Sūkta 80
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agni Saucīka Or Agni Vaiśvānara
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 5, 6); pādanicṛttriṣṭup (2, 4); nicṛttriṣṭup (3, 7)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒ग्निः सप्तिं॑ वाजंभ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठां ।
अ॒ग्नी रोद॑सी॒ वि च॑रत्समं॒जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिं ॥अग्निः सप्तिं वाजम्भरं ददात्य् अग्निर् वीरं श्रुत्यं कर्मनिष्ठाम् |
अग्नी रोदसी वि चरत् समञ्जन्न् अग्निर् नारीं वीरकुक्षिम् पुरन्धिम् ||agníḥ sáptim vājambharám dadātyagnírvīrám śrútyam karmaniṣṭhā́m ǀ
agnī́ ródasī ví caratsamañjánnagnírnā́rīm vīrákukṣim púraṃdhim ǁagniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām |
agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim ||अ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् ।
अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥अग्निः । सप्तिम् । वाजम्ऽभरम् । ददाति । अग्निः । वीरम् । श्रुत्यम् । कर्मनिःऽस्थाम् ।
अग्निः । रोदसी इति । वि । चरत् । सम्ऽअञ्जन् । अग्निः । नारीम् । वीरऽकुक्षिम् । पुरम्ऽधिम् ॥agníḥ ǀ sáptim ǀ vājam-bharám ǀ dadāti ǀ agníḥ ǀ vīrám ǀ śrútyam ǀ karmaniḥ-sthā́m ǀ
agníḥ ǀ ródasī íti ǀ ví ǀ carat ǀ sam-añján ǀ agníḥ ǀ nā́rīm ǀ vīrá-kukṣim ǀ púram-dhim ǁagniḥ ǀ saptim ǀ vājam-bharam ǀ dadāti ǀ agniḥ ǀ vīram ǀ śrutyam ǀ karmaniḥ-sthām ǀ
agniḥ ǀ rodasī iti ǀ vi ǀ carat ǀ sam-añjan ǀ agniḥ ǀ nārīm ǀ vīra-kukṣim ǀ puram-dhim ǁ10.80.1 Aṣṭaka 8.3.15.1Anuvāka 10.6.101
-
Ṛk 2
अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥अग्नेर् अप्नसः समिद् अस्तु भद्राग्निर् मही रोदसी आ विवेश |
अग्निर् एकं चोदयत् समत्स्व् अग्निर् वृत्राणि दयते पुरूणि ||agnérápnasaḥ samídastu bhadrā́gnírmahī́ ródasī ā́ viveśa ǀ
agnírékam codayatsamátsvagnírvṛtrā́ṇi dayate purū́ṇi ǁagner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa |
agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi ||अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।
अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥अग्नेः । अप्नसः । सम्ऽइत् । अस्तु । भद्रा । अग्निः । मही इति । रोदसी इति । आ । विवेश ।
अग्निः । एकम् । चोदयत् । समत्ऽसु । अग्निः । वृत्राणि । दयते । पुरूणि ॥agnéḥ ǀ ápnasaḥ ǀ sam-ít ǀ astu ǀ bhadrā́ ǀ agníḥ ǀ mahī́ íti ǀ ródasī íti ǀ ā́ ǀ viveśa ǀ
agníḥ ǀ ékam ǀ codayat ǀ samát-su ǀ agníḥ ǀ vṛtrā́ṇi ǀ dayate ǀ purū́ṇi ǁagneḥ ǀ apnasaḥ ǀ sam-it ǀ astu ǀ bhadrā ǀ agniḥ ǀ mahī iti ǀ rodasī iti ǀ ā ǀ viveśa ǀ
agniḥ ǀ ekam ǀ codayat ǀ samat-su ǀ agniḥ ǀ vṛtrāṇi ǀ dayate ǀ purūṇi ǁ10.80.2 Aṣṭaka 8.3.15.2Anuvāka 10.6.102
-
Ṛk 3
अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थं ।
अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यदं॒तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सं ॥अग्निर् ह त्यं जरतः कर्णम् आवाग्निर् अद्भ्यो निर् अदहज् जरूथम् |
अग्निर् अत्रिं घर्म उरुष्यद् अन्तर् अग्निर् नृमेधम् प्रजयासृजत् सम् ||agnírha tyám járataḥ kárṇamāvāgníradbhyó níradahajjárūtham ǀ
