Ṛgveda · Maṇḍala 10 · Sūkta 52
Ṛk 10.52.3
Saṃhitā
अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑मं॒जंति॑ दे॒वाः ।
अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥
अयं यो होता किर् उ स यमस्य कम् अप्य् ऊहे यत् समञ्जन्ति देवाः |
अहर्-अहर् जायते मासि-मास्य् अथा देवा दधिरे हव्यवाहम् ||
ayám yó hótā kíru sá yamásya kámápyūhe yátsamañjánti devā́ḥ ǀ
áharaharjāyate māsímāsyáthā devā́ dadhire havyavā́ham ǁ
ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ |
ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham ||
Padapāṭha
अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।
अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥
अयम् । यः । होता । किः । ऊं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्ऽअञ्जन्ति । देवाः ।
अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥
ayám ǀ yáḥ ǀ hótā ǀ kíḥ ǀ ūṃ íti ǀ sáḥ ǀ yamásya ǀ kám ǀ ápi ǀ ūhe ǀ yát ǀ sam-añjánti ǀ devā́ḥ ǀ
áhaḥ-ahaḥ ǀ jāyate ǀ māsí-māsi ǀ átha ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǁ
ayam ǀ yaḥ ǀ hotā ǀ kiḥ ǀ ūṃ iti ǀ saḥ ǀ yamasya ǀ kam ǀ api ǀ ūhe ǀ yat ǀ sam-añjanti ǀ devāḥ ǀ
ahaḥ-ahaḥ ǀ jāyate ǀ māsi-māsi ǀ atha ǀ devāḥ ǀ dadhire ǀ havya-vāham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.052.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.12.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.093
- Devatā देवता
- 1: Viśvedevās; 2: Aśvins, Maruts, Viśvedevās; 3, 4: Agni; 5, 6: Agni, Devāḥ
- Ṛṣi ऋषि
- Agni Saucīka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.