मखस्य दोधतः शिरो ऽव त्वचो भरः |
अगच्छः सोमिनो गृहम् ||tvám makhásya dódhataḥ śíró’va tvacó bharaḥ ǀ
ágacchaḥ somíno gṛhám ǁtvam makhasya dodhataḥ śiro 'va tvaco bharaḥ |
agacchaḥ somino gṛham ||त्वम् । म॒खस्य॑ । दोध॑तः । शिरः॑ । अव॑ । त्व॒चः । भ॒रः॒ ।
अग॑च्छः । सो॒मिनः॑ । गृ॒हम् ॥त्वम् । मखस्य । दोधतः । शिरः । अव । त्वचः । भरः ।
अगच्छः । सोमिनः । गृहम् ॥tvám ǀ makhásya ǀ dódhataḥ ǀ śíraḥ ǀ áva ǀ tvacáḥ ǀ bharaḥ ǀ
ágacchaḥ ǀ somínaḥ ǀ gṛhám ǁtvam ǀ makhasya ǀ dodhataḥ ǀ śiraḥ ǀ ava ǀ tvacaḥ ǀ bharaḥ ǀ
agacchaḥ ǀ sominaḥ ǀ gṛham ǁ10.171.2 Aṣṭaka 8.8.29.2Anuvāka 10.12.96
-
Ṛk 3
त्वं त्यमिं॑द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यं ।
मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥त्वं त्यम् इन्द्र मर्त्यम् आस्त्रबुध्नाय वेन्यम् |
मुहुः श्रथ्ना मनस्यवे ||tvám tyámindra mártyamāstrabudhnā́ya venyám ǀ
múhuḥ śrathnā manasyáve ǁtvaṃ tyam indra martyam āstrabudhnāya venyam |
muhuḥ śrathnā manasyave ||त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् ।
मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥त्वम् । त्यम् । इन्द्र । मर्त्यम् । आस्त्रऽबुध्नाय । वेन्यम् ।
मुहुः । श्रथ्नाः । मनस्यवे ॥tvám ǀ tyám ǀ indra ǀ mártyam ǀ āstra-budhnā́ya ǀ venyám ǀ
múhuḥ ǀ śrathnāḥ ǀ manasyáve ǁtvam ǀ tyam ǀ indra ǀ martyam ǀ āstra-budhnāya ǀ venyam ǀ
muhuḥ ǀ śrathnāḥ ǀ manasyave ǁ10.171.3 Aṣṭaka 8.8.29.3Anuvāka 10.12.97
-
Ṛk 4
त्वं त्यमिं॑द्र॒ सूर्यं॑ प॒श्चा संतं॑ पु॒रस्कृ॑धि ।
दे॒वानां॑ चित्ति॒रो वशं॑ ॥त्वं त्यम् इन्द्र सूर्यम् पश्चा सन्तम् पुरस् कृधि |
देवानां चित् तिरो वशम् ||tvám tyámindra sū́ryam paścā́ sántam puráskṛdhi ǀ
devā́nām cittiró váśam ǁtvaṃ tyam indra sūryam paścā santam puras kṛdhi |
devānāṃ cit tiro vaśam ||त्वम् । त्यम् । इ॒न्द्र॒ । सूर्य॑म् । प॒श्चा । सन्त॑म् । पु॒रः । कृ॒धि॒ ।
दे॒वाना॑म् । चि॒त् । ति॒रः । वश॑म् ॥त्वम् । त्यम् । इन्द्र । सूर्यम् । पश्चा । सन्तम् । पुरः । कृधि ।
देवानाम् । चित् । तिरः । वशम् ॥tvám ǀ tyám ǀ indra ǀ sū́ryam ǀ paścā́ ǀ sántam ǀ puráḥ ǀ kṛdhi ǀ
devā́nām ǀ cit ǀ tiráḥ ǀ váśam ǁtvam ǀ tyam ǀ indra ǀ sūryam ǀ paścā ǀ santam ǀ puraḥ ǀ kṛdhi ǀ
devānām ǀ cit ǀ tiraḥ ǀ vaśam ǁ10.171.4 Aṣṭaka 8.8.29.4Anuvāka 10.12.98
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.