agnírátrim gharmá uruṣyadantáragnírnṛmédham prajáyāsṛjatsám ǁagnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham |
agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam ||अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् ।
अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥अग्निः । ह । त्यम् । जरतः । कर्णम् । आव । अग्निः । अत्ऽभ्यः । निः । अदहत् । जरूथम् ।
अग्निः । अत्रिम् । घर्मे । उरुष्यत् । अन्तः । अग्निः । नृऽमेधम् । प्रऽजया । असृजत् । सम् ॥agníḥ ǀ ha ǀ tyám ǀ járataḥ ǀ kárṇam ǀ āva ǀ agníḥ ǀ at-bhyáḥ ǀ níḥ ǀ adahat ǀ járūtham ǀ
agníḥ ǀ átrim ǀ gharmé ǀ uruṣyat ǀ antáḥ ǀ agníḥ ǀ nṛ-médham ǀ pra-jáyā ǀ asṛjat ǀ sám ǁagniḥ ǀ ha ǀ tyam ǀ jarataḥ ǀ karṇam ǀ āva ǀ agniḥ ǀ at-bhyaḥ ǀ niḥ ǀ adahat ǀ jarūtham ǀ
agniḥ ǀ atrim ǀ gharme ǀ uruṣyat ǀ antaḥ ǀ agniḥ ǀ nṛ-medham ǀ pra-jayā ǀ asṛjat ǀ sam ǁ10.80.3 Aṣṭaka 8.3.15.3Anuvāka 10.6.103
-
Ṛk 4
अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निर्ऋषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥अग्निर् दाद् द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति |
अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ||agnírdāddráviṇam vīrápeśā agnírṛ́ṣim yáḥ sahásrā sanóti ǀ
agnírdiví havyámā́ tatānāgnérdhā́māni víbhṛtā purutrā́ ǁagnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti |
agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā ||अ॒ग्निः । दा॒त् । द्रवि॑णम् । वी॒रऽपे॑शाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्रा॑ । स॒नोति॑ ।
अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा॑नि । विऽभृ॑ता । पु॒रु॒ऽत्रा ॥अग्निः । दात् । द्रविणम् । वीरऽपेशाः । अग्निः । ऋषिम् । यः । सहस्रा । सनोति ।
अग्निः । दिवि । हव्यम् । आ । ततान । अग्नेः । धामानि । विऽभृता । पुरुऽत्रा ॥agníḥ ǀ dāt ǀ dráviṇam ǀ vīrá-peśāḥ ǀ agníḥ ǀ ṛ́ṣim ǀ yáḥ ǀ sahásrā ǀ sanóti ǀ
agníḥ ǀ diví ǀ havyám ǀ ā́ ǀ tatāna ǀ agnéḥ ǀ dhā́māni ǀ ví-bhṛtā ǀ puru-trā́ ǁagniḥ ǀ dāt ǀ draviṇam ǀ vīra-peśāḥ ǀ agniḥ ǀ ṛṣim ǀ yaḥ ǀ sahasrā ǀ sanoti ǀ
agniḥ ǀ divi ǀ havyam ǀ ā ǀ tatāna ǀ agneḥ ǀ dhāmāni ǀ vi-bhṛtā ǀ puru-trā ǁ10.80.4 Aṣṭaka 8.3.15.4Anuvāka 10.6.104
-
Ṛk 5
अ॒ग्निमु॒क्थैर्ऋष॑यो॒ वि ह्व॑यंते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
अ॒ग्निं वयो॑ अं॒तरि॑क्षे॒ पतं॑तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोनां॑ ॥अग्निम् उक्थैर् ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः |
अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ||agnímuktháirṛ́ṣayo ví hvayante’gním náro yā́mani bādhitā́saḥ ǀ
agním váyo antárikṣe pátanto’gníḥ sahásrā pári yāti gónām ǁagnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ |
agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām ||अ॒ग्निम् । उ॒क्थैः । ऋष॑यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः॑ । याम॑नि । बा॒धि॒तासः॑ ।
अ॒ग्निम् । वयः॑ । अ॒न्तरि॑क्षे । पत॑न्तः । अ॒ग्निः । स॒हस्रा॑ । परि॑ । या॒ति॒ । गोना॑म् ॥अग्निम् । उक्थैः । ऋषयः । वि । ह्वयन्ते । अग्निम् । नरः । यामनि । बाधितासः ।
