Sūkta 52
- Devatā देवता
- 1: Viśvedevās; 2: Aśvins, Maruts, Viśvedevās; 3, 4: Agni; 5, 6: Agni, Devāḥ
- Ṛṣi ऋषि
- Agni Saucīka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-4); virāṭtrisṭup (5, 6); triṣṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।
प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन् निषद्य |
प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यम् आ वो वहानि ||víśve devāḥ śāstána mā yáthehá hótā vṛtó manávai yánniṣádya ǀ
prá me brūta bhāgadhéyam yáthā vo yéna pathā́ havyámā́ vo váhāni ǁviśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya |
pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni ||विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ ।
प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य ।
प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥víśve ǀ devāḥ ǀ śāstána ǀ mā ǀ yáthā ǀ ihá ǀ hótā ǀ vṛtáḥ ǀ manávai ǀ yát ǀ ni-sádya ǀ
prá ǀ me ǀ brūta ǀ bhāga-dhéyam ǀ yáthā ǀ vaḥ ǀ yéna ǀ pathā́ ǀ havyám ǀ ā́ ǀ vaḥ ǀ váhāni ǁviśve ǀ devāḥ ǀ śāstana ǀ mā ǀ yathā ǀ iha ǀ hotā ǀ vṛtaḥ ǀ manavai ǀ yat ǀ ni-sadya ǀ
pra ǀ me ǀ brūta ǀ bhāga-dheyam ǀ yathā ǀ vaḥ ǀ yena ǀ pathā ǀ havyam ǀ ā ǀ vaḥ ǀ vahāni ǁ10.52.1 Aṣṭaka 8.1.12.1Anuvāka 10.4.91
-
Ṛk 2
अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनंति ।
अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वां ॥अहं होता न्य् असीदं यजीयान् विश्वे देवा मरुतो मा जुनन्ति |
अहर्-अहर् अश्विनाध्वर्यवं वाम् ब्रह्मा समिद् भवति साहुतिर् वाम् ||ahám hótā nyásīdam yájīyānvíśve devā́ marúto mā junanti ǀ
áharaharaśvinā́dhvaryavam vām brahmā́ samídbhavati sā́hutirvām ǁahaṃ hotā ny asīdaṃ yajīyān viśve devā maruto mā junanti |
ahar-ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām ||अ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ ।
अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥अहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति ।
अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥ahám ǀ hótā ǀ ní ǀ asīdam ǀ yájīyān ǀ víśve ǀ devā́ḥ ǀ marútaḥ ǀ mā ǀ junanti ǀ
áhaḥ-ahaḥ ǀ aśvinā ǀ ā́dhvaryavam ǀ vām ǀ brahmā́ ǀ sam-ít ǀ bhavati ǀ sā́ ǀ ā́-hutiḥ ǀ vām ǁaham ǀ hotā ǀ ni ǀ asīdam ǀ yajīyān ǀ viśve ǀ devāḥ ǀ marutaḥ ǀ mā ǀ junanti ǀ
ahaḥ-ahaḥ ǀ aśvinā ǀ ādhvaryavam ǀ vām ǀ brahmā ǀ sam-it ǀ bhavati ǀ sā ǀ ā-hutiḥ ǀ vām ǁ10.52.2 Aṣṭaka 8.1.12.2Anuvāka 10.4.92
-
Ṛk 3
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑मं॒जंति॑ दे॒वाः ।
अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः |
अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ||ayám yó hótā kíru sá yamásya kámápyūhe yátsamañjánti devā́ḥ ǀ
áharaharjāyate māsímāsyáthā devā́ dadhire havyavā́ham ǁayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ |
ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham ||अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।
अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥अयम् । यः । होता । किः । ऊं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्ऽअञ्जन्ति । देवाः ।
अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥ayám ǀ yáḥ ǀ hótā ǀ kíḥ ǀ ūṃ íti ǀ sáḥ ǀ yamásya ǀ kám ǀ ápi ǀ ūhe ǀ yát ǀ sam-añjánti ǀ devā́ḥ ǀ
áhaḥ-ahaḥ ǀ jāyate ǀ māsí-māsi ǀ átha ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǁayam ǀ yaḥ ǀ hotā ǀ kiḥ ǀ ūṃ iti ǀ saḥ ǀ yamasya ǀ kam ǀ api ǀ ūhe ǀ yat ǀ sam-añjanti ǀ devāḥ ǀ
