Ṛgveda · Maṇḍala 10 · Sūkta 52
Ṛk 10.52.4
Saṃhitā
मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चरं॑तं ।
अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ॥
मां देवा दधिरे हव्यवाहम् अपम्लुक्तम् बहु कृच्छ्रा चरन्तम् |
अग्निर् विद्वान् यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ||
mā́m devā́ dadhire havyavā́hamápamluktam bahú kṛcchrā́ cárantam ǀ
agnírvidvā́nyajñám naḥ kalpayāti páñcayāmam trivṛ́tam saptátantum ǁ
māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam |
agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum ||
Padapāṭha
माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।
अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥
माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् ।
अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥
mā́m ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǀ ápa-mluktam ǀ bahú ǀ kṛcchrā́ ǀ cárantam ǀ
agníḥ ǀ vidvā́n ǀ yajñám ǀ naḥ ǀ kalpayāti ǀ páñca-yāmam ǀ tri-vṛ́tam ǀ saptá-tantum ǁ
mām ǀ devāḥ ǀ dadhire ǀ havya-vāham ǀ apa-mluktam ǀ bahu ǀ kṛcchrā ǀ carantam ǀ
agniḥ ǀ vidvān ǀ yajñam ǀ naḥ ǀ kalpayāti ǀ pañca-yāmam ǀ tri-vṛtam ǀ sapta-tantum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.052.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.12.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.094
- Devatā देवता
- 1: Viśvedevās; 2: Aśvins, Maruts, Viśvedevās; 3, 4: Agni; 5, 6: Agni, Devāḥ
- Ṛṣi ऋषि
- Agni Saucīka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.