अग्निम् । वयः । अन्तरिक्षे । पतन्तः । अग्निः । सहस्रा । परि । याति । गोनाम् ॥agním ǀ uktháiḥ ǀ ṛ́ṣayaḥ ǀ ví ǀ hvayante ǀ agním ǀ náraḥ ǀ yā́mani ǀ bādhitā́saḥ ǀ
agním ǀ váyaḥ ǀ antárikṣe ǀ pátantaḥ ǀ agníḥ ǀ sahásrā ǀ pári ǀ yāti ǀ gónām ǁagnim ǀ ukthaiḥ ǀ ṛṣayaḥ ǀ vi ǀ hvayante ǀ agnim ǀ naraḥ ǀ yāmani ǀ bādhitāsaḥ ǀ
agnim ǀ vayaḥ ǀ antarikṣe ǀ patantaḥ ǀ agniḥ ǀ sahasrā ǀ pari ǀ yāti ǀ gonām ǁ10.80.5 Aṣṭaka 8.3.15.5Anuvāka 10.6.105
-
Ṛk 6
अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निर्गांध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥अग्निं विश ईऌअते मानुषीर् या अग्निम् मनुषो नहुषो वि जाताः |
अग्निर् गान्धर्वीम् पथ्याम् ऋतस्याग्नेर् गव्यूतिर् घृत आ निषत्ता ||agním víśa īḷate mā́nuṣīryā́ agním mánuṣo náhuṣo ví jātā́ḥ ǀ
agnírgā́ndharvīm pathyā́mṛtásyāgnérgávyūtirghṛtá ā́ níṣattā ǁagniṃ viśa īḷate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ |
agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā ||अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः ।
अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥अग्निम् । विशः । ईळते । मानुषीः । याः । अग्निम् । मनुषः । नहुषः । वि । जाताः ।
अग्निः । गान्धर्वीम् । पथ्याम् । ऋतस्य । अग्नेः । गव्यूतिः । घृते । आ । निऽसत्ता ॥agním ǀ víśaḥ ǀ īḷate ǀ mā́nuṣīḥ ǀ yā́ḥ ǀ agním ǀ mánuṣaḥ ǀ náhuṣaḥ ǀ ví ǀ jātā́ḥ ǀ
agníḥ ǀ gā́ndharvīm ǀ pathyā́m ǀ ṛtásya ǀ agnéḥ ǀ gávyūtiḥ ǀ ghṛté ǀ ā́ ǀ ní-sattā ǁagnim ǀ viśaḥ ǀ īḷate ǀ mānuṣīḥ ǀ yāḥ ǀ agnim ǀ manuṣaḥ ǀ nahuṣaḥ ǀ vi ǀ jātāḥ ǀ
agniḥ ǀ gāndharvīm ǀ pathyām ǀ ṛtasya ǀ agneḥ ǀ gavyūtiḥ ǀ ghṛte ǀ ā ǀ ni-sattā ǁ10.80.6 Aṣṭaka 8.3.15.6Anuvāka 10.6.106
-
Ṛk 7
अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिं ।
अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥अग्नये ब्रह्म ऋभवस् ततक्षुर् अग्निम् महाम् अवोचामा सुवृक्तिम् |
अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणम् आ यजस्व ||agnáye bráhma ṛbhávastatakṣuragním mahā́mavocāmā suvṛktím ǀ
ágne prā́va jaritā́ram yaviṣṭhā́gne máhi dráviṇamā́ yajasva ǁagnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim |
agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva ||अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भवः॑ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒ऽवृ॒क्तिम् ।
अग्ने॑ । प्र । अ॒व॒ । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥अग्नये । ब्रह्म । ऋभवः । ततक्षुः । अग्निम् । महाम् । अवोचाम । सुऽवृक्तिम् ।
अग्ने । प्र । अव । जरितारम् । यविष्ठ । अग्ने । महि । द्रविणम् । आ । यजस्व ॥agnáye ǀ bráhma ǀ ṛbhávaḥ ǀ tatakṣuḥ ǀ agním ǀ mahā́m ǀ avocāma ǀ su-vṛktím ǀ
ágne ǀ prá ǀ ava ǀ jaritā́ram ǀ yaviṣṭha ǀ ágne ǀ máhi ǀ dráviṇam ǀ ā́ ǀ yajasva ǁagnaye ǀ brahma ǀ ṛbhavaḥ ǀ tatakṣuḥ ǀ agnim ǀ mahām ǀ avocāma ǀ su-vṛktim ǀ
agne ǀ pra ǀ ava ǀ jaritāram ǀ yaviṣṭha ǀ agne ǀ mahi ǀ draviṇam ǀ ā ǀ yajasva ǁ10.80.7 Aṣṭaka 8.3.15.7Anuvāka 10.6.107
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.