ahaḥ-ahaḥ ǀ jāyate ǀ māsi-māsi ǀ atha ǀ devāḥ ǀ dadhire ǀ havya-vāham ǁ10.52.3 Aṣṭaka 8.1.12.3Anuvāka 10.4.93
-
Ṛk 4
मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चरं॑तं ।
अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ॥मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् |
अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ||mā́m devā́ dadhire havyavā́hamápamluktam bahú kṛcchrā́ cárantam ǀ
agnírvidvā́nyajñám naḥ kalpayāti páñcayāmam trivṛ́tam saptátantum ǁmāṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam |
agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum ||माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।
अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् ।
अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥mā́m ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǀ ápa-mluktam ǀ bahú ǀ kṛcchrā́ ǀ cárantam ǀ
agníḥ ǀ vidvā́n ǀ yajñám ǀ naḥ ǀ kalpayāti ǀ páñca-yāmam ǀ tri-vṛ́tam ǀ saptá-tantum ǁmām ǀ devāḥ ǀ dadhire ǀ havya-vāham ǀ apa-mluktam ǀ bahu ǀ kṛcchrā ǀ carantam ǀ
agniḥ ǀ vidvān ǀ yajñam ǀ naḥ ǀ kalpayāti ǀ pañca-yāmam ǀ tri-vṛtam ǀ sapta-tantum ǁ10.52.4 Aṣṭaka 8.1.12.4Anuvāka 10.4.94
-
Ṛk 5
आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑वः॒ करा॑णि ।
आ बा॒ह्वोर्वज्र॒मिंद्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ॥आ वो यक्ष्य् अमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि |
आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम् अथेमा विश्वाः पृतना जयाति ||ā́ vo yakṣyamṛtatvám suvī́ram yáthā vo devā várivaḥ kárāṇi ǀ
ā́ bāhvórvájramíndrasya dheyāmáthemā́ víśvāḥ pṛ́tanā jayāti ǁā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi |
ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti ||आ । वः॒ । य॒क्षि॒ । अ॒मृ॒त॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि ।
आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धे॒या॒म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥आ । वः । यक्षि । अमृतऽत्वम् । सुऽवीरम् । यथा । वः । देवाः । वरिवः । कराणि ।
आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥ā́ ǀ vaḥ ǀ yakṣi ǀ amṛta-tvám ǀ su-vī́ram ǀ yáthā ǀ vaḥ ǀ devāḥ ǀ várivaḥ ǀ kárāṇi ǀ
ā́ ǀ bāhvóḥ ǀ vájram ǀ índrasya ǀ dheyām ǀ átha ǀ imā́ḥ ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayāti ǁā ǀ vaḥ ǀ yakṣi ǀ amṛta-tvam ǀ su-vīram ǀ yathā ǀ vaḥ ǀ devāḥ ǀ varivaḥ ǀ karāṇi ǀ
ā ǀ bāhvoḥ ǀ vajram ǀ indrasya ǀ dheyām ǀ atha ǀ imāḥ ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayāti ǁ10.52.5 Aṣṭaka 8.1.12.5Anuvāka 10.4.95
-
Ṛk 6
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् |
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ||trī́ṇi śatā́ trī́ sahásrāṇyagním triṃśácca devā́ náva cāsaparyan ǀ
áukṣanghṛtáirástṛṇanbarhírasmā ā́díddhótāram nyásādayanta ǁtrīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan |
aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta ||त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।
औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥trī́ṇi ǀ śatā́ ǀ trī́ ǀ sahásrāṇi ǀ agním ǀ triṃśát ǀ ca ǀ devā́ḥ ǀ náva ǀ ca ǀ asaparyan ǀ
áukṣan ǀ ghṛtáiḥ ǀ ástṛṇan ǀ barhíḥ ǀ asmai ǀ ā́t ǀ ít ǀ hótāram ǀ ní ǀ asādayanta ǁtrīṇi ǀ śatā ǀ trī ǀ sahasrāṇi ǀ agnim ǀ triṃśat ǀ ca ǀ devāḥ ǀ nava ǀ ca ǀ asaparyan ǀ
aukṣan ǀ ghṛtaiḥ ǀ astṛṇan ǀ barhiḥ ǀ asmai ǀ āt ǀ it ǀ hotāram ǀ ni ǀ asādayanta ǁ10.52.6 Aṣṭaka 8.1.12.6Anuvāka 10.4.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.